माण्डु (माण्डवगढ)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मण्डु इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
जहजमहल्
मण्डु

माण्डव
नगरम्
देशः भारतम्
राज्यम् मध्यप्रदेशः
Population
 • Total ३,००,०००
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
जामीमस्जिद्
बाजबहद्दूरप्यालेस्
हिन्दोलमहल्

मण्डुनगरं मध्ययुगे प्रसिद्धं नगरमासीत् । इदानीं मध्यप्रदेशस्य धारमण्डले एतत् नगरम् अस्ति ।अस्य सन्तोषनगरमिति अपरं नाम आसीत् । माळवदेशस्य बादषाहः दिलावरखान् क्रिस्ताब्दे १४०१ तमे वर्षे स्वतन्त्रः अभवत् । तस्य नाम होषङ्ग षा इत्यपि आसीत् । स्वस्य प्रशासनकाले सः भव्यभवनानि निर्मितवान् । जामिमस्जिद् तेषु शिल्पेषु अन्यतमम् अस्ति । स्वस्य स्मारकभवनमपि निर्मितवान् । एतेष भवनेषु अफगन् शैल्या दमास्कास् प्रार्थनामन्दिरं (मस्जिद्) इव रचनां कारितवान् । अस्य पुत्रः गयासुद्दीन् जहजमहल् नामकम् भवनं पर्वतप्रदेशे निर्मितवान् । एतदपूर्वं जलाशयैः परिवृत्तं च अस्ति । अस्य विस्तारः ३२ पादमितः, दैर्घ्यं ३६० पादमितम्, उन्नतिः ३२ पादमिता । आङ्ग्लभाषायाः T आकारे हिन्दोळमहल् नामकं भव्यं भवनं निर्मितवानेषः । अस्य समीपे स्थितं नीलकण्ठराजगृहमपि अपूर्वं शिल्पमस्ति । बाजबहद्दूरः अन्तिमः बादषाहः आसीत् । सः रुपमतीनामिकां स्त्रियम् अतीव इष्टवान् । सा सङ्गीतविदुषी आसीत् । तयोः प्रेम अद्वितीयम् आसीत् । । बाजबहाद्दूरराजगृहं राज्ञीरुपमतीक्रीडामण्डपः च इदानीमपि स्तः । अक्बरस्य दलपतिः तां रुपमतीं इष्टवान् । सा तं न इच्छति स्म । अतः आत्महत्यां कृतवती । बाजबहाद्दूररुपमत्योः विषये माळवदेशे जनाः अधुना अपि जानपदगीतानि गायन्ति । श्री ए. ए कृम्प् महोदयः The lady of tha Lotus पुस्तके एता कथां विस्तृतरुपेण वर्णितवान् अस्ति । मण्डुप्रदेशः अतीव सुन्दरः अस्ति । अस्य विषये जहाङ्गीरः एतत्सदृशम् अन्यत्र कुत्रापि नास्ति । वर्षाकाले अत्र अद्भुतदृश्यं दर्शनीयं भवति इति उक्तवान् । शरत्काले मण्डुभूमिः हरिच्छाटिकाधारिणी सम्यगलङ्कृता भवति ।

विमानमार्गः[सम्पादयतु]

इन्दौरविमाननिस्थानतः १०० कि.मी ।

धूमशकटमार्गः[सम्पादयतु]

नासिक-इन्दौरमार्गे म्होनामकम् अतीवसमीपस्थं निस्थानमस्ति ( ६६ कि.मी) ।

वाहनमार्गः[सम्पादयतु]

इन्दौरतः ९८ कि.मी.। मध्यप्रदेशप्रवासोद्यमविभागस्य वसतिगृहाणि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=माण्डु_(माण्डवगढ)&oldid=390132" इत्यस्माद् पुनः प्राप्तिः