भारतसावित्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतसावित्री

महाभारतस्य अन्तिमे पर्वणि भारतसावित्री नाम्ना पद्यपञ्चकं विद्यते, तदेवम् -

मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 18-5-73a,b

हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 18-5-74a,b

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ 18-5-75a,b

न जातु कामान्न भयान्न लोभा-द्धर्मं त्यजेज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ 18-5-76a,b,c,d

इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ 18-5-77a,b

"https://sa.wikipedia.org/w/index.php?title=भारतसावित्री&oldid=483041" इत्यस्माद् प्रतिप्राप्तम्