भार्या
भर्त्तुः योग्या भार्या । भ्रियते, भूर्यते,वा भार्या । (भृ-धारणपोषणयोः भृ-भरणादौ + ण्यत्) धर्मपत्नीत्यर्थः ।
- सा भार्या या गृहे दक्षा, सा भार्या या प्रजावती ।
- सा भार्या या पतिप्राणा, सा भार्या या पतिव्रता ॥ -(हितो. १/१९३)
महाभाष्ये कौमारीभार्या शब्दस्य प्रयोगो दृश्यते । या प्रथमतया पतिं वरयति सा कौमारीभार्या । कौमारापूर्ववचने (४/२/१३) सूत्रेण कौमारशब्दो निपात्यते । कुमार्यां भव कौमारः निपातनम् । अपूर्वपतिं कुमारीं पतिरुपमापन्नः कौमारः पतिः । अविद्यमानः पूर्वः पतिर्यस्याः तां प्राप्त इत्यर्थः । अनेनानुमीयते यत् पाणिनिसमये भार्यायाः कुमारीत्वमावश्यकं किन्तु पत्युः कुमारत्वं नावश्यकम् । पतञ्जलिसमये तु पत्युरपि कुमारत्वमावश्यकमासीत् । अतः कौमारापूर्ववचने इत्युभयतः इति वचनं स्वीकृतम् । मनुनाऽपि भार्यायाः प्रशंसा कृता । यथा –
- अर्धं भार्या मनुष्यस्य, भार्या श्रेष्ठतमः सखा ।
- भार्या मूलं त्रिवर्गस्य, भार्या मूलं तरिष्यतः ॥
स्त्रियै पातिव्रतधर्मस्य पालनं परममङ्गलदायकम् अमन्यत । शतपथब्राह्मणानुसारेण या स्त्री सत्यपि स्वपतिं विहाय परपुरुषेण सह रतिं करोति, सा वरुण्यकार्यं करोति ।[१]
‘वरुण्यं वा एतत् स्त्री करोति यदन्यस्य सती अन्येन चरति । वरुण्यः =पापः । वरुणो वा एतं गृह्णाति यः पाप्मना गृहीतो भवति'।[२]