भूकम्पविभीषिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भूकम्पविभीषिका.

Khao Lak Tsunami 26.Dez 2004 - Polizeiboot 813

भूकम्पविभीषिका एकोत्तरद्विसहस्त्रीष्टाब्दे ( 2001 ईस्वीये वर्षे) गणतन्त्र दिवस पर्वणि यदा समग्रमपि भारतरभारताष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम् । भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपानमार्गाः। फालद्वयेविभक्ता भूमभूमिःिः । भूमिगर्भादुपरि निस्सरन्तीभिः दुर्बार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम् । सहस्त्रमिता: प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्त्रशोऽन्ये सहायतार्थ करुणकरुणं क्रन्दन्ति स्म हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।इयमासीत् भैरवविभीषिका कच्छ- भूकम्पस्य पञ्चोत्तर द्विसहस्त्रीष्टाब्दे (2005) ईस्वीये वर्षे) अपि कश्मीर प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पनं जातम् ।यस्मात्कारणात् लक्षपरिमिताः जना अकालकालकवलिताः । पृथ्वी पृथ्वीकस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्य: पाषाण शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषण संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।

2005 Earthquake damage, Rawalakot

ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ।निहन्यन्ते च विवशाः प्राणिनः । ज्वालामुहिरन्त एते पर्वता अपि भीषण भूकम्पं जनयन्ति। यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते । प्रकृतिसमक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्रं नदीज नैकस्मिन् स्थले पुज्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पसम्भवति । वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=भूकम्पविभीषिका&oldid=459554" इत्यस्माद् प्रतिप्राप्तम्