सामग्री पर जाएँ

भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इण्डोनेशियादेशस्य राष्ट्रियचिह्नम् भिन्नेक तुङ्ग्गल इक

भिन्नेक तुङ्ग्गल इक (कावी: Bhinnêka Tunggal ika) इत्येतत् इण्डोनेशियादेशस्य आदर्शवाक्यं विद्यते। अस्य अर्थः - भिन्नतायाम् एकता इति। इदं मजापहितसाम्राज्यावधौ १४ शताब्दौ प्रणीते काकविन सुतसोमनामके काव्ये विद्यते।

मूलकाव्यम्

[सम्पादयतु]

इयं सूक्तिः १३९ त्तमे अध्याये ५ परिच्छेदे विद्यते।

Rwâneka dhâtu winuwus Buddha Wiswa,
Bhinnêki rakwa ring apan kena parwanosen,
Mangka ng Jinatwa kalawan Siwatatwa Tunggal,
Bhinnêka Tunggal ika tan hana dharma mangrwa.

अनुवादः

[सम्पादयतु]
प्रसिद्धः बुद्धः शिवश्च विभिन्नांशयुतौ।
तौ भिन्नौ, किन्तु दृष्ट्या एव तयोः भेदः अवगन्तुं शक्यम्।
यतः बुद्धस्य शिवस्य च मूलसत्यम् एकमेव।
तौ विभिन्नौ, किन्तु समानौ, यतः परमं सत्यमेकमेव।

अयम् अनुवादः डॉ. सोएवितो सन्तोसो - इत्यनेन लिखितं विमर्शम् आधारीकृत्य लिखितमस्ति।

सन्दर्भः

[सम्पादयतु]
  • Santoso, Soewito Sutasoma, a Study in Old Javanese Wajrayana 1975:578. New Delhi: International Academy of Indian Culture.