भ्रमरोगः
परिचयः-
[सम्पादयतु]भ्रमः इति स्वतन्त्रव्याधिः अस्ति तथा अन्यव्याधिषु लक्षणरूपेणापि वर्तते-
भ्रमः - रोगविशेषः।
अशीतिवातविकारेषु एकः (च.सू. २०.११)
लक्षणविशेषः- आयुर्वेदीयशब्दकोशः।
भ्रमसम्प्राप्तिः।
[सम्पादयतु]रजःपित्तानिलाद् भ्रमः।
इत्यत्र ये दोषाः ‘भ्रमहेतवः’ इति उक्ताः तेषु वातदोषस्य चिन्तनम् आदौ क्रियते।
अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्।
इति भ्रमरोगे मज्जा दूष्यत्वेन उक्तः,तस्य चिन्तनम् अस्यां सम्प्राप्तौ क्रियते। एवं वातमज्जसम्मूर्च्छनाजन्यस्य भ्रमस्य एषा सम्प्राप्तिः।
सा सम्प्राप्तिः ईदृशी-
१ हेतुः-
[सम्पादयतु]वातस्य प्रकोपः तत्समानगुणैः भवति(वृद्धिः समानैः सर्वेषाम्।अ.हृ.सू.१.)।
वातसमानगुणाश्च- तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः। अ.हृ.सू.१.
अतः एतेषां गुणानां शरीरे यैः कारणैः वृद्धिः भवति, ते सर्वे वातप्रकोपकहेतवः।भ्रमरोगारम्भकस्य वातप्रकोपस्य आविष्कृततमाः हेतवः एते-
१ माषवर्ज्यं शिम्बीधान्यं वातकरम् ।तत्रापि कलायः, चणकम्, इति द्रव्यद्वयं भृशं वातजनकम्। एतेषु रूक्षलघुगुणौ स्तः अतः अतियोगेन वातप्रकोपः जायते।
२ तमाखुपत्रं पूगीफलं च वातकरे द्रव्ये।एतयोः रूक्षलघुव्यावायिविकासिगुणाः सन्ति।अतः वातजनकत्वं मज्जदूषणं च तयोः विद्यते।
३ अति यानयानं, दोला, चक्रक्रीडा इति एतैः वातकोपः भवति।सः भ्रमजनकः।
४ अस्नेहं शिरः भ्रमस्य हेतुः।शिरोऽभ्यङ्गः, कर्णपूरणं, प्रतिमर्शनस्यमिति एतैः शिरः स्निग्धं भवति। येषां शिरोऽभ्यङ्गादीनाम् अभ्यासः नास्ति तेषां मस्तुलुङ्गस्थः स्नेहः क्षीणः भवति। भ्रमार्थम् अयम् उत्पादकहेतुः।
५ प्रजागरः इति वातप्रकोपस्य हेतुः।ब्राह्ममुहूर्तपर्यन्तं निद्रा यथा पर्याप्ता भवेत् तथा रात्रौ निद्रासमयः भवितुम् अर्हति।ततः अग्रे जागरणं नाम प्रजागरः।
२पूर्वरूपम्-
[सम्पादयतु]अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् ()इति न्यायेन भ्रमरोगस्य पूर्वरूपाणि एतानि-
१ क्वचिदेव क्षणमात्रं भ्रमः।
२ क्वचिदेव कतिपयक्षणावस्थायी भ्रमः।
३ शयनपार्श्वे परिवर्तिते सति भ्रमः
४ शयनाद् उत्थाने सति भ्रमः
५ आसनाद् उत्थाने सति भ्रमः
यथा यथा सम्प्राप्तिः अग्रे गच्छति, तथा तथा भ्रमवेगस्य कालः वर्धते, द्वयोः भ्रमवेगयोः कालिकम् अन्तरं ह्रसते।
३रूपम्
[सम्पादयतु]भ्रमः चक्रस्थितस्येव भ्रमद्वस्तुदर्शनम् इत्याहुः, अन्ये तु स्वदेहभ्रमणज्ञानम् । माधवनिदाने २.११।मधुकोशटीका
४उपशयानुपशयौ
[सम्पादयतु]निदानोक्तानुपशयो विपरीतोपशायिता ()इति न्यायेन हेतुभिः अनुपशयः भवति, हेतुविरुद्धभावैः उपशयः भवति। सामान्यतः स्थित्या उपशयः गत्या अनुपशयः इति दृश्यते।
५सम्प्राप्तिः
[सम्पादयतु]वृद्धिः समानैः सर्वेषां विपरीतैः विपर्ययः इति न्यायेन -
चयावस्था-
उक्तैः हेतुभिः वातस्य चय़ः भवति यतो हि वातसमाना एते हेतवः। एतैः एव हेतुभिः मज्जक्षयः आरभ्यते यतो हि मज्जगुणैः विपरीताः एते एव हेतवः।
प्रकोपावस्था-
संचितो वातः स्वस्थानाद् बहिः प्रवर्तते।एषा प्रकोपावस्था।प्रकुपितवातः सर्वं शरीरं सञ्चरति।एषा प्रसरावस्था।सञ्चारकाले वातः मज्जनि वैगुण्यं लभते अतः तत्र स्थानसंश्रयं करोति।एषः स्थानसंश्रयः आदौ अस्थिरः अस्ति।तदा भ्रमस्य पूर्वरूपाणि उद्भवन्ति। यदा संश्रयः स्थिरः भवति तदा मज्जवातयोः सम्मूर्च्छना जायते।एषा व्याधेः व्यक्त्यवस्था। अस्याम् अवस्थायां रूपाणि दृश्यन्ते।य़दा संश्रयः जायते तदा कुपितवातस्य मज्ज्ञा सह संयोगः जायते।रूक्षादयः कुपितवातस्य गुणाः तथा स्निग्धादयः मज्नः गुणाः।विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते इति न्यायेन वातस्य गुणाः यदा प्रबला भवन्ति तदा तैः मज्ज्ञः स्निग्धादिगुणानां पराजयः भवति।गुणैः तथा क्वचिद् द्रव्येण अपि क्षीणः मज्जा इन्द्रियपोषणं कर्तुं न शक्नोति।ततः भ्रमः व्यक्तः भवति।
चिकित्सास्वरूपम्-
[सम्पादयतु]व्याधेः कारणं दोषदूष्यसम्मूर्च्छना।तस्य नाशः प्रथमतया कर्तव्यः।यदि कुपितदोषः शान्तः भवति तथा विगुणदूष्यं प्राकृतं भवति तर्हि एषः नाशः सम्भवेत्। तदर्थं चिकितस्यायां मधुररसात्मकं, मधुरविपाकात्मकं, शीतवीर्यात्मकं, स्निग्धगुरुस्थिरश्लक्ष्णमृदुगुणात्मकं द्रव्यम् आवश्यकम्।एतादृशं द्रव्यं वातमपि शमयति, मज्जानमपि पोषयति।