सामग्री पर जाएँ

भल्लप्रक्षेपणक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भल्लप्रक्षेपणकलायाः पूर्वाभासः

[सम्पादयतु]

अस्माकं प्राचीनसाहित्ये युद्धविद्यायाः शिक्षणं नियमितरुपेंण भवति स्म । तदानीं शस्त्रास्त्र प्रयोगा मन्त्र प्रयोग-समन्विता अप्यक्रियन्त । देवा देव्यश्च स्वतन्त्ररुपेण शस्त्रास्त्रधरा एव सन्ति । ध्यानपद्येषु हस्तगतानामायुधानां वर्णनमेव देवानां परिचयायालं भवति । शस्त्राणि ह्स्ते धृत्वैव प्रयुज्यन्ते किन्त्वस्त्राणि प्रक्षिप्य प्रयुञ्जन्ति । भल्लस्योपरितनो भागो लोहमयः सुतीक्ष्णश्च भवति नीचैस्तनो भागो दण्डरुपश्च मध्यकालिका राजानोऽपि युद्धेषु भल्लप्रयोगाय विख्याताः सन्ति । तेषु महारणा-प्रतापस्य मेदपादराज्याधीशस्य भल्लः प्रसिद्ध एव ।

क्रीडाविनोदयोः कला प्रदर्शनप्रक्रियायाः समावेशेन साकमेव भल्लप्रक्षेपणकलाऽपि तस्यां स्थानभलभत । प्रारम्भे भल्लं त्रिः सञ्चरणविधिना (यं स्वीडिशप्रविधि’ रिति कथयन्ति ) प्रक्षिपन्ति स्म । अस्मिन विधौ प्रक्षेपकास्त्रिः सञ्चरणानि (पादत्रयमग्रे धावित्वा ) विधाय यथा पाषाणखण्डः दूरे प्रक्षित्यते तथैव प्रक्षिपन्ति स्म किञ्च भल्लग्रहणप्रक्रियाणां दण्डस्यान्त्यं भागं गृहीत्वा प्रक्षेपणां कुर्वन्ति स्म । एतेन धावनद्वारा गतिप्राप्तेस्तथा भल्लद्वारा लक्ष्यानुसन्धानस्य विध्योः कोऽपि नियमः स्थिरत्वं नाभजत् । अन्या अपि काश्चन त्रुटय आसन् या इमां कलां प्रगतिमतीं कर्तुं बाधिका अभवन् ।

सन् १६५२ तः १६६५ तमं वत्सरं यावदेकोऽन्यः प्रविधिरुपायुज्यत, यं ‘पौलिशप्रविधि’ नाम्ना समबोधयन् । अस्मिन् प्रविधौ भल्लप्रसुको भल्लं स्कन्धे निधाय धावति तथा समग्र्ऽपि धावने प्रक्षेपणदिशायमभिमुख एव स भवति । एतस्मिन् प्रविधौ शरीरिकं विकर्षणं वक्षसः परितस्तिष्ठति पदयोः स्थितिरपि पूर्णारुपेणाग्रेऽभिमुखी क्रियते । शरीरं पृष्ठभागतश्चापाकृतिं भजते ।

भल्लप्रक्षेपणस्य मौलिकाः सिद्धान्ताः

[सम्पादयतु]

प्रत्यहं वर्धमानेनानुरागेणा प्रक्षेपणविधीनां विकासेन सहैव भल्लप्रक्षेपण विधीनां विकासेन च भल्लप्रक्षेपणप्रविधेः समुन्नयनायास्याः कलाया विशेषज्ञैः केचन सिद्धान्ता अपि निर्धारताः सन्ति , येषां संक्षिप्तः परिचयोऽधस्ताद् दीयते ।

गतौ प्रगतिः

[सम्पादयतु]

प्रक्षेपकस्य गतिः समग्रेधावनमार्गे वर्धते तथाऽन्तिमेषु पञ्चपादसञ्चारेषु न्यूना न भवति ।

शारीरिकश्क्तेर्गतेश्च सामञ्जस्यम्

[सम्पादयतु]
अन्तिमेषु पञ्चपदक्रमणेषु शारीरिकं सङ्कर्षणं, मांसपेशीनां शक्तौ तथा पूर्वतः प्राप्ते वेगे पूर्णा सामञ्जस्य मपेक्षितमस्ति ।

प्रधिकतमा गतिः

[सम्पादयतु]

भल्ल आकृष्य प्रक्षिप्यते । पञ्चचरणक्रमणविधौ शरीरस्य पृष्ठतश्चापाकृत्याऽधिकमाकर्षणं विधीयते । शरीरस्यावनामो यावान् पृष्ठेऽधिको भविष्यति तावत्येवाधिका गतिर्लप्स्यते तथा तावत्येव दूरतरे प्रदेशे भल्लः प्रक्षेप्तुं शक्ष्यति ।

उचितः कोणः

[सम्पादयतु]

भल्लप्रक्षेपणास्य कोंणस्तस्य निर्मितेः कारणात् २८-३२ मितो (न्यूनो) भवति । एतान् सिद्धान्ताननुसृत्य प्रक्षेपकः स्वस्यां कलायां नैपुण्यमासादयितुं क्षमते ।

भल्लग्रहणविधिः

[सम्पादयतु]

पूर्वं भल्लदण्डस्य ग्रहणास्थले कोऽप्यवरोधसहायक उपायो नाभवत् । कालान्तरेण् हस्तप्रसर्पणमवरोद्धु तत्र सूत्रवेष्टनं प्रवृत्तम । तदनन्तरमपि कानिचित् काठिन्यान्यनुभूय ग्रहण-विधेरपि विकास आहितः । यथा -

चतसृभिरङ्गुलीभिर्ग्रहणविधिः

[सम्पादयतु]

भल्लो दृढतया न गृह्यतेऽपि तु हस्तस्य ग्रहण प्रक्रिया सरला संवेगरहिता च भवति । हस्तस्य चतस्रोऽप्यङ्गुलिकाः सूत्रवेष्टितस्थलाद् भल्लं गृह्णन्ति । अङ्गुष्ठ उपरितने भागे सरलो भवति तथा भल्लस्य यष्टिं स्पृशतिं । अस्मिन् विधौ मणिबन्ध बाहौ च कर्षणं तिष्ठति यद भल्लक्षेपणे न भवति सहायकम् ।

द्वाभ्यामङ्गुलीभ्यां ग्रहणविधिः

[सम्पादयतु]

‘फिनलैण्ड्-बिधि’ -‘हंगरीविधि’- नामभ्यां सम्बोध्योऽयं विधिः । फिनलेण्डविधौ मध्यमाऽङ्गुष्ठ्श्च सूत्रवेष्टितं भागं पृष्ठभागतो गृह्णानौ भवतस्तथा शिष्टे द्वे अङ्गुल्यौ बन्धे वेष्टिते स्तः । तर्जनी भल्लस्य दण्डेन सम्बद्धा तिष्ठति । सूत्रस्य बन्धनं करतले तिर्यगागच्छति । बाहुर्मणि बन्धश्च शिथिलौ भवतो येन भल्लोऽधिकया शक्त्या प्रक्षिप्यते । अनेन विधिना भल्लः समुचिते कोणेऽधिकतमायां दूरतयां प्रक्षेप्तुं पार्यते, तर्जनी भल्लं लक्ष्यभिमुखं गन्तुं सहायिका भवति वायौ च स्खल्लनाद् वारयति, उचिते वर्त्मनि प्रेरयति प्रान्तेऽङ्गुष्ठ -अमध्यमयोः शक्तिमता प्रघातेन भल्लायाधिकां शक्तिं वितरति । हंगरीविधौ केवलं तर्जनीस्थापनविधावेव सामान्यमन्तरं विद्यते । फिनलैण्डविधौ तर्जनी दण्डेन सह मनाग वलति हंगरीविधौ च सरला स्थाप्यत इति ।

भल्लप्रक्षेपणविधिः

[सम्पादयतु]

भल्ल-प्रक्षेपणे प्रावीण्यमिच्छता पूर्वमुपस्थाय भल्ल-प्रक्षेपणाभ्यासो विधेयः । तस्मिन् दक्षताप्राप्तेरनन्तरं धावनपूर्वकं गत्याऽर्जितां शक्तिं भल्लेऽर्पयितुमभ्यस्तव्यम् । प्रक्षेपणकाले पादौ प्रसार्य वामं पादं पुरस्तथा दक्ष पादं पृष्ठे निधातव्यम् । भल्लो दक्षे हस्ते, हस्तः पृष्ठे सरलः प्रसृतः, कटौ पृष्ठे वलनं, दक्षपादे भारः,दृष्टिः समक्षं, वामः करो मनाग् बलितश्च भवति । पृष्ठवर्तिनः पादस्य पुरः प्रघातेन भल्लः स्कन्धोपरि नीयते तथा शरीरस्य सर्वाङ्गनां सम्मिलितया शक्त्या सः प्रक्षिप्यते ।

भल्लं नीत्वा धावनस्य द्वौ प्रकारौ स्तः । (१) कुक्षौ भल्लं गृहीत्वा धावनं (२) स्कन्दोपरि संस्थाप्य धावनं च । एतयोः प्रथमः प्रकारो न समीचीनः । द्वितीयस्मिन् प्रकारे भल्लं दक्षिणस्कन्धे कर्णस्य समानरेखायां, भल्लस्य तीक्षणाग्रभागो नासिकाग्रस्य समानरेखायां, कूर्परः किञ्चिद दक्षिणे बहिर्भागे तथा हस्तस्य ग्रहणाविधौ सारल्यं भवति । धावनकाले प्रक्षेप्तुरुभौ ह्स्तौ चलतः । द्वावपि चरणौ सहजरीत्या समानरुपेण सञ्चरतः । तस्मिन् समये पदयोर्गतौ भल्लसञ्चालने च पूर्णं सामञ्जस्यं भवति ।

धावनगतिः, अन्तरं परीक्षणचिह्नद्वयं च

[सम्पादयतु]

भल्लप्रक्षेणस्य धावनमार्ग केवलं द्वचिह्ने भवतः । एकं प्रारम्भिके बिन्दौ द्वितीयं च चरमर्रेखायाः पञ्चचरणाक्रमणात् पूर्वम् । प्रथमद्वितीयचिह्न्योर्मध्ये २५ मीटरमितमन्तरं क्रियते । एवं समस्तो धावनमार्गः ३६ मीटरमितो दीर्घो भवति । इदमन्तरं पारयितुं प्रक्षेप्ता वेगेन न धावति किन्तु सामान्यया गत्या धावति तथा द्वितीयचिह्नादेव पञ्चपदक्रमणविधेः प्रयोगो भवति । अस्मिन् प्रथमे द्वे पदक्रमणे ‘परिवर्तक’ नाम्ना,द्वितीयं द्वे ‘प्रवर्तकनाम्नाऽन्त्यं च ‘विमोचन’ नाम्ना ख्यातानि सन्ति । केचनोत्तमाः क्रीडका एतानीत्यं प्रयुञ्जन्ति -प्रथमानि त्रीणि क्रमणानि परिवर्तकानि । चतुर्थं क्रमणं प्रवर्तकं तथान्त्यं क्रमणं विमोचकम् । एतेषु शरीरस्य पदयोर्हस्तयोर्दृष्टेश्च स्थितिषु विशिष्टानि परवर्तनानि प्रवर्तनानि च भवन्ति प्रान्ते विमोचनसज्जतापूर्वकं प्रक्षेपणं विधीयते । भल्ल-निर्माणस्य कारणात् तस्य गतौ वायोर्दिशो भूयान् प्रभावो भवति । वायोर्घर्षणं यावदधिकं भवति भल्लस्य पृष्ठे तावदेव वायोः कर्ष्णमपि प्रभूतं भवति तथा वायोरुच्छलनं तावदेव न्यूनं सम्पध्यते । यदि घर्षणं न्यूनं भवति तदा वायोः कर्षणं न्यूनं वायोरुच्छलनं चाधिकं भवति । विशेषज्ञानुसारं भल्लस्योचितः कोणः ३६ मितो मन्यते । अस्य निर्मित्यनुसारं त्रीणि प्रमुखानि केन्द्राणि भवन्ति -

१ भल्लस्य सर्वतः स्थूलभागस्य केन्द्रम्
२ गुरुत्वाकर्षणकेन्द्रम्
३ सूत्रस्य बन्धनकेन्द्रम्

यदा भल्लस्य स्थूलभागस्थ केन्द्रस्य तथा गुरुत्वाकर्षणकेन्द्रस्य मध्येऽन्तरालं न्यूनं भवति तदा भल्लोऽग्रभागबलेनाधिकं पतति । अत एवोत्तम-परिणति-प्राप्तये (१) भल्लस्य स्वीयः कोणस्तथा तस्य मुक्तेः कोणः समानौ भवेताम् तथा (२) तस्य गतौ व्यवधानं न स्यात्, उत्तमस्य भल्लस्य निर्मितौ गुरुत्वाकर्षणकेन्द्रस्य तथा सूत्रबन्धनस्थलस्यान्तराले ३-४ इंचमिता दूरता किञ्च स्थूलभागकेन्द्रस्य गुरुत्वाकर्षणकेन्द्रस्य मध्ये चान्तरालं ३-४ इंचमितं स्थापनीयम् । भल्लस्य वक्र्तारहितं ग्रहणं, शरीरस्य समस्तावयवानां प्रयोगः शक्तीनामुचितायां दिशि विनियोगः, पृष्ठवर्तिनां त्रि-क्रमणानां गतिरोधाभावो बाह्वोः शक्तेः पूर्णोपयोगश्चेति भल्ल-प्रक्षेपण-कलायाः साफल्यदायीनि तत्त्वानि सन्ति । इत्थं च -

प्राग् धावने तदनु कूर्दन-संविधाने, प्रक्षेपणेऽपि च ततः पटुतामवाप्तः ।
नानाविधास्वभिनवासु पुरातनीषु, क्रीडासु संयतमतिर्विजयं वृणीते ॥

अभिनवक्रीडातरङ्गिणी

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भल्लप्रक्षेपणक्रीडा&oldid=409518" इत्यस्माद् प्रतिप्राप्तम्