भेदवाक्यानि नानुवादकानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


सर्वे वेदाः विष्णोः पारम्यं जीवभेदं चावगमयन्तीति ।
श्रीमदान्दतीर्थभगवत्पादार्चाणां सिद्धन्तः ॥

अत्राहुरद्वॆतवादिनः-

नागमाः विष्णोस्सर्वोत्तमत्त्वं प्रतिपादयन्ति। अपि तु जीवेश्वरयोरभेद-बोधनायॆव प्रवृत्ताः । सन्ति चाभेदबोधकाः ’तत्त्वमसि’ ’अहं ब्रह्मास्मि’ इत्याद्यागमाः । न च ’द्वा सुपर्णा’ इत्याद्यागमा अपि जीव-ब्रह्मणोर्भेदमेवाभिधीयन्ते इति भेदेऽपि आगमोदाहरणं शक्यते कर्तुमिति वाच्यम् । प्रत्यक्षानुमानसिद्धभेदानुवादकत्वात् भेदप्रतिपादश्रुतीनां (प्राबल्याभावेन) दुर्बलत्वात् । न चाभेदः मानान्तरसिद्ध इति अभेद प्रतिपादकश्रुतीनामपूर्वार्थप्रतिपादकत्वात् विद्यते महत्वं निरतिशयम् ।

अत्र ब्रूमः -

कथं जीवेश्वरॊ मानान्तरसिद्धॊ ? यद्यपि ’अहम्’ इत्याकारक-साक्षिप्रतीत्या जीवः सिद्ध्यतीति वक्तुं शक्यते । तथापि अध्यक्षसिद्धा जडदेहाः, नात्मानोऽणवः । ’अहम्’ इत्याकारकप्रतीतिः किं आत्मविषयिका आहोस्वित् बुद्धिविषयिकेत्यत्रॆवास्ति महती विप्रतिपत्तिः । देहेन्द्रियसंघात एव आत्मप्रीतिः इति (अहम् एत्याकारकप्रतीतिरिति) लोकायता ब्रुवते । तस्मान्न जीवोऽध्यक्षसिद्ध इति वक्तुं शक्यते । एवमेवेश्वरोऽपि वेदमन्तरा न मानान्तरसिद्धः । न चानुमानात्तत्सिद्धिः । विपर्ययेणाप्यनुमातुं शक्यत्वात् । “नषा तर्केण मतिरापनेया” इति तर्केण ईश्वरस्वरूपस्य प्रसाधयितुमशक्यत्वात् । एवं चजीवेश्वरयोः स्वरूपेऽसिद्धे कथं तर्यार्भेद्धस्सिद्ध्यति । कथंतमां भेदवाक्यानां प्राणान्तरसिद्धार्थ-प्रतिपादकत्वं वक्तुं शक्यते ।

अथ च भेदवाक्यानां अनुवादकत्वव्युत्पादनं व्यर्थमेव । तथा हि अभेदवाक्यानां अपूर्वतासिद्ध्यर्थं खलु भेदवाक्यानां अनुवादकत्वमुच्यते । तथात्वे अवश्यं भेदस्य प्रत्यक्षानुमानसिद्धत्वं वक्तव्यम् । असिद्धस्य अनुवदितुमशक्यत्वात् । एवं च प्रत्यक्षानुमानप्रमाणसिद्धत्वात् भेदस्य तद्विरोधादेव अभेदवाक्यानां अप्रामाण्यमापद्यते ।

अथॆवमुच्येत ॥ अपॊरुषेयत्वेन आनाशङ्कितदोषत्वात् अभेदागमः प्रबलः दोषाशङ्काकलङ्कितत्वात् प्रत्यक्षागमे दुर्बले इति । तथात्वे भेदागमस्यापि अपॊरुषयत्वेन दोषगन्धविधुरत्वेन च प्रबलत्वात् (दुर्बलप्रत्यक्षादिप्रतिपन्न भेदप्रतिपादकत्वं अस्तु मा वा तथाऽपि) स्वभावत एव आगमस्य प्राबल्येन दुर्बलाभ्यां प्रत्यक्षानुमानाभ्यां भेदेप्रतिपन्नेऽपि मानसदोषादिना भेदे साशङ्के आगमादिना तत्प्रतिपादनात् अनुवादकत्वाभावः सिद्ध्यति । एवं च प्रत्यक्षानुमानयोः प्राबल्याङ्गीकारे तद्विरोधेन अभेदागमस्याप्रामाण्यं अपरिहारर्यम् । आगम्स्य अपॊरुषेयत्वेन प्राबल्याभ्युपगमे भेदागमस्याऽपि प्रामाण्यमप्रतिहतम् । एवं च प्रमाणान्थराप्राप्तत्वादेव भेदवाक्यानामपि नानुवादकत्वमिति वक्तुं शक्यते ।

अत्रेदं समवधेयम् – येन यस्य विषयस्सिद्ध्यति तत्तस्य उपजीव्यं भवति । उपजीव्यप्रमाणविरुद्धम् उपजीवकम् अप्रामाणमिति निश्चप्रचम् । प्रकृते तु अभेदागमस्यापि प्रत्यक्षानुमानोपजीव्यत्वमङ्घीकरणीयम् । प्रत्यक्षसिद्धं जीवं विषयीकृत्य तस्य ईश्वरेण अभेदः तत्त्वमसीत्यादिरूपेण बोधनीयः । अनुमानसिद्धं ईश्वरं विषयीकृत्यॆव तस्य जीवाभेदः ’क्षेत्रज्ञं चापि मां विद्धि’ इत्यागमेन बोधनीयः । जीवेश्वरावुभावपि विषयीकृत्य ’नेह नानास्ति किञ्चन’ एति श्रुत्या अभेदमात्रं वा बोधनीयम् । एवं च प्रत्यक्षानुमानप्रतिपन्नॊ जीवेश्वरॊ उपवीव्य आगमेन अभेदस्य बोधनात् उपजीव्यप्रमाणविरोधेन अभेदागमस्याप्रामाण्यं दुष्परिहरम् ।

ननु प्रत्यक्षं आगमं वा जीवेश्वरायोः स्वरूपमात्रं गृह्णाति । न तयोर्भेदम् । एवं च उपजीव्यप्रमाणविरोध एव नास्तीति चेत् मॆवम् । प्रत्यक्षानुमानादिना जीवेश्वरयोः विरुद्धधर्माधिकरणत्वेनॆव ग्रहणात् स्वरूपमात्रं गृह्यते भेदग्रहस्तु नोत्पद्यत इति तु रिक्तं वचः । एवं च अभेदागमस्यापि प्रत्यक्षादिकं उपजीव्यं भवति । उपजीव्यत्वेन प्रबलयोः प्रत्यक्षागमयोः विरोधे अभेदागमस्य विषयाभावात् अभेदप्रतिपादनमेव न संभवति ।

अथोच्येत – साक्षिगृहीतस्यापि जीवेश्वरभेदस्य मिथ्यात्वमेवाङ्गीक्रियत इति । तथात्वे साक्षिगृहीतेऽप्यर्थे संशयसम्भवेन सर्वप्रमाणप्रामाण्यनिश्चायके साक्षाणि दोषशङ्काकलङ्किते अभेदग्राहिप्रमाण्यानुभवविषयेऽपि अप्रामाण्यशङ्कायाः अपरिहार्यत्वात् । एवं च भेदग्राहिसाक्षिप्रमाणस्य याथार्थ्यमकामेनाप्यङ्गीकार्यम् । बगुप्रमाणसिद्धत्वाञ्च भेदस्य आगमेनतत्प्रतिपादने दर्ढ्यॊत्पत्तेः ।

अबाधितसाक्श्यनुमानसिद्धस्य जीवेश्वरभेदस्य उपजीव्यस्य अप्रामाण्याङ्गीकारे तयोरकिञ्चित्करत्वेन तयोर्विषयोपरहाराभावात् अपॊरुषयत्वेन अनाशङ्कितदोषत्वेन प्रबलेन भेदागमेनॆव जीवब्रह्मणोर्भेदसिद्धेः भेदवाक्यानां नानुवादकत्वमिति स्थितम् । प्रत्यक्षानुमानरूपप्रामाणसिद्धस्य जीवेश्वरभेदस्य अङ्गीकारे, आगमेन तत्प्रतिपादने, भेदे दार्ढ्यस्यॆव सम्भवात् भेदप्रतिपादकागमेन अभेदागमानामप्रामाण्यं अपरिहार्यम् ।

सर्वप्रमाणविरोधेऽपि ऎक्यप्रतिपादवाक्यानां अपूर्वार्थप्रतिपादकत्वेन प्राबल्याङ्गीकारे ’इदं वा अग्रे नॆव किञ्चनासीत् । असतःसदजायत’ इत्यादि वाक्यॆः आपातप्रतीतस्य शून्यस्यापि जगत्कारणत्वमापद्यते ।

ननु ’विमतो विनाशः सच्छेषः विनाशत्वात्’ ’आदिकार्यं सत्कारणकं कार्यत्वात् पटवत्’ इत्यादि युक्तिविरोधात् शून्यकारणत्वं नॆव प्रतिपादयितुं शक्यत इति चेत् । एवमेव अपूर्वताख्यलिङ्गसद्भावेऽपि भेदग्राहकप्रमाणस्य विरुद्धस्य जागृत्वेन प्रत्यक्षादिविरोधाञ्च आपतप्रतिताभेदस्य आगमार्थत्वं नॆवाङ्गीकारार्हम् ।

सम्बद्धाः लेखाः[सम्पादयतु]