सामग्री पर जाएँ

भारतीयप्रशासनिकसेवा (I.A.S)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


Indian Administrative Service
Service Overview
Abbreviation I.A.S.
Formed 1946
Country  India
Training Ground Lal Bahadur Shastri National Academy of Administration, Mussoorie, (Uttarakhand)
Controlling Authority Ministry of Personnel, Public Grievances and Pension, Department of Personnel and Training
Legal personality Governmental: Government service
General nature Policy Formulation
Policy Implementation
Civil administration
Advisors to Ministers
Managing bureaucracy (Center and State)
Preceding service Imperial Civil Service (1893–1946)
Cadre Size 4737 members (direct recruitment – 3398, promotion – 1339) (2013)[]
Association IAS officers Association
Head of the All India Civil Services
Cabinet Secretary
Current: Ajit Seth, IAS

भारतीयप्रशासनिकसेवा (I.A.S) (Indian Administrative Service) तिसृषु अखिलभारतीयसेवासु एषा अन्यतमा । भारतीयप्रशासनिकाधिकारिणः केन्द्रे राज्येषु च अधिकारनिर्वहणे महत्तमं पात्रं वहन्ति । ते नीतिनियामकेषु स्थानेषु कार्यं निर्वहन्ति । भारतीयसंविधानसभायाः आशयः आसीत् यत् अधिकारिगणः स्वतन्त्रतया वदेत्, भयं विना कार्यं कुर्यात् च इति । एतेषां नियुक्तिः केन्द्रसर्वकारेण क्रियते । ते केन्द्रसार्वजनिकसेवा-आयोगेन चिताः भवन्ति । परीक्षा स्तरत्रये भवति । प्राथमिकं, प्रधानं, मौखिकं च । तत्र २३ मुख्यविषयाः सन्ति । भारतीयप्रशासनिकसेवायाः प्रवेशः अतिकष्टकरः इति भावना अस्ति । चतुर्वारमेव परीक्षां स्वीकर्तुमर्हन्ति सामान्याभ्यर्थिनः । इतरनिम्नवर्गीयजनानां सप्तवारम् अवसरः दीयते । परिशिष्टजातीयाजनानां परिशिष्टवर्गस्य जनानाम् एतादृशः निर्बन्धः नास्ति । प्रवेशसमये वयः २१ वर्षाणि स्यात् । त्रिलक्षाभ्यर्थिनः प्रतिवर्षं परीक्षां स्वीकुर्वन्ति तेषु केवलं ८५० जनाः एव चिताः भवन्ति । एतेन ज्ञायते अस्याः सेवायां प्रामुख्यं तथा तदर्थं स्पर्धा च । सर्दार वल्लभबायीपटेलः अस्याः सेवायाः संरक्षकपुरुषत्वेन गणितः । तस्य मरणं यस्मिन् दिने अभवत् तद्दिने १,५०० भा.प्र.सेवायाः अधिकारिणः देहल्यां तस्य गृहस्य पुरतः प्रतिज्ञां कृतवन्तः यत् ’वयं भारतस्य सेवायां पूर्णप्रभुभक्तिम् अनवरतोत्साहं च प्रदर्शयेम’ इति । प्रायः एते अधिकारिणः मण्डलस्तरे कार्यारम्भं कुर्वन्ति ।

टिप्पणी

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]