मञ्जेश्वर गोविन्द पै

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जन्म, बाल्यञ्च[सम्पादयतु]

दक्षिणकन्नडमण्डलस्य मङगलूरुसमीपास्थे मञ्जेश्वरग्रामे कविः गोविन्द पै (Govinda Pai) १८८३ तमे वर्षे मार्च्-मासस्य २३ तमे दिनाङ्के जन्म प्राप्तवान् । पिता साहुकार् तिम्मप्पय्यः, माता देवकीयम्म च । एतस्य मातृभाषा कोङ्कणि । गोविन्द पै महोदयस्य पठनं मङगलूरुनगरे, मद्रास्-नगरे च सम्पन्नम् । बि. ए. पठनावसरे तस्य पिता दिवङ्गतः इति कारणतः विद्याभ्यासः मध्ये एव त्यक्तव्यः अभवत् ।

भाषाप्रेम[सम्पादयतु]

गोविन्द पै जन्मतः एव भाषाप्रेमी आसीत् । एषः फ्रेञ्च्, जर्मन्, इटालियन् , ग्रीक्, इङ्ग्लीष्, हिन्दि, कन्नड, कोङ्कणि, मराठि, तमिलु, मलयालम्, अर्धमागधि, बङ्गालि, प्राकृता, पालि, पर्षियन्, तुलु, संस्कृतं च सम्यक् जानाति स्म ।

कविप्रतिभा[सम्पादयतु]

बहुभाषापरिणतः, संशोधकः, इतिहासकारः, कविः, नाटककारः, अनुवादकः च आसीत् अयम् । कवेः साहित्यसेवा वैशिष्ट्यपूर्णा आसीत् । ऐतिहासिकप्रज्ञान्वितः कविः सर्वधर्माणां मूलस्य अन्वेषाणाय प्रयतमानः संशोधकः इति वक्तुं शक्यते । एतस्य जीवनस्य लक्ष्यं किं इति तस्य कृतिभिः ज्ञातुं शक्नुमः ।
कर्णाटकस्य प्रथमराष्ट्रकविः इति निर्दिश्यमानस्य अस्य कवेः परिश्रमः अपारः । 'तनु कन्नड मन कन्नड नुडि कन्नड' (इदं शरीरं मनः भाषा च कन्नड) इति गीत्वा कन्नडभाषायाः कीर्तिपताकाम् उत्तोलितवान् एषः धीमान् कविः । एतस्य विचारशक्तिः, साहित्यासक्तिः, काव्यरचनसामार्थ्यं च अत्यद्भुतम् आसीत् । एतेन विरचितं 'गोल्गोथा” क्रिस्तस्य अन्तिमक्षणस्य चित्रणं तथा 'वैशाखि' गौतमबुद्धस्य अन्तिमचित्रणं च मनोमोहकं वर्तते ।
१९४९ तमे वर्षे मद्रास्-सर्वकारेण 'राष्ट्रकविः’ इत्येषा प्रशस्तिः प्रदत्ता मान्यगोविन्दवर्याय । तथा १९५० तमे वर्षे मुम्बैनगरे प्रचलितस्य चतुस्त्रिंशत् तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानम् समलङ्करोत् अयं महाभागः । कन्नडपदसम्पत्तेः वर्धानाय नूतनपदानि स्रष्टव्यानि । संस्कृततः, कन्नडेतरभाषाभ्य अपि पदानि चित्वा किञ्चित् परिवर्त्य योजनीयम् इति तस्य अभिप्रायः आसीत् । अयम् अभिप्रायः बहु औचित्यपूर्णः इति कन्नडभाषाजनाः अवगच्छेयुः ।

साहित्यकृषिः[सम्पादयतु]

काव्यानि (गोम्मटस्तुति, उमर् खाय्यम्, प्राभास, गोल्गोथा, वैशाखि , गिलिविन्डु, नन्दादीप, महात्मन कडेय दिन (महात्मनः अन्तिमं दिनम् ) इत्यादीनि । नाटकानि तायि (माता), हेब्बेरलु (अङ्गुष्ठः ), चित्रभानुश्च । प्रबन्धः, इतिहासः, प्राचीनकविकाव्यविचारः इत्यादीन् विविधसाहित्यप्रकारेषु अपि कार्यं कृत्वा कन्नडसाहित्यम् अवर्धयत् गोविन्द पै । कवेः पत्नी लघुवयसि एव दिवङगता । अपत्यानि न आसन् । पत्न्याः स्मरणार्थं कविना रचितं काव्यमेव 'नन्दादीपः' । कविः गोविन्द पै १९६३तमे वर्षे ८१ तमे वयसि दिवङगतः ।

"https://sa.wikipedia.org/w/index.php?title=मञ्जेश्वर_गोविन्द_पै&oldid=369911" इत्यस्माद् प्रतिप्राप्तम्