भूकम्पः
भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः ।
भूकम्पस्य लक्षणानि
[सम्पादयतु]भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति ।
भूकम्पस्य परिणामाः
[सम्पादयतु]कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति ।
मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।
क्रमसंख्या | तीव्रता परिणामाः |
---|---|
१ | सूक्ष्मा - सेस्मोग्राफ्द्वारा कैश्चिद्भिः पशुभिः एव ज्ञातुं साध्यम् । |
२ | दुर्बला - विश्रान्तिस्तितौ वर्तमानाः केचन जनाः एव ज्ञातु शक्नुवन्ति । |
३ | लघ्वी - यदा ट्रक्यानमागच्छति तावान् कम्पनयुतः । |
४ | मिता - गृहस्य अन्तः अनुभवगम्यः,स्थगितं कार्यनं कम्पितं भवति । |
५ | स्वल्पबलयुता - सामान्यस्थितौ अनुभवगम्यः, सुप्ताः भीताः भवन्ति । |
६ | बलयुता - वृक्षाः कम्पन्ते । आसन्दाः पतन्ति । |
७ | अतिबलयुता - अपायः, भित्तयः भिन्नाः भवन्ति , छदयः बलहीनाः भवन्ति । |
८ | हानिकारिका - स्तम्भाः, प्रतिमाः, दुर्बलभित्तयः, पतन्ति। |
९ | नाशकारिणी - भूमिः स्फुटति, कानिचन गृहाणि विदारितानि भवन्ति । |
१० | विनाशकारिणी - अनेकानि भवनानि नष्टानि भवन्ति, रेल्मार्गः नष्टः भवति । |
११ | विपत्कारिणी - गृहाणि नश्यन्ति , भूमिः निकूला भवति । |
१२ | प्रलयकारिणी - सम्पूर्णनाशः, भूमिः तरङ्ग एव भाति । |
रिक्टर् मापनम्
[सम्पादयतु]एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।
व्याप्तिः
[सम्पादयतु]एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति । प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः ।
- १९०६ - कोल्म्बियातटप्रदेशः - ८.६
- १९०६ - स्यान्फ्रान्सिस्को - ८.३
- १९२० - कान्षुप्रदेशः, चीना - ८.६
- १९२३ - क्याण्टोक्षेत्रम्, जपानदेशः - ८.३
- १९५० - अस्साम्, भारतदेशः - ८.६
- १९५२ - कञ्चट्का - ८.५
- १९५७ - अलीषियन् द्विपाः(यू.एस्.ए) - ८.३
- १९६० - लेबु ,चिलिदेशः -८.३
- १९६४ - अङ्कोरेज् ,अलास्कदेशः - ८.५
- १९७६ - टाङ्षन् ,चीनादेशः - ८.२
ऐतिहासिकाः भूकम्पाः
[सम्पादयतु]१७५५ तमे वर्षे लिस्बन्प्रदेशे सम्भूतः भूकम्पः रिक्टर्मापने ८.७५ तः ९ पर्यन्तं तीव्रतायुक्तः आसीत् । चीनादेशस्य षेंन्सिप्रदेशे प्रवृत्ते १५५६ तमे वर्षे प्रवृत्ते भूकम्पे ८,३०,००० जनाः कालकवलीभूताः ।
प्राणहानिः
[सम्पादयतु]- १९०८ - मेस्सिना इटलि - ८०,०००
- १९०६ - अवेज्ञानो इटलि - २९,९७०
- १९२० - कान्षु चीना - १,८०,०००
- १९२३ - क्य़ाण्टो जपान् - १,४२,८०२
- १९५० - कान्षु चीना - ७०,०००
- १९५२ - क्वेट्टा भारतम् - ६०,०००
- १९५७ - एर्जिङ्कान् टर्कि - ३०,०००
- १९६० - उत्तर्पेरुमध्ये - ६६,८००
- १९६४ - ताङ्ग्टान् चीना - २,४२,०००
- १९७६ - तबस् इरान् - २५,०००
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- U.S. Geological Survey Earthquake Hazards Program
- European-Mediterranean Seismological Centre
- European-Mediterranean Seismological Center, real-time earthquake information website.
- Seismological Society of America.
- Incorporated Research Institutions for Seismology.
- Open Directory - Earthquakes Archived २००७-०८-२३ at the Wayback Machine
- World earthquake map captures every rumble since 1898 | MNN - Mother Nature Network—Mother Nature Network (29 June 2012)