मदनवृक्षः
अयं मदनवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः ३० पादमितम् उन्नतः भवति । सामान्यतया अयं वनेषु वर्धते । अयं कण्टकरहितः वृक्षः । अस्य पर्णानि १ – ३ अङ्गुलं यावत् दीर्घाणि, वृत्ताकारकाणि च भवन्ति । पर्णानाम् अग्रभागः तीक्ष्णः भवति । अस्य पुष्पाणि आरम्भे श्वेतवर्णीयानि भवन्ति, अनन्तरं पीतवर्णत्वं प्राप्नुवन्ति । अस्य् मदनवृक्षस्य फलानि गोलाकारकाणि १ – १.५ अङ्गुलं यावत् व्यासयुक्तानि, पीतवर्णीयानि च भवन्ति । फलानाम् अन्तः ४ बीजानि भवन्ति । तानि बीजानि “मदनपिप्पली” इति विशेषनाम्ना वदन्ति । अस्य फलम् अत्यन्तं शुद्धं वामकद्रव्यम् अस्ति । सुकुमारप्रकृतियुक्तानाम् अस्य चूर्णं कमलदलस्य उपरि सिञ्चनं कृत्वा तत् वदामः चेदेव वमनं भवति इति ग्रन्थेषु उक्तम् अस्ति । चरकः अस्य नाम वमनगणे फलनिगणे च, सुश्रुतः ऊर्धभागहरे अरग्वदादिगणे, मुष्कतादिगणे च योजितवन्तौ स्तः । अस्य मदनवृक्षस्य संस्कृतेन मदनः, वर्धनपिण्डी, शल्यकः, विफपुष्पकः इत्यादीनि नामानि अपि सन्ति । शल्यकः इत्युक्ते कण्टकरहितः इति अर्थः ।
इतरभाषाभिः अस्य मदनवृक्षस्य नामानि
[सम्पादयतु]अस्य मदनवृक्षस्य वैज्ञानिकं नाम अस्ति Randia Dumentorum इति । अयं वृक्षः हिन्दीभाषया “मैन् फल” इति, तेलुगुभाषया “मृङ्गकायि” इति, तमिळ्भाषया “पुङ्गरारि मरक्कलम्” इति, मलयाळभाषया “मृङ्गकायि” इति, कन्नडभाषया “मग्गारे कायि” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य मदनवृक्षस्य प्रयोजनानि
[सम्पादयतु]अयं मदनवृक्षः गुणेषु लघुः रूक्षः च । अस्य रसः मधुरः, कटुः, कषायः च । विपाके कटुः भवति । अयं उष्णवीर्यः अपि । अस्य विशिष्टं कार्यं वमनकारणम् इति आयुर्वेदे उक्तम् अस्ति ।
- १. इदं मदनफलं कफं वातं च शमयति, पित्तं निस्सारयति च ।
- २. मदनफलं फलस्य त्वक् चापि उदरवेदनां परिहरति, वमनं कारयति च ।
- ३. अस्य मदनवृक्षस्य त्वक् नाडीरोगेषु हितकरम् ।
- ४. आमवाते, कीलवेदनायां च अस्य फलं सम्पेष्य लेपयन्ति ।
- ५. मदनफलं कषायरसयुक्तम् इति कारणात् आमशङ्कायाम् अतिसारे च हितकरं भवति ।
- ६. अस्य मदनफलस्य चूर्णं ५ – १० ग्रां यावत् (वमनार्थम्), अन्येषु रोगेषु १ – २ ग्रां यावत् उपयोक्तव्यम् ।
- ७. अस्य क्वाथं १ औन्स् (३० मि.ली) यावत् उपयोक्तव्यम् ।
- ८. अनेन निर्मितः “मदनादिलेपः” आयुर्वेदस्य आपणेषु उपलभ्यते ।
- ९. चरकसंहितायां कल्पस्थाने अस्य मदनफलस्य १३३ उपयोगाः उक्ताः सन्ति ।