भारोत्तोलनक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारोत्तोलनक्रीडा(‌Weightlifting) एका शारीरकशक्तिक्रीडासु अन्यतमा ।

सर्वे क्रीडालवः स्फूर्तिशालिनः भवन्ति । एवं तत्र भारोत्तोलने अपि सर्वाधिकभारोत्थापकः सर्वेषामपेक्षया अधिकः शक्तिशाली इति मन्यते । अस्याः क्रीडायाः विविधानि व्यवहारनामानि वर्तन्ते । यथा ओलम्पिक्-वैट्लिफ्टिङ्ग्,ओलम्पिक्-स्टैल्-वैट्लिफ्टिङ्ग् इत्यादि । अत्र स्पर्धिनः अत्यधिकभारस्य उत्थापने एव प्रयत्नं कुर्वन्ति । प्रत्येकस्पर्धीनां कृते त्रिवारम् अवकाशः दीयते । प्रत्येकस्मिन् अवकाशे यः अत्यधिकभारं सम्यक्तया नियमानुसारम् उत्थापयति तस्मै अधिकाः अङ्काः दीयन्ते । तथा त्रिवारं दत्तानाम् अङ्कानां सङ्कलनं क्रियते । यस्य अङ्कानां समाहारः अत्यधिकः भवति सः विजेता भवति । अत्र पुरुषाणां तथा महिलानां च देहस्य भारम् अनुसृत्य विभागाः वर्तन्ते । सम्प्रति अधिकः शक्तिशाली पुरुषः रशियादेशस्य वासिली एलेक्जीव् वर्तते । एषः ६४५ किलोमितं भारम् उत्थापितवान् । तथा हैवीवेट्-वर्गस्य विश्वप्रजेतृत्वगौरवं प्राप्तम् । भारतस्य हैविवेट्-विजेता बलवीरसिंहः । १९५८ तमे वर्षे बलवीरसिंहः राष्ट्रियविजेतृगौरवं प्राप्नुवन् त्रयोदशवारं विजेता अभवत् ।

इतिहासः[सम्पादयतु]

भारोत्तोलनस्पर्धा बहु प्राचीना वर्तते इत्यत्र प्रमाणानि अपि लभ्यन्ते । चीनादेशस्य, ईजिप्तदेशस्य, ग्रीस्-देशस्य नागरिकाणाम् इतिहासे भारोत्तोलनस्य विषयाः वर्णिताः वर्तन्ते । तदानीन्तनकाले भारोत्तोलनक्रीडायां यः अधिकं भारं वहति स्म, तस्मै एव पुरस्कारः लभ्यते स्म । इदानीन्तनी भारोत्तोलनक्रीडा युरोप्-खण्ड प्रदेशे १९ शतके आरब्धमिति परिगण्यते । १८९१ तमे वर्षे पुरुषाणां भारोत्तोलनक्रीडायाः प्रथमविश्वस्पर्धा अभवत् । तस्यां स्पर्धायां क्रीडालोः औन्नत्यस्य भारस्य च विभागः न कृतः आसीत् । १८९६ तमे वर्षे प्रथमे ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा आसीत् । परन्तु, १९०० तमे वर्षे सम्पन्ने ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा नासीत् । १९०४ तमे वर्षे मिसूरी, सेयिन्ट् लूई'-नगरे ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा आसीत् । परन्तु, पुनः १९०८, १९१२ तमे च वर्षे भारोत्तोलनक्रीडा नासीत् । पुराकाले तथा १८९६ ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा एकेन हस्तेन तथा हस्त द्वयेन इति द्विविधः आसीत् । १९२० तमे वर्षे पुनः ओलम्पिक्-क्रीडोत्सवे भारोत्तोलनक्रीडा आसीत् । १९२० ओलम्पिक्-क्रीडोत्सवानन्तरं भारोत्तोलनक्रीडायां क्रीडालोः औन्नत्यस्य भारस्य च अनुसारेण विभागः करणीयः इति चिन्तना प्रारब्धा । १९२८ तमे वर्षे एकेन हस्तेन भारोत्तोलनक्रीडाप्रकारः स्थगितः । १९३२ तमे वर्षे ओलम्पिक्-क्रीडोत्सवे क्रीडालोः भारमनुसृत्य पञ्चप्रकारेण भारोत्तोलनक्रीडा आरब्धा । २००० तमे वर्षे आस्ट्रेलियादेशस्य सिडनी नगरे ओलम्पिक्-क्रीडोत्सवे प्रथमवारं महिलानां भारोत्तोलनक्रीडा आरब्धा ।

विभागः, नियमाश्च[सम्पादयतु]

भारोत्तोलनक्रिडायाः नियन्त्रणम् अन्ताराष्ट्रिय-भारोत्तोलन-संस्था(IWF) करोति । एषा संस्था हंगरी देशस्य बूडपास्ट्-नगरे अस्य कार्यालयं वर्तते । १९०५ तमे वर्षे अन्ताराष्ट्रिय-भारोत्तोलन-संस्था आरब्धा । भारोत्तोलनक्रिडायां पुरुषाणां, महिलानां च विभागः वर्तते । ते,

पुरुषाणां विभागः
व्यक्तिशः वर्गः भारोत्तोलनभारः
५६ के जी १२३ एल् बी
६२ के जी १३७ एल् बी
६९ के जी १५२ एल् बी
७७ के जी १७० एल् बी
८५ के जी १८७ एल् बी
९४ के जी २०७ एल् बी
१०५ के जी २३१ एल् बी
इतोप्यधिकाः २३१ एल् बी
महिलानां विभागः
व्यक्तिशः वर्गः भारोत्तोलनभारः
४८ के जी १०६ एल् बी
५३ के जी ११७ एल् बी
५८ के जी १२८ एल् बी
६३ के जी १३९ एल् बी
६९ के जी १५२ एल् बी
७५ के जी १६५ एल् बी
इतोप्यधिकाः १६५ एल् बी


अस्यां क्रीडायाम् अधिकभारं नियमानुसारं प्रत्येकवारं तथा आहत्य सम्पूर्णतया यः(या) उत्थापयति, सः(सा) विजेता भवति । क्रीडा न्यूनभारोत्तोलनादारम्भः भवति । यदि अत्र कश्चन(काचित्) भारोत्तोलने असमर्थः(र्था) भवति चेत् ते(ताः) पुनः तस्मिन् भारोत्तोलने अथवा इतोपि अधिकभारोत्तोलने वा प्रयत्नं कर्तुं न शक्नुवन्ति । भारोत्तोलने भारदण्डस्य भारः आरोहणक्रमेण अधिकः भवति । प्रत्येकस्मिन् आवर्तने १ के जी भारः अधिकः भवति । यदि अन्तिमावर्तने द्वयोः मध्ये समानाङ्काः भवन्ति, तदानीं न्यूनभारयुक्तक्रीडालुः विजेता भवति ।

चित्रमुद्रिका[सम्पादयतु]

चित्रवीथिका[सम्पादयतु]

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारोत्तोलनक्रीडा&oldid=382195" इत्यस्माद् प्रतिप्राप्तम्