भाषाव्युत्पत्तिविकासः
अन्यभाषाणाम् इव संस्कृतस्य अपि भाषारूपेण सार्वत्रिकप्रयोगः भवेत् एवञ्च विद्यमाना संस्कृतभाषा पूर्णरूपेण परिष्कृता निर्दुष्टा प्रवाहयुक्ता सारगर्भिता च स्यात् इति अस्माभिः आकाङ्क्ष्यते चेत् विश्वस्य सर्वेषु क्षेत्रेषु अपि संस्कृतभाषा प्रवहेत् इति अपेक्षते चेत् तस्य पुरातनस्य कार्यस्य प्रारम्भः कुतः भवेत् इति प्रश्नः उदेति। संस्कृतभाषायाः प्रासङ्गिकता, उपयोगिता, वाचिकता वर्तते न वा इत्येषः विषयः जनानां मनस्सु संस्कृतम् अध्ययनात् प्राक् एव उत्पद्यते। तथा च एतं विषयं विचिन्त्य जनाः अध्ययने अध्यापने च प्रवृत्ताः न भवन्ति एव। तस्मात् कारणात् संस्कृतभाषायाः ज्ञानं न भवति कस्याश्चिद् भाषायाः ज्ञानं विना तया भाषया लिखितस्य विषयस्य चर्चाकरणं, तस्मिन् विषये अनुसन्धानाय वार्ताकरणं वा किं कदापि सम्भवेत्? देशस्य अनेकेषु विश्वविद्यालयेषु सम्प्रति संस्कृतस्य अध्ययनं जायमानं तु वर्तते परन्तु तादृशी स्थितिः नैव दृश्यते यस्याः आवश्यकता अनुभूयते विश्वविद्यालयेषु संस्कृतमहाविद्यालयेषु जनाः संस्कृतम् अधीयानाः तु वर्तन्ते परन्तु लेखने भाषणे वदने च तेषां प्रायशः प्रत्येकस्मिन्नपि वाक्ये दोषाः दृश्यन्ते, ये च निर्दुष्टतया संस्कृतेन लेखने पठने भाषणे च समर्थाः सन्ति तादृशाः जनाः अङ्गुलिगण्याः सन्ति तथा हि संस्कृतज्ञानां भारतमातुः च अपेक्षा वर्तते यत् अनेके जनाः सार्वत्रिकरूपेण संस्कृतस्य प्रयोगे दक्षाः स्युः तत्रैव संस्कृताय कलंकरूपेण प्रभावं जनयन्ती अध्ययनशैली दृश्यते । या सम्प्रति संस्कृतानुवादरूपेण राजते , छात्रैः संस्कृतं पठ्यते परन्तु कदापि तैः संस्कृतभाषा नैव श्रूयते ।भाषायाः तु चत्वारि कौशलानि भवन्ति , यदि तेषां कौशलानां माध्यमेन संस्कृतस्य अध्ययनं भवति तर्हि शीघ्रतया एव छात्राणां संस्कृताधिगमः भवति ।तद्यथा श्रवणं , भाषणं , पठनं , लेखनं च इति एतानि सोपानानि वर्तन्ते । यदि छात्राणां श्रवणाभ्यासः न भविष्यति तर्हि तेषां भाषाभ्यासः कथम् ? पठनलेखनयोः तु भिन्ना कथा । अद्यत्वे संस्कृतस्य या अध्ययनशैली वर्तते सा नितान्तम् अवैज्यानिकी वर्तते । चतुर्दशविद्यालयेषु सत्सु अपि संस्कृतक्षेत्रे नूतनं किमपि नैव दृश्यमानम् अस्ति इत्येतस्य कारणम् अनुवादपद्धतिः अस्ति । परन्तु उदाहरणत्वेन शिबिराणां प्रयोगेण द्रष्टुं शक्यते यत् दशसु दिनेषु अश्रुतपूर्वसंस्कृतजनाः अपि संस्कृतेन सम्भाषणे दक्षाः भवन्ति ।अधुना देशे विदेशे अपठितसंस्कृतजनाः अपि दोषान् विना वदन्तः भवन्ति । परन्तु तेषां भाषणे प्रान्तीयदोषाः , उच्चारणगतदोषाः , रूपगतदोषाः , प्रत्ययगतदोषाः, प्रयोगगतदोषाः इत्यादयः बहुबिधदोषाः दृश्यन्ते । तेषां दोषाणां निवारणाय निराकरणाय च अपेक्षिता वर्तते ’भाषाव्युत्पत्ति:’ इति ।।
भाषाव्युत्पत्तिविकासः परमेशः शोधच्छात्रः राष्ट्रियसंस्कृतसंस्थानम् नवदेहली