भारतीयसंस्कृतेः मूलतत्त्वानि
सत्याहिंसादिगुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका ।
विश्वशान्ति सुखधात्री भारतीया हि संस्कृतिः ॥
भारतीयसंस्कृतेः स्वरूपम्
[सम्पादयतु]सम्यक्कृतिः संस्कृतिः कथ्यते । या मनसः आत्मनो वा संस्कारं करोति सा संस्कृतिः । सम् इत्युपसर्गपूर्वकं क्ञ्धातोः ’स्त्रियां क्तिन्’प्रत्यये सति ’संस्कृतिः’ इति शब्दः निष्पन्नी भवति । संस्करणं परिष्करणं चेतसः आत्मनो वा संस्कृतिः इति समभिधीयते । भारतीया संस्कृतिः विश्वस्य सर्वासु संस्कृतिषु प्राचीना श्रेष्ठा प्रेष्ठा च इति सर्वैः विद्वद्भिः स्वीक्रियते । संस्कृतिः मानव-अन्तःकरणस्य अज्ञानं दूरीकरोति, चित्तभ्रममपहरति, ज्ञानलोकं प्रकाशयति च । अतः यथा मानवस्य श्रेष्ठप्रवृत्तीनां सन्तुलनं भवति तथा आचारस्य पवित्रतायाः व्यवहाराणाम् उत्कृष्टतायाः च सम्यक् ज्ञानं भवति सा संस्कृतिः । अतः एवोक्तं मनुना –
- एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
- स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः ॥ (मनुस्मृतिः)
भारतीयसंस्कृतेः महत्त्वम्
[सम्पादयतु]संस्कृतेः विचारस्वातन्त्र्यं सदाचारपालनं धर्मप्राधान्यं, दुर्भावदमनं पापस्य अपाकरणं, दुःखदहनं ज्ञानज्योतिप्रदानं, अविद्यातमोपहरणं, सुखसाधनं, सत्यस्थापनम् असत्यप्रशमनं, शान्तिप्रदानं विश्वबन्धुत्वस्थापनं मनोऽमलीकरणम् इत्यादयः दुर्लभाः गुणाः विराजन्ते । सर्वेषां धर्माणां सम्प्रदायानाम् आचाराणां च परस्परं समन्वयः संस्कृतेः एव आधारेण कर्तुं शक्यते । जीवनस्य आर्थिक-सामाजिक-राजनैतिक-कला-शिक्षा-धर्मादिषु उन्नतिकारकः चेतः संशुद्धिकारकश्च चिन्तनव्यापारः संस्कृतिः वर्तते । साहित्यं संस्कृतिः वाहकमस्ति । एषा संस्कृतिः न केवलं भारतदेशस्य अपि तु समग्रविश्वस्य मुकुटायमानास्ति ।
संस्कृतेः मूलं संस्कृतम्
[सम्पादयतु]संस्कृतं भारतीयसंस्कृतेः आत्मा । संस्कृतभाषायाः माध्यमेन भारतीय-संस्कृतिः सुप्रतिष्ठिता अस्ति । बालकस्य जननादारभ्य क्रियमाणाः जातकर्म-नामकरण-अन्नप्राशनादिषोडशसंस्काराः अन्या एव भाषया विधीयन्ते । पूजापाठः, यज्ञयागादिक्रियाश्च अस्यां भाषायामेव प्रचलन्ति । संस्करणं परिष्करणं च एतत् आत्मनो संस्कृतिः इत्यभिधीयते । अस्माकं देशस्य विशिष्टपुरुषाणां विचाराः वेशभूषाः कार्याणि आचाराः, यथा तिलकधारणम्, शिखासंस्थापनम्, अस्माकं संस्कृतौ अन्तर्भवन्ति । भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा । संस्कृतिः संस्कृताश्रया, यथा उक्तं कपिलेन -
- संस्कृतं संस्कृतेर्मूलं ज्ञान-विज्ञानवारिध्ः ।
- वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम् ॥
अतः वक्तुं शक्यते यत् संस्कृतिः संस्कृतम् अनयोर्मध्ये घनिष्ठतरः सम्बन्धः अस्ति । संस्कृतेः संरक्षणाय संस्कृतभाषा अनिवार्या । अस्माकं सभ्यता-संस्कृतिश्च संस्कृतग्रन्थेष्वेव दरीदृश्यते । संस्कृतेन सह संस्कृतेः सम्बन्धः यदि विच्छिन्नः भवति, तर्हि भारतीयसंस्कृतेः संरक्षणं न भवत्येव । अत एवोक्तम् -
- संस्कृतेन सुसम्पन्नं भारतं भारतमुच्यते ।
- संस्कृतेन विना देशः केवलं चेण्डियोच्यते ॥ (कपिलस्य)
भारतीयसंस्कृतेः वैशिष्ट्यम्
[सम्पादयतु]भारतीया संस्कृतिः केवलं प्राचीनत्वादेव न प्रत्युत स्वगुणग्रामात् सर्वैः समादरिता सेवनीया वर्तते । तस्याः कतिपयानि वैशिष्ट्यानि अत्र प्रस्तूयते -
(क) धर्मप्राधान्यात्मकसंस्कृतिः
[सम्पादयतु]भारतीयसंस्कृतौ धर्मस्य प्राधान्यम् अस्ति । ’धारणाद्धर्मः’ इत्याहुः धर्मो धारयते प्रजाः । धर्म एव पशुभ्यो मानवेभ्यःभिन्नं करोति । यथोक्तम् - धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः । वैशेषिकदर्शनकृता कणादेन भणितम् - यतोऽभ्युदयनिःश्रेयससिद्भिः स धर्मः । मनुना धृत्यादयो दश गुणाः धर्मनाम्ना मुनुस्मृतौ व्याख्याताः -
- धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
- धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ (मनुस्मृतिः ६/९२)
जगद्धारकाणि मूलतत्त्वानि यमाख्यया व्याख्यातानि शास्त्रेषु धर्मपदवाच्यानि तदेवोच्यतेत्र -
- धारणाद्धर्म इत्याहुर्धर्मो धारयते प्रजाः ।
- यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः ॥
यमस्तु व्याख्याता योगदर्शने - अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः (योग. २/३०) अर्थात् अहिंसायाः समाश्रयम्, सत्यस्य पालनम्, अस्तेयवृत्त्या आश्रयः, ब्रह्मचर्यव्रतस्य अनुष्ठानम्, अपरिग्रहव्रतस्य पालनं च यम इत्युच्यते । जीवनस्य सर्वेषु क्षेत्रेषु धर्मस्य प्राधान्यं स्वीकरोति । अस्माद् कारणाद् एव आशावादस्य अपि प्रबलता वर्तते ।
(ख) आध्यात्मिकी भावनात्मकसंस्कृतिः
[सम्पादयतु]आध्यात्मिकी भावना मानवं दैवत्वं प्रापयति । स सर्वेषु अपि जीवनेषु एकत्वं समीक्षते । ’ब्रह्म सत्यं जगन्मिथा’ इत्यनेन भौतिकस्य जगतः अनित्यत्वं प्रतिपादितम् । यथोक्तम् - ईशावास्यमिदं सर्वं यत्किञ्चजगत्यां जगत् । सर्वे प्राणिनः ब्रह्मणः स्वरूपम् । आध्यात्मभावना इति ईश्वरसत्ताङ्गीकारः एव आस्तिक्यं तदेव अस्याः संस्कृतेः आधारम् इति तत्त्वेन स्वीकृतं प्रतिभाति । यदिदं चराचरं जगत् वर्तते तत्सर्वम् ईश्वरकर्तृकम् ईश्वरेणैव निर्मितं मानवानां कल्याणकामनया । तथा च श्रूयते -
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ (ईशा १)
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ (ईशा ६)
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विभाजतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ (ईशा ७)
प्रत्येकं गृहस्थाय वानप्रस्थाश्रमे प्रवेशार्थं त्यागोऽनिवार्यो विद्यते । कस्यचिद् अन्यस्य धनं स्वत्वं प्रति गृधीः मा कार्षीः - तदत्र संसारस्वरूपावबोधाय मानवकर्तव्यकर्मपरिचयनाय एष निर्देशः सर्वप्राथम्येन कृतः । अध्यात्मप्रवृत्त्या जीवनम् उन्नतं भवति । स प्रतिपदम् आनन्दम् अनुभवति । अध्यात्मप्रवृत्त्या मनसि सहृदयता सहानुभूतिः औदार्यादिकं च प्रवर्तते ।