मधुमक्षिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मधुमक्षिका कश्चन विशिष्टः कीटः । एते प्लवनकीटाः कुसुमात् कुसुमं भ्रमन्तः मधु(मकरन्दः) चूषन्ति । ततः आनीयः वृक्षशाखासु मन्थरेषु वा स्वनिर्मिते मधुकोषे सङ्ग्रह्णन्ति । एते सङ्घीभूय कार्यं कुर्वन्ति । एतेषां सङ्घटनम् अनुशासनं परिश्रमः कौशलं च मानवानाम् आदर्शः भवति । त्रापि विशेषतः स्त्रीलिङ्गिन्यः अधिकानि कर्माणि कुर्वन्ति इति विशेषः । ताभिः मधुमक्षिकाभिः सङ्ग्रहीतं मधु अतीव मधुरं भवति । देवपूजाकायेषु आयुर्वेदीय औषधेषु च स्य प्रयोजनम् अधिकम् । काश्चन जातीयाः मधुमक्षिकाः कृतकमञ्जाषासु अपि कृषकाः पालयन्ति मधुकृषिं कुर्वन्ति । मधुसङ्ग्रहनिरताः ग्रामीणाः वनभ्रमणं कृत्वा महाममधुकोषात् मधु मधुमक्षिकाः निवार्य चोरयन्ति ।

मधुमक्षिका पुष्पात् मकरन्दं चूषति

विविधजातिया मधुमक्षिकापरिवाराः भवन्ति । तेषु पालनयोग्याः मधुमक्षिकाकुटुम्बाः अपि बहवः सन्ति ।

सुन्दरः मधुकोषः
मधुकोषस्य समीपदर्शनम्
मधुकृषियोग्यः मधुमक्षिकापरिवारः
कूपिषु मधुसङ्ग्रहः
"https://sa.wikipedia.org/w/index.php?title=मधुमक्षिका&oldid=342991" इत्यस्माद् प्रतिप्राप्तम्