भारद्वाजः(वैय्याकरणः)
दिखावट
पाणिनीयव्याकरणे एकस्मिन् स्थाने भारद्वाजस्य मत्तमुध्दृतम् । पतञ्जलिनापि तस्यैव सूत्रस्य व्याख्यानावसरे भारद्वाजस्य मतं समीक्षितम् । कृकर्णपर्णाद् भारद्वाजे ४/२/१४५ सूत्रे यो भारद्वाजशब्दो विद्यते स देशवचनं एव च गोत्रशब्द इति काशिकायामुक्तम् ।
महाभाष्ये बहुषु स्थानेषु भारद्वाजीयवार्त्तिकानामुल्लेखः प्रप्यते । कात्यायनवार्त्तिकैः साकमस्य वार्त्तिकानां साम्यमस्ति । विस्पष्टं विस्तृतञ्चापि वर्त्तते । तद् यथा –कात्यायनवार्त्तिकम् घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् ।
भारद्वाजीयवार्त्तिकम्-घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम् ।
पाणिनिसूत्रे स्मृतो यो भारद्वाजः वार्त्तिकानाञ्च रचयिता यो भारद्वाजः स एक एव भिन्नो वेत्यस्मिन् विषये किमपि वक्तुं न शक्यते । भारद्वाजीयवार्त्तिकानां रचयिता को भारद्वाज इत्यज्ञातमस्ति ।