भारतीयर्शनेषु ख्यातिस्वरूपम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


भारतीयदर्शनेषु खातिस्वरुपविमर्शः इति विधित्सितः । यद्यपि ख्यातिशब्दः दर्शनेषु ज्ञानवाचकः, तथापि अन्यथाख्यातिपरतयाऽपि ख्यातिशब्दप्रयोगः अभियुक्तैः कृतः प्रसिध्द एव । यथा हि अख्यातिरित्यत्र न ख्यात्यभावो बोध्यते अपि तु अन्यथाख्यात्यभावः । अत्र च ख्यातिशब्दः अन्यथाख्यातौ रुढः अभियुक्तप्रयोगविषयश्च । एवं च समग्रेऽस्मिन् प्रबन्धे ख्यातिशब्दस्य अन्यथाख्यातिरुपार्थं स्वीकृत्य विमर्शः विहितः । तत्र बौध्द- प्राभाकर-न्याय –अद्वैत-विशिष्टाद्वैत –द्वैतदर्शनेषु कृतः ख्यातिस्वरुपविमर्शः अबाधितानुवादपुरस्सरं इह विस्तरेण् निरुप्यते । नकेवलं ग्रन्थस्थाः विषया अनूद्यन्ते अपि तु प्राचीनख्यातिस्वरुपवादिनामुपरि अर्वाचीनैः कृता आक्षेपाः तत्तद्दार्शनिकैः कृताश्च परिहारोपायाः युक्ता अयुक्ता वेत्यपि विविच्यते । अभिनवान्यथाख्यातिवादिनां द्वैतसिध्दान्तिनां नूत्ना च विचारप्रणाली सामोदमिहोपस्थाप्यते ।

पीठिका[सम्पादयतु]

काण्वी ह्युपनिषत् अनुशास्ति-

विद्यां च अविद्यां च यस्तद् वेद उभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्रुते’ ॥ इति ।

अत्र अविद्यया मृत्युतरणं नाम अविद्यास्वारुपविमर्शपुरस्सरं तन्निराकरणमेव । यस्य अविद्यास्वरुपविज्ञानं न सम्यक् जायते तस्य विद्यास्वरुपविज्ञानमपि दुरधिगममेवेति अतिरोहितं विदुषाम् । अतोऽत्र अविद्यास्वरुपविज्ञान मावश्यकम् । विद्याप्रतिबन्धकत्वाध्दि अन्यथाख्यातिरप्यविद्याशब्देन दर्शनेषु आम्नायते । क्वचित् अविद्याकार्या भ्रान्तिरपि अन्यथाख्यातिशब्देन व्यवह्रियते । सर्वथाऽपीयम् अन्यथाख्यातिः विज्ञानेन हातव्या एव । यस्य च प्रमाणप्रमेयप्रमितिषु यथार्थज्ञानं न जायते तस्य असाधने साधनत्वाभिमानेन साधने च तदभावबुध्द्या नितान्तमेव क्लेशः अपरिहार्यः । अभावज्ञानं प्रति प्रतियोगिज्ञानस्य हेतुत्वमिव, यथार्थविज्ञानस्य अन्यथाख्यात्यभावरुपत्वात् अन्यथाख्यातिविज्ञानमन्तरा न यथार्थख्यातिस्वरुपावगतिर्भवितुमर्हतीति अन्यथाख्यातिस्वरुपम् अवश्यमेव विमृश्यम् । अतः अस्मिन् प्रबन्धे तत्तन्मतानुसारेण अखाति-आत्मख्याति –असत्ख्याति- अन्यथाख्यातिस्वरुपं विमृश्य अभिनवान्यथाख्यातिस्वरुपं च निरुप्य तस्य हातव्यता प्रतिपाद्यते ।

अध्यायषट्कयुतेऽस्मिन् प्रबन्धे एते वादाः उपस्थाप्यन्ते । तत्र हि प्रसिध्दा कारिका चाकास्ति, ख्यातिस्वरुपसंग्राहिका । यथा –

आत्मख्यातिरसत्ख्यातिः अख्यातिः ख्यातिरन्यथा ।
तथा अनिर्वचनीयख्यातिः इत्येतत् ख्यातिपञ्चकम् ॥ इति ॥
  1. अत्र आत्मख्यातिवादिनः- बौध्दैकदेशिनः विज्ञानवादिनः
  2. असत्ख्यातिवादिनः –बौध्दैकदेशिनः शून्यवादिनः
  3. अख्यातिवादिनः-प्राभाकराः, रामानुजीयाः, तार्किकैकदेशिनः
  4. अन्यथाख्यातिवादिनः- नैयायिकाः
  5. अनिर्वचनीयख्यातिवादिनः – मायावादिनः (अद्वैतवादिनः)
  6. अभिनवान्यथाख्यातिवादिनः – द्वैतसिध्दान्तानुयायिनः

अत्र आत्मख्यातिवादिनां (विज्ञानवादिनाम् ) असत्ख्यातिवादिनां (शून्यवादिनाम्) च विचारप्रणाली प्रथमेऽध्याये चिन्त्यते । द्वितीयेऽध्याये अख्यातिवादिनः गुरुमतस्य विस्तरेण विमर्शः करिष्यते । तृतीयेऽध्याये अख्यातिवादिनां रामानुजीयानां नैयायिकैकदेशिनां च अभिप्रायविशेषः प्रस्तूयते । चतुर्थेऽध्याये तार्किकाभिमतान्यथाख्यातिस्वरुपश्च विमृश्यते । पञ्चमेऽध्याये अद्वैतवादिनां अनिर्वचनीयख्यातिस्वरुपविमर्शः क्रियते । षष्ठेऽध्याये अभिनवान्यथाख्यातिवादिनां द्वैतसिध्दान्तिनां विचारप्रणाली प्रतिपाद्यते । एवं षडध्यायात्मके अस्मिन् प्रबन्धे ख्यातिविषये दर्शनषट्कविचारः विदुषामेव तोषकः तन्यते ।

आत्मख्यातिवादः[सम्पादयतु]

आत्मख्यातिवादिनां विज्ञानवादिनाम् अयमाशयः –इदं रजतमित्यत्र प्रतीयमानं रजतं सत्यमेव किन्तु आन्तरमेव । तथा हि- अत्र प्रतीयमानं रजतं न तावदसदिति शक्यते वक्तुम् ।प्रतीत्यनुपपत्तेः । नाऽपि पुरत एव सत् भ्रान्त्यनुपपत्तेः बाधानुभवविरोधाच्च । नाऽपि देशान्तरे सत्त्वं अनुभवारुढम् । अतः परिशेषात् ज्ञानाकारमेव रजतमिति वक्तव्यम् । अत्र चानुमानं मानम् । ‘इदं ज्ञानरुपम् इन्दियसम्प्रयोगे असत्यपि अपरोक्षत्वात् ज्ञानवत्’ इति । न च प्रतीयमानस्य रजतस्य सत्यत्वे भ्रान्त्यनुपपत्तिः इति वाच्यम् । आन्तरस्यैव बाह्यतया अवभासस्य भ्रमत्वेन स्वीकृतत्वात् । नेदमिति बाधकज्ञानं तु त् तस्य बाह्यतानिषेधपरमिति नानुपपत्तिलेशः ।

अयं च अभिप्रायविशेषः सङ्क्षेपेण निराक्रियते । यदि प्रतीयमानं रजतं सदित्युच्यते तर्हि असदेव रजतं प्रत्यभात् इति रजताऽसत्त्वावेदकप्रतीरिविरोधः दुष्परिहरः । ननु कथमसतः प्रतीतिरिति चेत्, आन्तरस्य बहिष्ठतया प्रतीतिरपि कथम् ? असत्त्वसाम्यात् । किञ्च रचतस्य सत्त्वे ज्ञानस्य भ्रमत्वं कुतः ? असत्प्रत्ययेन बहिस्सत्त्वमेव प्रतिषिध्यत् इति चेत्, स्यादिदं यदि रजतं आन्तरमिति प्रमितं स्यात् । अद्यापि तस्य साधयितुं प्रयतिष्यमाणत्वात् ।

अपि च ज्ञानस्यापि इन्द्रियसम्प्रयोगादेव अपरोक्षताङ्गीकारेण दृष्टान्तस्य साधनविकलता । किञ्च गुञ्जापुञ्जादौ दहनसमारोपे तस्य अन्तः सत्त्वे देहदाहप्रसङ्गः । अन्यथा अन्तरपि तस्य अविद्यमानत्वेन अत्यन्तासत्त्वं दुर्वारम् । तस्मात् नात्मख्यातिपक्षः श्रेयान् ।

असत्ख्यातिवादः[सम्पादयतु]

शून्यवादिनः पुनः असत्ख्यातिमेवं समर्थयन्ति । इदं रजतमित्यत्र प्रतीयमानं रजतं न तावत् सदेव भवितुमर्हति । बाधानुभवविरोधात् । नाऽपि सदसत् । एकस्यैव एकत्रैव सदसत्त्वविरोधात् । न च असतोऽप्रतीतिः । अन्यथाख्यातिवादिभिः असत एव तादात्म्यस्य संसर्गस्य वा प्रतिभानाभ्युपगम इव अस्माभिरपि असत्याया एव बाह्यतायाः प्रतिभासाभ्युपगमात् । सत एव् प्रतीतिरिति पक्षे भ्रान्तिबाधयोरनुपपत्तिः स्फुटैव ।

अत्रेदं विचिन्तनीयम् । यदि सदेव शुक्तिकाशकलम् अत्यन्तासद्रजतात्मना अवगाहमानं ज्ञानं असत्स्ख्यातिरित्युच्यते, तर्हि शिरः कम्पनेन अनुमन्यामहे । यदि पुनः इदं रजतमिति ज्ञाने प्रतीयमानं सर्वं असदित्युच्यते तर्हि शुक्तिकाशकलस्य प्रागूर्ध्वं सत्त्वेन प्रतीयमानस्य आनुभविकत्वेन सर्वासत्त्ववादः अनुभवविरुध्द एव ।

अपि च असदेव रजतमवभासमानं किमसत्तया अवभासते । अथा सत्तया ? आद्ये रजतमविद्यमानमिति विजानतः प्रवृत्त्यनुपपत्तिः ।द्वितीये स्वीकृता अन्यथाख्यातिरिति शुक्तिरेव रजतात्मना अवगाहत इति कुतो नाङ्गीक्रियते । तस्मात् असत्ख्यातिपक्षोऽपि न विचारसहः । एवञ्च प्रथमे अध्याये आत्मख्यातिवादिनां असत्ख्यातिवादिनां च ख्यातिस्वरुपविमर्शः क्रियते ।

इदानीं प्राभाकरमतानुरोधेन ख्यातस्वरुपविमर्शः निरुप्यते । तत्र हि सर्वं ज्ञानं यथार्थमेवेति मन्यमानाः प्राभाकराः नान्यथाख्यातिं सहन्ते । हेतुपञ्चकात् अन्यथाख्यातिरपाकृता तैः । तदुक्तम् –

साकारवादात् असतो न भानात् संविद्विरोधात् अथ हेत्वभावात् ।
धियामनाश्वासबलाच्च नेष्टा अतोऽन्यथाख्यातिरतो यथार्था’ ॥ इति ।

इदानीं कारिकाशयः सङ्क्षेपेण आविष्क्रियते ।

अन्यथाखातिनिराकरणम्[सम्पादयतु]

साकारवादात्[सम्पादयतु]

ज्ञानमात्रस्य याथार्थ्यवादी प्राभाकरः विपर्ययाभावमेवं समर्थयति । केयमन्यथाख्यातिर्नामेति । अन्यथापरिणते वस्तुनि ख्यातिर्यद्यन्यथाख्यातिः तदा घटादिप्रत्ययाः सर्वेऽपि विभ्रमाः प्रसज्येरन् ।

किञ्च शुक्तिकायाः रजताकारपरिणामः किम् सकारणः उताकारणः? न तावदकारणः । कादाचित्कत्वानुपपत्तेः सकारणश्चेत्कारणं वाच्यम् । करणदोष इति चेन्न । करणदोषस्य करणसंबन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलपदार्थानां रजतरुपपरिणामप्रसङ्गात् । दुष्टकरणसंसर्गो हेतुरिति चेत्तथाऽपि किं शुक्तित्वापगमेन रजतरुपपरिणामः । किं वा तदनपगमेन । शुक्तित्वापगमेन् चेत् र्जतरुपपरिणामः पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । शुक्तित्वानपगमेन चेत् यथा मृत्वाऽनपगमेन जाते घटे मृत्वमुपलभ्यते तथा भ्रान्तेनाऽपि तत्प्रत्येतव्यम् । किञ्च दोषवशाद्रजताकारेण् परिणता चेच्छुक्तिः तदा दोषापगमेऽपि कथं तथैव नावतिष्ठते । न हि निमित्तकारणनाशात् कार्यनाशो दृष्टः ।

किञ्चोत्पन्नं चेद्रजतं विनष्टं, तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुध्दिः । तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।

असतो न भानात्[सम्पादयतु]

वस्तुनो वस्त्वन्तरात्मता सती उताऽसती । वस्तुनो वस्त्वन्तरात्मतायाः सत्त्वे, न भ्रान्तिर्नाऽपि बाधः । सर्वस्य सर्वात्मतायाः सत्त्वेन, सर्वेषां सर्वं सर्वात्मना प्रतीयेत् । न तत्र दोषः करणसंस्कारः । किञ्चैवं सति रजतसंवित् समीचीना शुक्तिरेवेयमिति चासमीचीनाऽपद्येत ।

नापि वस्तुनो वस्त्वन्तरात्मताऽसती । असतः प्रतीत्यनुपपत्तेः । असतः प्रतीत्यनुपपत्या हि रजतस्य वस्तुत्वं अन्यत्र सत्त्वरुपं अङ्गीकृतम् । असतोऽपि प्रतीत्युपपत्तौ किं रजतस्याऽपि वस्तुत्वग्रहणेन ।

संविद्विरोधात्[सम्पादयतु]

तत्र रजतज्ञाने शुक्तिरवभासते नवेति वकव्यम् । अवभासत इति ब्रुवाणः श्र्लाघनीयप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानवान् नेति ब्रूयात्, तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकाविषयकं चेत् पटाद्य्वभासकमपि ज्ञानं घटाद्यालम्बनं स्यादित्यतिप्रसङ्गः कथं परिहरणीयः । नन्वेवमत्र रजतज्ञानस्य ( अवभासस्य) रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । न हि संप्रपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेत्, रजताभावोऽप्यङ्गीक्रियत एव पुरतः । रजत- रजताभावप्रतीत्योर्विरोधः स्यादिति चेत्, ग्रहणस्मरणात्मकतया तदुपपत्तेः ।

तदुक्तं नयवीथ्याम्-

अत्र ब्रूमो य एवार्थो यस्यां संविदि भासते ।
वेद्यः स एव नान्यध्दि वेद्यं वेद्यस्य लक्षणम् ॥
इदं रजतमित्यत्र रजतं चावभासते ।
तदेव तेन वेद्यं स्यात् न च शुक्तिरवेदनात् ॥
तेनान्यस्यान्यथाभानं प्रतीत्यैव पराहतम् ।
परस्मिन् भासमानो हि न परं भासते यतः ॥ इत्यादि ।

हेत्वाभावात्[सम्पादयतु]

न चान्यथाख्यातिजनने कारणं पश्यामः । न च चक्षुरादिकमेव कारणम् । तेषां समाचीनज्ञानकारणताऽवधारणात् । न खलु जरामरणविध्वंसहेतुर्जातु सुधा जरामरणहेतुरपि भवति । न च न केवलादिन्द्रियादथार्थज्ञानजन्म । किन्तु दोषसहकृतादिन्द्रियादिति चेत्, न । दोषाः हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति । न तु विपरीतकार्यजननशक्तिमादधाति । न खलु दुष्टं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजाङ्कुरम् । न च वक्तव्यं दावदहनदग्धानां वेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात् ।

धियामनाश्वासबलात्[सम्पादयतु]

किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथा च कथं बाह्यार्थपलापं निराकुर्मः । तथाहि –ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चेत् क्वचिद् व्यभिचरति तदा, तत्सर्वत्र शङ्कितव्यभिचारमेव । न च तच्छङ्कसंक्षालनक्षमं किञ्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसंकोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । तस्मात् क्वचिदज्ञानस्यार्थव्यभिचारित्वे सर्वत्र तच्छङ्कायाः दुर्वारत्वेन सर्वत्र ज्ञानानां यथार्थ्यमभ्युपेयमिति ।

सर्वं ज्ञानं यथार्थमिति समर्थनम्[सम्पादयतु]

प्रतिक्षिप्तं ज्ञानस्यायाथार्थ्यम् । न तावता याथार्थ्यसिध्दिः । न ह्ययाथार्थ्यप्रतिक्षेप एव याथार्थ्यमिति चेत् । उच्यते । इदं रजतम् इति हि प्रत्ययः । अत्र द्वे ज्ञाने । इदमिति पुरोवर्तिद्रव्यग्रहणम् । दोषावशात् तद्गतस्य शुक्तित्वसामान्य विशेषस्याग्रहणात् द्रव्यमात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति । स्मृतिश्च अनुभूतवस्तुविषयीकरणस्वभावाऽपि (गृहीतग्रहणस्वभावाऽपि ) दोषवशात् गृहीततत्तांशप्रमोषेण गृहीतिसरुपाऽवतिष्ठते (अनुभवसदृशीत्यर्थः) । यथानुभवः तत्ताऽनुल्लेखी तथा इदं रजतस्मरणमपि । तथा च रजतस्मृतेः पुरोवर्तिग्रहणस्य मिथ्ः स्वरुपतो (ज्ञानेन) विषयतश्च (पदार्थात् ) भेदग्रहात् सन्निहित (समीचीन) रजतज्ञानसारुप्येण इदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशञ्च प्रवर्तयतः । अत्र पुरोवर्तिद्रव्यज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्य सन्निकृष्टेऽर्थे एव ज्ञानजननसामर्थ्यात् । नात्र विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति । अतः परिशेषादिदं स्मरणमेव । किञ्च विपर्ययमङ्गीकुर्वाणेनाऽपि विवेकाग्रहो ग्राह्य एवेति विवेकाग्रहादेव सर्वोपपत्तौ किं विपर्ययकल्पनया ।

नाप्यन्यथाख्यातौ प्रमाणमस्ति । नेदमिति विवेकज्ञानस्य भेदाग्रहप्रसञ्जिताभेदव्यवाहारबाधेनैव बाधकत्वमुपपद्यते । विवेकज्ञानस्य बाधकत्वोपपत्तौ अगृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिध्दं सिध्दम् । तथा च प्रयोगः विगीतप्रत्ययो यथार्थः प्रत्ययत्वात् संप्रतिपन्नवत् इत्यादि ।

प्राभाकरमतनिरासः[सम्पादयतु]

अत्रोच्यते । अन्यदन्यात्मना विषयीकुर्वत् ज्ञानमन्यथाख्यातिरित्यङ्गीक्रियते । तथा हि- इन्द्रियदोषेण शुक्तिरेवात्यन्तासद्रजतात्मना अवगाहते । न च करणदोषस्य कारणत्वे करणसम्बन्धिनस्तस्य कथं शुक्तिकापरिणामहेतुत्वमिति वाच्यम् । परिणामपक्षानङ्गीकारादित्युक्तम् । शुक्तौ रजते च् चाकचक्यतारुपसमानधर्मसद्भावात् शुक्तिं दृष्टवतः इन्द्रियदोषेण तत्र सादृश्याद् भवति रजतप्रतीतिः । असादृश्यादेव न च भवति रज्जुप्रतीतिः । असतो न प्रतीतिरिति चेत् कथं तर्हि असद्वैलक्षण्यं परः प्रतीयात् । वैलक्षण्यज्ञानं प्रति प्रतियोगिभूतासतः विज्ञानस्यावर्जनीयत्वात् । तस्मादसदपि प्रतीयत इति वाच्यमेव । तथा च शुक्तिरेवात्यन्तासद्रजतात्मनाऽवगाहत इत्युक्तं युक्तमेव ।

ननु कथं तर्हि रजतज्ञानं शुक्तिविषयकं भवितुमर्हति । ज्ञानस्यान्यालम्बनत्वे पटज्ञानं घटविषयकं कुतो न स्यात् । कथं च तदाऽनाश्वासप्रसङ्गः परिहरणीय इति चेत् उच्यते । यत्सन्निकृष्टकरणेन यद्ज्ञानं जन्यते स तस्य विषय इति विषयत्वपरिष्कारः । तत्र समिचीनज्ञानस्थले रजतसन्निकृष्टचक्षुषा जायमानम् इदं रजतम् इति ज्ञानं रजतविषयकमेव । भ्रमस्थले तु शुक्तिविषयकम् । न चाव्यवस्था । इन्द्रियदोषस्य नियामकस्योक्तत्वात् ।

किञ्च विषयत्वं रजतस्यापि नास्माकं भ्रमस्थलेऽसम्प्रतिपन्नम् । तथा हि –तत्र यत्सन्निकृष्टकरणेन इत्याद्युक्तविषयत्वाभावेऽपि व्यावर्तकत्वरुपविषयत्वस्य विद्यमानत्वात् । रजतं तत्र तिष्ठतु मा वा रजतज्ञानं रजतेतराद् व्यावृत्तिर्धी जनयतीति सर्वसम्प्रतिपन्नम् । तथा च रजतस्य यत्सन्निकृष्टेत्याद्युक्तविषयत्वाभावेऽपि व्यावर्तकत्वरुपरुपविषयत्वसद्भावात् रजतज्ञानस्य रजतविषयकत्वमप्युपपद्यत एव ।

न च विपर्ययजनने कारणाभावः । इन्द्रियादेरेव तध्देतुत्वात् । समीचीनज्ञानजनकस्य इन्द्रियादेः दोषकलिपितत्वदशायां विभ्रमजनकत्वोपपत्तेः । दृष्टं हि यथा अरोगनिदानस्यान्नस्य विषलेशसंयुक्तस्य रोगनिदानत्वं, मृतिहेतोर्विषस्य जीवनदोषधिविशॆषसंयुक्तस्य प्राणकारणत्वं तथेहापि दुष्टसहकारिविशेषसमवहितस्य इन्द्रियस्य विपरीतज्ञानोत्पादकत्वं नाप्रमाणकम् ।

एतेनैव धियामनाश्वासभयोऽपि दूरोत्सारितो वेदितव्यः । नियतयथार्थः खलु साक्षी चैतन्यरुपः ज्ञानं तद्याथार्थ्यं च स्वयमेव गृह्णतीति अस्माकं सिध्दान्तः । उत्तरत्र महाप्रबन्धे विशदीक्रियते चायमर्थः । एवं च अनाश्वासनिरसनोपायसद्भावात् मानसेऽर्थे संशयविपर्ययजननेऽपि साक्षिगृहीतेऽर्थे सुखादिषु संशयाद्यननुभवाच्च युक्त एव उक्तोऽर्थः । तस्मात् अन्यथास्वरुपमवश्यमभ्युपेयम् इति स्थितम् ।एवं द्वितीयेऽध्याये प्राभाकरमतानुरोधेन ख्यातिस्वरुपमनूद्यनिराकृत्य च अन्यथाख्यातिरभ्युपेयेति समर्थनं कृतम् ।

सत्ख्यति-असत्ख्यतिरूपविमर्शः[सम्पादयतु]

अग्रे विशिष्टाद्वैतिनां भगवद्रामानुजमतानुयायिनां सिध्दान्तानुरोधेन ख्यातिस्वरुपविमर्शः तार्किकैकदेशमतानुरोधेन च अख्यातिस्वरुपविमर्श्ः क्रियते । रामानुजीया अपि ‘तासां त्रिवृत्तं त्रिवृत्तमेकैकाम् करवाणीति’ ‘त्र्यात्मकत्वात्’ ‘इत्यादिसूत्रबलाच्च सर्वत्र सर्वसद्भावं मन्यन्ते । अत एव वेदोक्तं सोमाभावे पूतिकग्रहणं व्रीह्यभावे नीवारग्रहणं च समञ्जसमित्युपपादयन्ति । एवं च शुक्तिकाया रजतांशसद्भावात् यथार्थ एवायं प्रत्ययः । दोषवशादिन्द्रियं शुक्तौ विद्यमानं शुक्तयंशं भूयांसं यदा न गृह्णाति तदा जातं रजतज्ञानं भ्रमात्मकमुच्यते । इन्द्रियदोषापगमे इयं शुक्तिः इति तन्निष्ठभूयस एवांशस्योपलम्भे रजतज्ञानमल्पविषयकं निवर्तते इति व्याचक्षते ।

तन्न मनोरमम् । तथात्वे शुक्तौ रजतवत् सर्वस्याऽपि प्रतीतिर्दुष्परिहरा । त्रिवृत्करणप्रक्रियानुरोधेन भवद्रीत्या सर्वत्र सर्वस्य सद्भावाच्च । किञ्च ज्ञानस्याल्पांशग्रहणाद् भ्रमत्वं भूयस्त्वग्रहणात् प्रमात्वव्यवहार् इति तु अत्यन्तासङ्गतम् । अनन्तानवद्यकल्याणगुणाकरब्रह्मज्ञानस्य अस्मन्निष्ठस्य अल्पांशग्राहित्वेन महाभ्रान्तित्वापत्तेः । विस्तरस्तु उत्तरत्र भविष्यति ।

एवमेव तार्किकैकदेशिनः (न्यायकल्पतरुकाराः ) अन्यथाख्यातिं न सहन्ते । इदं रजतम् इत्यत्र रजतस्ंस्कारदोषविशिष्टमिन्द्रियं शुक्तिसन्निकृष्टं रजत- शुक्ति – इदमंशविषयं तत्संसर्गासंसार्गानवबोधकं सविकल्पकज्ञानं जनयतीति मन्यन्ते ।

तदसत् । भेदाग्रहः किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवेति प्राभाक्रपक्षोक्तदोषाणामत्रापि विद्यमानत्वात् । एवं रामानुजीयाणां तार्किकैकदेशिनां च अख्यातिवादिनामाशयविशेषः तृतीयेऽस्मिन्नध्याये विमृश्यते ।

तार्किकाभिमतख्यातिस्वरुपविमर्शः[सम्पादयतु]

अन्यथाख्यातिवादिनां प्राचीनतार्किकाणाम् अभिप्रायविशेषः निराचिकीर्षितः । तदर्थमारम्भे तदीयप्रक्रियाविशॆषः अनूद्यते । तथा हि –इदं रजतम् इत्यत्र प्रतीयमानं रजतं सदेवेति तार्किकाणां राध्दान्तः । अत्र इदं रजतम् तत्तादात्म्यं चेति त्रितयम्, इदं च रजतत्व्ं च तत्संसर्गश्चेति त्रितयं वा अवभासते । तत्र रजतरजतत्वयोः इदंकारास्पदस्य च बाधकाभावात् नासत्त्वमङ्गीकारार्हम् । तादात्म्यस्य संसर्गस्य वा बाधकसत्वात् विसंवादाच्च असत्त्वं न निराक्रियते । गौरवलाघवविमर्शादिना समयप्रवर्धकानां तार्किकाणां लाघवपक्ष एव मन्ः प्रसरात् इहापि तादत्म्यस्य संसर्गस्य वा असत्वाभ्युपगमे न किञ्चन बाधकं प्रतीयते । तदुक्तम् –असम्भवि च यावत्तु तावत्संपरिहीयताम्’ इति ।

न च नेदं रजतम् इति बाधज्ञानमेव रजतस्य असत्त्वमावेदयतीति वाच्यम् । तस्य रजतविषयकत्वकल्पनायां कल्पनागौरवात् । तदुक्तं विद्यावृध्देः –

एकदेशापवादेन कल्प्यमाने च बाधके ।
न सर्वबाधनं युक्तम् इति न्यायविदः स्थिताः ॥ इति ।

किञ्च रजतस्य अत्यन्तासत्त्वाभ्युपगमे पुरतः प्रतिभास एव नोपपद्यते । पुरतः प्रतिभासात् बाधसमये अदर्शनाच्च देशान्तरे सत्त्वमङ्गीकारार्हम् इति । तदेतत्तार्किकमतं प्रमाणबहिर्भूटमिति युक्तमुत्पश्यामः | तथा हि – यदि प्रतीयमानं रजतं सदित्यभ्युपगम्यते तर्हि ‘असदेव रजतं प्रत्यभात्’ इत्यनुभवस्य विरोधः कथं परिह्रियते । अत्र रजतस्यासत्त्वेऽपि अन्यत्र सत्त्वमभ्युपगम्यत इति तु मौढ्यप्रदर्शनमात्रम् । अत्र प्रतीतस्य अन्यत्र सत्त्वे मानाभावात् ।

ननु रजतस्य असत्त्वे कथं प्रतीतिरिति चेत्, सत्त्वेऽपि कथमिति पृच्छामः । न ह्यन्यत्र सत्त्वम् अत्र प्रतीतेः उपकारकं भवति । इन्द्रियसन्निकर्षार्थं वा तदभ्युपेयम् । अथ संस्कारसिध्द्यर्थं वा । नाद्यः, विप्रकृष्टेन रजतेन सन्निकर्षायोगात् । शुक्तिसन्निकृष्टेन चक्षुषैव भ्रान्तिजन्मोपपत्तेः । न द्वितीयः संस्कारसिध्दिर्हि रजतानुभवमाक्षिपति । अनुभवश्च पारमार्थिकीं रजतसत्ताम । सति चैवं अत्र प्रतीतस्यैव अन्यत्र सत्ता कुतः कल्प्या ।

किञ्च अतीतादिविषयकज्ञानजनने ज्ञानविषयस्य पुरतोऽभावेन कथं प्रतीतिः । कालान्तरे तस्य सत्त्वमासीदिति चेत् आस्तां तावत् । इदानीं तु सन्निकर्षाभावात् कथं प्रतीतिरिति प्रश्नस्यापरिहार्यत्वात् ।

किञ्च असतः प्रतीत्यसम्भवे तादात्म्यस्य कथमवभासः । तस्मात् तादात्म्यस्य संसर्गमात्रस्य वा असत्वाभ्युपगमः, अत्र प्रतीतस्य रजतस्य अन्यत्र सत्वाभ्युपगमश्च न विवेकिनां तोषाय भवतीति तार्किकमतं न युक्तिसहमिति मन्यामहे । एवञ्च तुरीयेऽस्मिन्नध्याये तार्किकाभिमतख्यातिस्वरुपविमर्शः कृतः ।

अनिर्वचनीयख्यतिरूपविनर्ञ्चशः[सम्पादयतु]

अत्र अद्वैतमतानुरोधेन ख्यातिस्वरुपविमर्शः क्रियते । मायावादिनो वदन्ति । अनिर्वचनीयमेव शुक्तिकादौ प्रतीयमानं रजतादिकम् । अत्र अनुमानमेव प्रमाणम् । तथा हि- शुक्तिरजतादिकम्, अनिर्वाच्यम् दोषप्रयुक्तभानत्वात्, भ्रान्तिसिध्दतादात्म्यवत् इति । तदनुपपन्नम्, प्रमाणाभावात् । अत्रेदं प्रष्टव्यम्- किमिदम् अनिर्वाच्यत्वं नाम ? यन्न सन्नासन्नापि सदसत् अनिर्वाच्यं, तस्य भावः अनिर्वाच्यत्वम्’ इति चेन्न । शुक्तिरजतादेः सत्त्वस्य, सदसत्त्वस्य च अस्माभिरनङ्गीकृतत्वेन सदसद्विलक्षणत्वम् सिध्दमिति सिध्दसाधनम् ।

अथ असत्त्वाभावमात्रं साध्यं, तथापि असदेव रजतं प्रत्यभादित्यनुभवविरोधः । विवादपदम् अनिर्वचनीयम् भ्रमविषयत्वात्, यन्नेवं, तन्नेवं, यथा आत्मा इति अनुमानं मानमस्तु इति चेत्, न । अत्रापि सिध्दसाधनत्वाद्यपरिहारात् । अप्रसिध्दविशेषणश्च पक्षः ।शुक्त्यादौ आत्मनि च भ्रमविषयत्वस्य वर्तमानतया विरुध्दश्च हेतुः । यत्र यत्र भ्रमविषयत्वं तत्र तत्र अनिर्वचनीयत्वाभावः इत्यपि वक्तुं शक्यत्वेन हेतुः विरुध्दः । आत्मनः अपि मायिमते अधिष्ठानत्वेन भ्रमविषयत्वात् । सिध्दान्ते च निर्गुणत्वादिभ्रमविषयत्वोपगमात् ।

अतः अनुमानात् शुक्तिरजतादेः अनिर्वाच्यतासिध्दिः न भवति । ख्यातिबाधान्यथाऽनुपपत्तिश्च अनेनैव निराकृता वेदितव्या । एवञ्च पञ्चमेऽस्मिन्नध्याये अनिर्वचनीयस्वरुपनिराकरणपुरस्सरं शुक्तिरजतस्य अनिर्वचनीयत्वमपाक्रियते

अभिनवान्यथाख्यातिरूपविमर्शः[सम्पादयतु]

इदानीम् अभिनवान्यथाख्यातिवादिनां द्वैतिनां विचारप्रणाली ख्यातिस्वरुपविषये निरुप्यते । अन्यथाख्यातिवादिनो हि नैयायिकाः पुरतः प्रतीयमानस्य रजतस्य अन्यत्र सत्त्वं तादात्म्यस्य संसर्गस्य वा असत्त्वमभ्युपयन्ति । अभिनवान्यथाख्यातिवादिनां द्वैतिनां मते तु शुक्तौ प्रतीयमानं रजतम् अत्यन्तासदेव इत्युच्यते । तथा हि टीकावचनम् –असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवात् शुक्तिरेव अत्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः’ इति ।

एवञ्च दोषसन्निकृष्टेन चक्षुषा जायमानं रजतज्ञानं विशेष्यांशे यथार्थमपि प्रकारांशे अयथार्थं प्रतिभासते । अत्र च प्रतीयमानं रजतं अन्यत्र सदित्यत्र मानाभावात् अत्यन्तासदेव रजतं शुक्तौ सादृश्यवशात् भासत इति अभ्युपगमे न कोऽपि दोष इति विस्तरेणेह अध्याये प्रपञ्च्यते । एवं षटसु अध्यायेषु ख्यातिस्वरुपविमर्शः विदुषां मनस्तोषाय भवतीति मन्यामहे ।

उपसंहारः[सम्पादयतु]

अस्मिन् समग्रे प्रबन्धे कृतेन ख्यातिस्वरुपविमर्शनेन महानयं लाभः जिज्ञासूनां भवति येन च अविद्याप्रहाणेन विद्यास्वरुपविज्ञानेन च भगवतः परमेश्वरस्य यथार्थज्ञानं जायत इति । यथार्थज्ञानजनने च भगवतः नारायणस्य प्रसादः सिध्द एव । उक्तं च भगवता कृष्णेन ‘ज्ञानी त्वात्मैव मे मतम् ’ इति एवञ्च प्रसन्ने श्रीनिकेतने हृदयग्रन्थिः भिद्यते । संशयाश्च सर्वे छिद्यन्ते । कर्माण्यपि क्षीयन्ते । भवति च भगवतः साक्षात्कारः । तेन च भवति स्वरुपानन्दाविर्भावलक्षणा मुक्तिरिति अर्थवानयं प्रयासः ।

सम्बद्धाः लेखाः[सम्पादयतु]