मधूरुदेवालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मधूरु इति प्रदेशः केरलराज्यस्य कासरगोडुमण्डले वर्तते। अत्रस्थः देवालयः बहुप्रसिद्धः यत्र श्रीमदनन्तेश्वरस्य सन्निधिः वर्ततॆ। तत्रैव विद्यमानेन भगवतः गणपतेः सान्निध्येन क्षेत्रस्य प्रसिद्धिः वर्धितास्ति। कुम्बळेसीमान्तरे विद्यमानेषु चतुर्षु प्रमुखदेवालयेषु मधूरुदेवालयः अन्यतमः प्रमुखश्च। देवालयस्य पुरतः एव मधूरुनदी प्रवहति। वर्षाकाले नद्याः उपप्लवः देवालयं अंगणं प्रविशति।

इतिहासः[सम्पादयतु]

'मदरु' इति कयाचित् महिलया प्राप्ता आसीत् श्रीमतः मदनन्तेश्वरस्य उद्भवमूर्तिः इति लोककथा । तस्मात् एव क्षेत्रमिदं मधूरुनाम अवाप्नोत् । कश्चित् ब्राह्मणबालः क्रीडन् देवालयस्य गर्भगृहस्य भित्तौ गणपते चित्रं व्यरचयत्। दिनेषु गतेषु तत् स्थूलं बृहत् च अभवत्। सः बालः तां आकृतिं (गणपतेः) 'बोड्डज्ज', 'बोड्डगणपतिः' इति निर्दिशति स्म। सा गणपतिमूर्तिः देवालयस्य दक्षिणभित्तौ विराजते। कार्यारम्भे भक्ताः एनं मधूरुगणपतिं मनसा स्मरन्ति।

सेवाः[सम्पादयतु]

अत्र गणेशाय 'अप्पम्' इत्यस्य निवेदनं क्रियते । उदयास्तमानसेवा गणपते प्रीतिकरी सेवा इति प्रतीतिः। प्रतिदिनं प्रातः अष्टवादनतः द्वादशवादनपर्यन्तं इयं सेवा प्रचलति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मधूरुदेवालयः&oldid=409558" इत्यस्माद् प्रतिप्राप्तम्