मनोविज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मनोविज्ञानं कश्चन मनोवृत्तिबोधकं विज्ञानं वर्तते। तस्य विकासः एव मनुष्यजीवनस्य विकासं सङ्केतयति। यः समाजः मनोविज्ञानस्य उन्नत-स्तरे भवति, बहुधा स एव महत्त्वपूर्णः समाजः भवति। यतः मनोविज्ञानस्य बोधेन एव सर्वाः व्यावहारिक्यः क्रीयाः भवन्ति।

मनोविज्ञानस्य परिभाषा[सम्पादयतु]

मनोविज्ञानस्य सौकर्येण परिभाषानिरूपणप्रायशो दुःसाध्यम्। यतो विवेचनीयानां बहुविधसमस्यानां सम्यङ् निरूपणं परिमितेषु वाक्येषु दुर्वहं भवति। प्राचीनकाले मनोविज्ञानमध्यात्मदर्शनस्याङ्गभूत मासीत्, न केवलं भारतवर्ष एव, अपि तु यवनादिदेशेष्वपि। श्रूयते हि बृहदारण्यकोपनिषदि मैत्रेयी प्रति याज्ञवल्क्योक्तिः- “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य:, मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्” इति।[१] भगवता श्रीकृष्णेनापि- “अध्यात्मविद्या विद्यानाम्''[२] इत्युक्त्वा अध्यात्मविद्याया महद् गौरवं प्रदर्शितम्। उपनिषत्सु अध्यात्मविद्या महता समादरेण सर्वविद्याप्रतिष्ठेत्युक्ता। प्राचीनयवनदेशेऽपि 'डेल्फी' मन्दिरस्य मुख्यद्वार इयं सूक्तिः लिखिता आसीत्- “आत्मानं विद्धि'' इति। [३]महामुनिसुकरातमहोदयेनाऽपि स्वकीयान्तेवासिन आत्मस्वरूपविज्ञानार्थं बहु प्रेरिता आसन्। प्राचीनयवनवाङ्मये मनोविज्ञानस्य पर्यायवाचक: शब्द: ‘साइकोलॉजी' इत्यासीत्। किन्तु सोऽपि वस्तुतोऽध्यात्मविद्याया एव समानार्थकः। यतो हि यवनानीभाषायाम् 'साइके' इति शब्दस्यार्थ आत्मेति वर्तते। ‘लॉगस' इति यवनानीशब्दस्य सुसम्बद्धं प्रवचनं व्याख्यानमित्यर्थोऽस्ति। आभ्यामेव शब्दाभ्यां 'साइकोलॉजी' इति समस्तपदं निर्वक्तुं शक्यते। महदाश्चर्यं यदधुना आङ्ग्लभाषायामयमेव शब्दो मनोविज्ञानस्यार्वाचीनं महत्परिणतं विषयकलेवरमप्यभिव्यनक्ति। प्राचीनकालेऽध्यात्मविद्यायां सुमहत्यां गवेषणायां सत्यामर्वाचीनस्य मनोविज्ञानस्य समारम्भो वस्तुतस्तु षट्त्रिंशदुत्तरैकोनविंशतितमाद् (१९३६) वैक्रमाब्दाद् आरभ्यते। तदा हि प्राध्यापकवण्टमहोदयेन लीपजिंग नगरेऽखिलविश्वस्य प्रथमा मनोवैज्ञानिकप्रयोगशाला स्थापिताऽऽसीत्। तेषां ह्याचार्यप्रवराणां कुल्पेटिचनरप्रभृतयः शतशो विश्वविश्रुताः शिष्या अभूवन्। तैरेव प्रयोगात्मकमनोविज्ञानस्य सर्वप्रथमानुसन्धानपत्रिका संस्थापिताऽऽसीत्। त एवार्वाचीनस्य मनोविज्ञानस्य जन्मदातारो मनोवैज्ञानिकैर्मन्यन्ते। तदनन्तरं मनोविज्ञानस्य या बहुविधाऽऽशातीता प्रगतिः सञ्जाता, सा सर्वैरवार्वाचीनपदेन मनोविज्ञानविशेषणेनाभिव्यज्यते।

मनोविज्ञानस्याऽध्ययनविधि:[सम्पादयतु]

मनोविज्ञानस्य अध्ययनविधिः मनोविज्ञानस्य अध्ययनपद्धतिं वर्णयति। परिभाषायाः सम्यगवबोधार्थ मनोविज्ञानस्याऽध्ययनविधीनां (Methods of the study of psychology) क्षेत्रगतविविधशाखानां सम्प्रदायानां चानुशीलनमप्यनिवार्यम्, अतो वयमिदानीमेतानेव विषयान् क्रमशो विचारयिष्यामः। प्रथमतो मनोविज्ञानाध्ययनविधिनिरूपणमावश्यकं प्रतिभाति, यतो ह्यस्य विवेचने मनोविज्ञानस्य परिभाषा विशेषतः स्फुटतरा भविष्यति। मनोविज्ञानाध्ययनार्थं के विधयः सन्ति? कानि त साधनानि? इति च प्रश्नस्य समाधानार्थमुच्यतेमनोविज्ञानं प्रमाणरूपेण मुख्यतः प्रत्यक्षमेवावलम्बते मानसप्रत्यक्षं बाह्यप्रत्यक्षं चेति। विशेषाध्ययनार्थमनुमानात्मक-प्रयोगतुलनात्मकाध्ययनमनोविश्लेषणादिभिरपि प्रचुरं साहाय्यं प्राप्नोति। अस्माभिरत्र मनोविज्ञानविधिवैशिष्ट्यमुद्दिश्य एतेषां साधनानां विशदं विवेचनमुपक्रम्यते।

वैज्ञानिकप्रणालीस्वरूपम्[सम्पादयतु]

अस्माभिरितः पूर्वं मनोविज्ञानस्याध्ययनस्य विशिष्टा विधयो व्याख्याताः। तेषां व्याख्यानेन मनोविज्ञानस्य प्रतिपाद्यं तत्साधनानि च विशदीकृतानि। अधुनाऽस्माभिर्विवेचनीयमस्ति। ननु का हि सा वैज्ञानिकप्रणाली यया संस्कृतो ज्ञानराशिर्विज्ञानमित्यभिधानेनाऽलङ्क्रियत इति।इत वैज्ञानिकप्रणाली षट्सोपाना भवति। यथा हि – (अ) निरीक्षणयोगादिभिः सामग्रीसङ्कलनम्। (Collection of data through observation and experiment.) (आ) विश्लेषणम्, वर्गीकरणञ्च। (Analysis and classification.) (इ) अनुपयुक्तपरित्यागः। (Elimination.) (ई) व्याप्तिकल्पनम्। (Formation of hypotesis.) (उ) नियमनिर्धारणम्। (Generalisation.) (ऊ) पुन: परीक्षणम्। (Verification.)

(अ) सामग्रीसङ्कलनम्[सम्पादयतु]

निरीक्षणेन प्रयोगैश्च सामग्रीसञ्चयः सम्पाद्यते। निरीक्षणमप्यौदासीन्यसमन्वितं नाऽपेक्ष्यते। यदृच्छाप्राप्तसामग्री तु अकिञ्चित्करा भवति। सर्वोपरि महत्वपूर्णावश्यकता गवेष्यविषयलक्षणस्पष्टीकरणस्य विद्यते। उक्तं हि पूर्वाचार्य: लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः” इति। यदि लक्षणं स्पष्टं भवेत्, तर्हि गवेषणामार्गः प्रशस्त: सञ्जायते। निरीक्षणे धैर्यं सततपरिश्रमश्च महत्तरमपेक्ष्यते। प्रकृते रहस्यानामुद्घाटनं दुष्करं भवति। "त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात् कदाचिद्गतिमाप्नुयात्, सः' इति सर्वदैव वैज्ञानिकानुसन्धाननैराश्यवेलायां स्मर्तव्यम्। अपि च, प्रकृतिर्यदृच्छयैव समस्तां सामग्री न वैज्ञानिकाय प्रदत्ते। अपि तु वैज्ञानिकस्य जिज्ञासां स्फुटप्रश्नरूपलक्ष्या मभिमुखीकृत्यैव प्रकृति: स्वरहस्यान्युद्घाटयति। उक्तं हि जर्मनदेशीयदार्शनिकशिरोमण्याचार्य इमैनुअलकाण्टमहोदयेन-“बुद्ध्या प्रकृतेः सकाशं तथ्यानां ज्ञानार्थमवश्यमेवागन्तव्यम्, किन्तु तन्न शिष्यवत्, यतो हि शिष्य: स्वाचार्येच्छानुसारमुक्तं भाषणं श्रद्धयैव शृणोति, किन्तु तया विचारपतिरीत्या प्रकृतिरुपसर्पणीया, यथा हि विचारपति: स्वेच्छानुकूलान् प्रश्नान् साक्षिण: पृच्छति, यान् हि स स्वयं जिज्ञासितुं समीचीनान् मन्यते''[४] इति। अत एव गवेषणार्थं विवेच्यपदार्थविषयकाणि सर्वाण्येव तथ्यानि पूर्वापरपरिस्थितिभ्यः सगृह्य वैज्ञानिकेन कार्यकारणसम्बन्धोऽपि गवेषणीयः।

(आ) विश्लेषणं वर्गीकरणञ्च[सम्पादयतु]

किन्तु सङ्कलितसामग्या न तावत् कार्यकारणसम्बन्धनिर्धारणं कर्तुं शक्यम्। यावन्न जिज्ञास्यविषयापेक्षया तस्या विश्लेषणं वर्गीकरणञ्च सम्भवेत्। अतो हि विवेच्यविषयो विविधाङ्गेषु विभाजनीयः, विविधाङ्गोपाङ्गविभाजनानुसारं सङ्कलितसामग्या वर्गीकरणमप्यनायासेन भविष्यति, महांश्चानेन लाभो भविष्यति। यतो ह्यनुपयुक्तान्यनावश्यकानि तथ्यानि, येषां प्रतिपाद्यविषयाङ्गोपाङ्गेष्वन्तर्भावः कर्तुं न शक्यते, स्वत एव निरस्तानि भविष्यन्ति।

(इ) अनुपयुक्तपरित्यागः[सम्पादयतु]

सङ्कलितसामग्रीराशौ विवेच्यविषयमधिकृत्य यदुपयुक्तं विषयानुकूलमभूत् तद्वर्गीकृतमेव। अनुपयुक्तानां कारणानामिव प्रतीयमानानां तथ्यानां निरासोऽपि करणीय एव। अन्यथा व्यप्तिकल्पनं गौरवादिदोषदुष्टं भविष्यति। हेत्वाभासानां तथ्यानां निरसनमतीव दुष्करं भवति। केषुचित् स्थलेषु परिस्थितिपरिवर्तनेन कार्यकारणसम्बन्धनिश्चय: सम्पाद्यते। याः काश्चित् परिस्थितय: कार्योत्पत्त्यर्थमनिवार्या भवन्ति, तासामेव कारणसामग्रीषु समावेश: कर्तव्योऽन्याश्च निरसनीयाः। यासां परित्यागेन कार्योत्पत्तौ न काऽपि क्षतिः सञ्जायते, ता एव परिस्थितय: कारणसामग्र्यपेक्षया नावश्यिका वैज्ञानिकैर्मन्यन्ते। परिस्थितिपरिवर्तनञ्च प्रयोगसापेक्षं भवति। यतो हि प्रयोगस्य निरीक्षणादिदमेवाऽस्ति वैशिष्ट्यं यद्धि प्रयोगात्मके परीक्षणे परिस्थितिपरिवर्तनं वैज्ञानिकेच्छाधीनं भवति वैज्ञानिकस्येच्छाऽपि नोच्छृङ्खला भवति, अपि त्वनुसन्धान विषयकयोजनानुसारिणी हि सा। अत: प्रयोगो निरीक्षणादतिरिच्यते। अनावश्यकसामग्री जातस्य परित्यागः प्रयोगेणैव सुष्ठु साध्यो भवति।

(ई) व्याप्तिकल्पनम्[सम्पादयतु]

व्याप्तिकल्पनञ्च कारणकार्यसम्बन्धस्थापनार्थमावश्यक मेव, तद्धि प्रतिभामपेक्षते। “यत्र यत्र धूमस्तत्र तत्र वह्निः', यद्वा “भूमावाम्रपतनं पृथिवीगुरुत्वाकर्षणजन्यम्” इति व्याप्तिकल्पनं प्रतिभां विना निश्चेतुं न शक्यम्। प्रतिभेयं दूरदर्शित्वानुभवायत्ता भवति। आचार्यप्रवरा मन्यन्ते-“भगवत्प्रसादात् प्रतिभा पुरुषा लभन्ते” इति। जिज्ञासाया उत्कर्ष एव भगवत्प्रसादाय कल्पत इति वयं मन्यामहे। दैनन्दिनं चिन्तनं व्याप्तिकल्पनक्षमतां प्रदत्ते। नेदं व्याप्तिकल्पनं सर्वदैव समीचीनं भवति। यदा तु व्याप्तिकल्पनं सञ्चितसामग्र्याऽनुमोदितं भवति, तदा हि तद् विद्वद्भिः समीचीनं मन्यन्ते। यदि तत्कल्पनं भावितथ्यानि व्याख्यातुं न शक्नोति, कार्यकारण सम्बन्धस्थापनपुरस्सरस्पष्टीकरणक्षमतां न भजते, तर्हि तत्कल्पनमपि त्याज्यमेव भवति। प्रगतिशीलविज्ञानचिन्तायां नैतद् विगर्हितं मन्यते। यद्धि आवश्यकं तद् विज्ञानस्य याथातथ्यम्। यथा हि वस्तुनः स्वरूपं तथैव तस्य निर्धारणं व्याख्यानञ्च विज्ञानस्य महल्लक्ष्यम्। एतदर्थमेव व्याप्तिकल्पनमाश्रीयते।

(उ) नियमनिर्धारणम्[सम्पादयतु]

नियमश्च सामान्यसिद्धान्तः, येन स्वक्षेत्रान्तर्गत विभिन्नघटनानां कार्यकारणसम्बन्धपुरस्सरं व्याख्यानं कर्तुं शक्यते। यदा हि नियमप्रतिकूला: केचनापवादा भवेयुस्तदा तन्नियम: परिष्कारमपेक्षते। सिद्धान्तस्तु नियमादतिरिच्यते। सर्वे सिद्धान्ता नियमा: न तु सर्वे नियमा: सिद्धान्ता भवितुं प्रभवन्ति। वैज्ञानिकनियमानां परिष्कार: कर्तुं शक्यः, किन्तु सिद्धान्तः सार्वत्रिक: सार्वकालिको भवति। एतावता परिष्कारपरीक्षणप्रयोगादिकोटिमतीत्यैव नियम:' सिद्धान्तपदेनाभिव्यक्तं चिरन्तनं गौरवं लभते। यदा हि व्याप्तिकल्पनं व्याप्त्यतिव्याप्तिदोषादिविनिर्मक्तं भवति, तदैतनियमपद मारोहति, न त्वन्यथा। नियमादप्येका निम्नकोटिर्वर्तते, सा हि मान्यतेति, मतमिति वा शब्देनाभिव्यज्यते। यदा केनचिल्लब्धप्रतिष्ठेन वैज्ञानिकेन प्रतिपादितः कोऽपि सामान्यो नियमः परीक्षणावस्थायामेव तिष्ठति। यद्यपि साक्षात्तस्य कोऽप्यपवादः सुगमतया नोपलभ्यते, यावच्च स न सर्वैर्मनीषिभिः समाद्रियते, तावत्स नियमो मान्यतेति किं वा मतमिति संज्ञया व्यवह्रियते। न च स तावनियमकोटिं भजते, यावन्न तस्य सिद्धिस्त्रुट्यनवकाशा भवेत्। उदाहरणतो न्यूटनमहोदयैः प्रतिपादितो गुरुत्वाकर्षणवादो नियमोऽस्ति, फ्रायडमहोदयैः प्रतिपादित: कामेच्छावादोऽद्यावधि मान्यतैवास्ति। इत्थमेव डारविनमहोदयानां विकासवादोऽपि मतमेवाख्यायते। सत्कार्यवादस्तु नियमः, कारणे सत्येव कार्योद्भव इति नियमः शाश्वतिको नियमपदर्वी स्वत एव विभूषयति। सर्वे वादा मान्यतापर्याया एव। प्रकृतिसामरस्यसिद्धान्तस्तु शाश्वतिको नियमवदेव सार्वकालिकः। अतो नियमात् सिद्धान्तस्याऽस्ति किश्चिद् गौरवम्। अनेन सिद्धान्तेन प्रतिपाद्यते यद्धि प्रकृतिर्नियतकारणसङ्घातपरिस्थिती नियतफलमेवोत्पादयति, न त्वन्यथेति।

(ऊ) पुनः परीक्षणम्[सम्पादयतु]

नियमनिर्धारणानन्तरमपि तन्नियमस्य परीक्षणमावश्यक भवति। सत्यत्वं हि त्रिकालाबाधितत्वम्। यदि कोऽपि नियमोऽधुना तु निर्धार्यते, निश्चीयते, घोष्यते च, किन्त्ववान्तरकालिकानि कानचित्तथ्यानि स सम्यक्तया व्याख्यातुं न प्रभवति, तर्हि तन्नियमः परिष्कारमपेक्षते। यदि परिष्कारस्य सम्भावना न भवति, तर्हि तस्य तिरस्कारोऽपि विज्ञानेतिहासे लक्ष्यत एव। न्यूटनमहोदयैः प्रतिपादित: प्रकाशविषयकाणविकवादो नैवास्मिन् युगे वैज्ञानिकैः समाद्रियते। अस्य स्थाने प्रकाशोभिवाद: समीचीनतर: प्रतिभाति। मन्ये कालान्तरेऽयमेव नियमपदवी प्राप्स्यति।

अतो भाविपुष्करघटनानिकषप्रमाणित एव नियम: स्वप्रतिष्ठासंरक्षणे समर्थो भवति। पुन: परीक्षणेन प्रयोगात्मकेनाऽपि यः प्रमाणितो घोष्यते, स एव नियमो विद्वरेण्यैः सुप्रतिष्ठितो मन्यते।

उदाहरणम् - वैज्ञानिकप्रणाल्या विवेचनमिदमेकेनोदाहरणेन स्फटीक्रियते। मलेरियेति प्रकारको ज्वर: केन कारणेनोत्पद्यत इति प्रश्ने विचार्यमाणे बहूनि कारणानि कल्पयितुं शक्यानि। उदाहरणतो दुष्टं भोजनं रात्रिजागरणं मर्यादातीतमध्ययनं पाचनक्रियादौर्बल्यं शीतप्रकोप इत्यादीनि कारणानि भवितुमर्हन्ति। सर्वासामेव ज्वरपरिस्थिति घटितानां कारणसामग्रीणां प्रथमतः सङ्कलनं क्रियते। तदनन्तरं तस्याः सामग्रया ज्वरलक्षणमभिमुखीकृत्य वर्गीकरणं क्रियते। ज्वरग्रस्तानां पुरुषाणां जीवनचर्याजलवायु निवासस्थानवर्षर्तुदेशायुर्वस्त्रादीनि सम्यक्तया निरीक्ष्यन्ते। ज्वरस्य निदानमप्यवधार्यते। यथा हि ज्वरात्पूर्वं शीतप्रकम्पनं शिरःशूलं जलपिपासा शारीरिकतापमानवृद्धिरित्यादीनि लक्षणानि भवन्ति। तृतीयसोपानानुसारं परिस्थितिपरिवर्तनेनेतराणि सर्वाणि कादाचित्कानि कारणजातानि निरसितुं शक्यन्ते। व्याप्तिकल्पनमपि बहुप्रकारकं भवितुमर्हति। यथा हि ज्वरकारणं भोजनद्वारा सङ्क्रामककीटाणुप्रभावोऽथवा मशकप्रकारेण केनाऽपि कीटेन दंशनमिति। प्रयोगेण तदनन्तरं साधितं भवति-ज्वरकारणन्तु एनोफीलनाम्न: कीटस्य दंशनमेव, न त्वन्यत्। औषधप्रयोगेणाऽपि दंशनप्रभावं शमयित्वा ज्वरप्रतीकारोऽपि साध्यते। न केवलमेतावतैव व्याप्तिनियम: प्रतिष्ठापितो भवति। गृहनिकटस्थ जलाशयोत्पन्नतन्नामककीटविनाशनेन मशकप्रतीकारार्थं स्वापकाले मशकहरीप्रयोगेण च ज्वरस्य सम्भावनाऽपि निवारयितुं शक्या भवति। अत एव सिद्धं पुन: परीक्षणेनाऽपि यद्धि ज्वरस्य कारणम् ‘एनोफील' इति नाम्नः कीटस्य दंशोत्पन्नं विषमेवेति।

स्मरणीयमत्र यद्धि वैज्ञानिकप्रणाल्यानुमोदितं कारणं लक्षणपञ्चकान्वितं भवति। तथा युक्तं केशवमिश्रेण तर्कभाषायाम्[५] - 'एतेषाम् अन्वयव्यतिरेकि-केवलान्वयिकेवल व्यतिरेकिहेतूनां मध्ये यो हेतुरन्वयव्यतिरेकी स पञ्चरूपोपपन्न एव स्वसाध्यं साधयितुं क्षमते, न त्वेकेनाऽपि रूपेण हीनः। तानि पञ्चरूपाणि तु पक्षधर्मत्वम्, सपक्षसत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं च” इति। स्पष्टमेव यद् वैज्ञानिकाभिमतो हेतुरन्वयव्यतिरेकी एव भवति। अस्माभिर्वैज्ञानिकप्रणाल्या उपर्युक्तं

अर्वाचीनं मनोविज्ञानम् विवेचनं सङ्खपत एव कृतम्। अनया प्रणाल्या साधितो ज्ञानराशिर्विज्ञानपदवी समारोहति। अस्या प्रणाल्या विशदविवेचनं वैज्ञानिकप्रवैरै: कार्लपियर्सनमहोदयैः ‘विज्ञानस्य व्याकरणम्'[६] इत्याख्ये ग्रन्थे कृतं समुपलभ्यते, जिज्ञासुभिः पाठकैस्तत्रैव पठनीयम्। न्यायग्रन्थेष्वपि निर्दुष्टहेतुस्वरूपमवलोकनीयम्। मनोविज्ञानमपि वैज्ञानिकप्रणालीमनुसरति। अत एवार्वाचीनमनोविज्ञानस्य विज्ञानाभिधानं सिद्धं भवति।

मनोविज्ञानस्य शाखाः[सम्पादयतु]

अधुनाऽस्माभिर्मनोविज्ञानस्य क्षेत्रस्वरूपप्रदर्शनार्थं तस्य शाखानां विवरण मुपस्थाप्यते। मनोविज्ञानस्य समासतो विभाजनं द्विधा कर्तुं शक्यते-सामान्यं मनोविज्ञानम्, असामान्यं मनोविज्ञानं चेति। सामान्यं मनोविज्ञानं साधारणतया स्वस्थमनुष्याणां पशूनाञ्च मनोविकाराणां संवेदनविचारमूलप्रवृत्तिसंवेगेच्छाप्रयत्नादीनां वैज्ञानिकमध्ययनं लक्ष्यीकरोति। असामान्यं मनोविज्ञानं तु विलक्षणव्यक्तित्वविशिष्टानां विक्षिप्ताद्यवस्थाजन्य मानसिकरोगिणामध्ययनं समाश्रयते। लोकोत्तराणां पुरुषाणां वीतरागाणां वा सम्यगध्ययनमप्येतावता सामान्यमनोविज्ञानान्तर्गतमेव भवति। स्वप्नाद्यवस्थानामध्ययनं मनोविश्लेषणमप्यसामान्यमनोविज्ञान एव समावेशमर्हति। अस्माभिरयमेव विभागोऽस्मिन् ग्रन्थेऽङ्गीकृतः।

अपरथाऽपि मनोवज्ञानस्य विभाजनं क्रियते। विवेचनात्मकं सैद्धान्तिकं वा मनोविज्ञानम्, व्यावहारिकं मनोविज्ञानं चेति। विवेचनात्मकं मनोविज्ञानं तु विशुद्धविज्ञानमेव। निःस्वार्थं ज्ञानमात्रायार्जितं ज्ञानं विशुद्धविज्ञानमित्युच्यते। व्यावहारिकं मनोविज्ञानं त्वैहिकस्वार्थसमुपोढं भवति। उपयोगितानुकूललक्ष्यसाधनेऽनुरक्तं हि खलु व्यावहारिकं मनोविज्ञानं भवति। विशुद्धविज्ञानं स्वार्थनिरपेक्षं स्वामिवत् सामान्यनियमानुसन्धानपरायणं भवति। व्यावहारिकं विज्ञानं तु भृत्यवद् लोकसेवासाधनं करोति। उदाहरणत: सामान्यमनोविज्ञानसामान्यमनोविज्ञानं पशुमनोविज्ञानं बालमनोविज्ञानं काममनोविज्ञान मित्यादीनि विवेचनात्मकमनोविज्ञानाङ्गानि भवितुमर्हन्ति। व्यावहारिके मनोविज्ञाने खलु शिक्षामनोविज्ञानम् अपराधिमनोविज्ञानं व्यापारिकमनोविज्ञानं वैज्ञानिकमनोविज्ञानमसामान्यचिकित्सामनोविज्ञानमित्यादीनां समावेश: करणीयः।

विनिगमकद्वयमाश्रित्यैवाऽस्माभिरत्र प्रकारद्वयेन मनोविज्ञानान्तर्गतशाखानां विभाजनं स्फुटीकृतम्। वयमधुना विशिष्टविषयक्षेत्रनिर्देशपुरस्सरं विविधशाखानां परिचयमारभामहे।

(१) शारीरकं मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं शाखा नाडीसंस्थानस्य निर्मितिस्वरूपं क्रियाकलापञ्च मनोविकारैः सह इतरेतरप्रभावपुरस्सरमध्ययनं विषयीकरोति। अस्ति हि मस्तिष्कस्य का रचना? किं मस्तिष्कं मन एव? केन्द्रीयनाडीसंस्थानं का: क्रियाः सम्पादयति? केन प्रकारेण तासां सम्पादनं कुरुते? विभिन्नज्ञानेन्द्रियाणां क्रियाकलापं किंप्रकारकं भवति? किमन्तर्ग्रन्थीनामपि कश्चन प्रभावो मनोविकारेषु संल्लक्ष्यते? इत्यादीनि प्रश्नशतानि मनोविज्ञानस्येयं शाखा स्वविषयीकरोति। अर्वाचीनमनोविज्ञानस्य शैशवे वैक्रमसंवत्सरस्य विंशतितमशताब्द्या द्वितीयचरणे प्रयोगात्मकमध्ययनमनयैव शाखया समुत्साहेन प्रारब्धमासीत्। अद्यावध्यप्यायुर्वेद विज्ञानाध्ययनसहकृतमेवास्यां शाखायां महत्त्वपूर्णमनुसन्धानं क्रियते। प्रारम्भकाल आसीदयमभिनिवेश: केषाञ्चिन्मनोवैज्ञानिकानां यद्धि मस्तिष्कमेव मनः। मस्तिष्कस्य रचनाक्रियासम्पादनादिरहस्योद्घाटनेनैव मनस: स्वरूपमुद्घाटयितुं शक्यत इति। तदा तु भौतिकवादस्य प्रचण्डतमो वैज्ञानिकक्षेत्रेषु प्रभाव आसीत्। किन्तु नायमैकान्तिक आग्रहो मनोवैज्ञानिकेष्वधुना दरीदृश्यते। तथापि मस्तिष्कमनसोरितरेतरप्रभावो महत्सहकारित्वञ्च तैरपि स्वीक्रियत एव। अस्माभिरस्या: शाखाया विवेच्यविषयान्तर्गत समस्यानामध्ययनं समासतो द्वितीयाऽध्याये करिष्यते।

(२) तुलनात्मकं मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं विशिष्टा शाखा पशूनां मनुष्याणाञ्च मानसिकक्रियासमन्वितव्यवहारणामध्ययनं तुलनात्मकपद्धत्या उपक्रमते। अस्ति हि महत्साम्यं पशूनां मनुष्याणां च व्यवहारे मूलप्रकृतिषु च। वयमप्यग्रिमाध्यायेषु विशेषतो मूलप्रवृत्त्यध्ययनविधिसंवेगादिविषयविवेचनाऽवसरेऽस्याः शाखाया: प्रतिपादिततत्त्वानां विवेचनं करिष्यामः।

(३) विकासान्वितमुत्पत्तिमूलकं वा मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं शाखा मनोवृत्तीनां व्यवहारानुगतं विकासं जन्मन आरभ्य शैशव-कैशोर-पौगण्ड-यौवन-किञ्चित्परिहाणि-वार्धकाद्यवस्थासु मरणपर्यन्तं गवेषयति। कथं हि मनसः क्रियाणां वृत्तीनां शक्तीनां वा विकास: क्रमशश्चरमां प्रौढावस्थामवाप्नोति, कथञ्च तासां क्रमशो हासो भवतीत्यनया मनोविज्ञानशाखया निर्धार्यते। अस्माभिरप्यस्याः केषाञ्चित् समुपलब्धनिष्कर्षाणां विविचनं व्यक्तेर्बुद्धिविकासानुसन्धानावसरे वातावरणवंशानुक्रम प्रभावविवेचनाद्यवसरे च करिष्यत एव।

(४) बालमनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं शाखा महती लोकोपकारिणी। अस्मिन् युगे शिक्षणपद्धतेर्यादृशी प्रगतिः सर्वत्र संल्लक्ष्यते, तस्याः श्रेयो बालमनोविज्ञानायैव। अनया शाखया मूलप्रवृत्ति-रुचि-संवेदन-संवेग-विचार प्रयत्नेच्छाकल्पनादिविषयानधिकृत्य जन्मन आरभ्य चतुर्दशवर्षं यावत् किं वा अष्टादशवर्षपर्यन्तं बालकानां मनोविकासस्य व्यवहारसापेक्षं वैज्ञानिकमध्ययनं सम्पाद्यते। यौवने व्यक्तित्वस्य सम्यग्विकासो बाल्यकाल एव समुचितशिक्षणमन्तरा न सम्भवति। शिक्षणशब्दस्य प्रकृतसन्दर्भे व्यापकोऽर्थो ग्रहणीयः। शिक्षणं न खलु बालकस्य पाठशालायामेव सम्भवति, अपि तु गृहे मातृपितृसन्निधानेऽपि, क्रीडास्थले मित्रसकाशेऽपि च भवत्येव। बालकस्य मनोवृत्तिविकासार्थं रुचिवैचित्र्यानुसन्धानार्थं न तदुपेक्षणीयमस्ति। वयमपि बालमनोविज्ञानस्य यथावसरेऽग्रिमेष्वध्यायेषु किञ्चिद्विवेचनं करिष्यामः।

(५) व्यक्तित्वात्मकं मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं शाखा विशिष्ट व्यक्तित्वस्याध्ययनं सम्यग्रीत्या करोति। कथं हि खलु व्यक्तित्वं विकसति? का च कारणसामग्री व्यक्तित्वे वैशिष्ट्यमावहति? किञ्च व्यक्तित्वस्य प्रतिमानं भवितुमर्हति? कथं नु विभज्यमानं व्यक्तित्वं मनुष्यं विक्षिप्ताद्यासामान्यावस्थामानयति? अस्माभिरप्येता: समस्या बुद्धिमापनकल्पना-विकास-वंशानुक्रमवातावरणप्रभाव-संवेग-मनोविश्लेषणादि विवेचनावसरे विचारयिष्यन्ते।

(६) सामाजिकं मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं शाखा मनुष्योपरि पुरुषेतरजन्य-सामाजिकप्रभावमन्वेषयति। केन प्रकारेण च समाजस्याङ्गीभूतव्यक्तिरन्यान् पुरुषान् प्रभावयतीत्यपि सामाजिकं मनोविज्ञानमवधारयति। सामूहिकं मनोविज्ञानमप्यस्यैव मनोविज्ञानस्य प्रशाखा। यतो हि व्यक्तिर्धार्मिकराजनीतिव्यावसायिकसमुदायेषु नेतृगणप्रेरितं व्यवहारमेव जनयति, न तु स्वबुद्धिनिर्णीतं व्यवहारम्। अत एव तद्व्यवहारप्रेरकाणां कारणानामालोचनमप्यपेक्ष्यत एव। तत्तु सामूहिकमनोविज्ञानेन सामाजिकमनोविज्ञानेन च सम्पाद्यते।

(७) व्यावहारिकं मनोविज्ञानम्[सम्पादयतु]

अस्माभिरुक्तमेव यद्धि मनोविज्ञानस्य महतीं लोकोपयोगितां विज्ञायास्य प्रयोगः सामाजिकजीवनस्य बहुषु क्षेत्रेष्वधुना विद्वद्भिः क्रियते। सामाजिकं मनोविज्ञानं खलु सामाजिकजीवनानुभूतजटिलतमसमस्यानां समाधानमन्वेषयति। व्यावहारिकमनोविज्ञानस्याधुना बहुला: शाखा विद्यन्ते। उदाहरणत: शिक्षामनोविज्ञानं व्यावसायिकं मनोविज्ञानमसामान्यचिकित्सामनोविज्ञानं चिकित्सा मनोविज्ञानमपराधिमनोविज्ञानं विक्रयात्मकं मनोविज्ञानं वैज्ञापनिकं मनोविज्ञानमित्यादयः। एतेषामपि यत्र तत्र किञ्चिद्विशेषतोऽध्याये विवेचनं करिष्यत एव। यद्यपि विशिष्टं व्याख्यानमेतेषामस्माकं प्रतिपाद्यं नास्त्यत्र स्थानाभावात्तथापि किञ्चिद्दिङ् निर्देशं वयं करिष्यामः।

(८) भेदान्वितं मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानस्येयं शाखा अमेरिकादेशे प्रथमत: संवर्धिता। अनया शाखयैकस्या व्यक्तेरन्यव्यक्तेर्भेदप्रकारो गवेष्यते। महिलानां पुरुषेभ्यः पुरुषाणाञ्च महिलाभ्यो भेदः कस्मिन् कस्मिन् विषये वर्तते, अथवैकजातीयानां पुरुषाणामितरजातीयपुरुषेभ्यः किम्प्रकारकं वैलक्षण्यमित्यादीन् विषयानधिकृत्येदं भेदान्वितं मनोविज्ञानं स्वकीयानुसन्धानं वितनोति। अस्त्यस्य मनोविज्ञानस्य व्यक्तित्वात्मकेन मनोविज्ञानेन पूर्वनिर्दिष्टेन साकं महत्साम्यम्। बुद्धिमापकं व्यक्तित्वमापकमित्यादीनि व्यवसायक्षेत्रेषु शिक्षाक्षेत्रेषु महता साफल्येन प्रयुक्तानि सन्ति। तेषां सर्वेषामन्वेषणमिदं भेदान्वितं मनोविज्ञानमपि करोति।

ननु किमस्त्यस्माकं प्रतिपाद्यम्? अस्मिन् ग्रन्थेऽस्माभिर्यत् प्रतिपाद्यं विवेचयिष्यते तत्त्वर्वाचीनं मनोविज्ञानं सामान्यं मनोविज्ञानमसामान्यं मनोविज्ञानं चेति। अस्माभिरयं प्रथमो ग्रन्थ: सुरभारत्यर्चनाय अर्वाचीनस्य मनोविज्ञानस्य विशालक्षेत्रस्य भूमिकारूपेणैव प्रस्तूयते। यद्यप्यस्माकं लक्ष्यं वयस्कानां मनोविज्ञानस्य विवेचनमेव, किन्तु वयमावश्यकतानुसारं मनोविज्ञानस्य विविधशाखाभ्योऽपि समन्वयात्मकरूपेण पुष्कलसामग्र्युपयोगं करिष्यामः। नैतावता वयं सन्तुष्टा भविष्यामः। यद्यपि मनोविज्ञानमधुना स्वतन्त्रं गौरवपदमलङ्करोति, तथापि यथावसरं दार्शनिकमतानां विवेचनं समालोचनं चास्माभिः समादरेण नूनं समासतः करिष्यत एव।

मनोविज्ञानस्य सम्प्रदायाः[सम्पादयतु]

मनोविज्ञान इवोदीयमाने विज्ञान आन्तरिकमतभेदास्तु सन्त्येव। यद्यपि मनोविज्ञानं विशालक्षेत्रं बह्वनुसन्धानकायम्, तथाप्यस्येदानीं शैशवमेव। अस्य प्रगतिशीलत्वेनैवैतादृशी समुन्नति!नेऽपि काले सञ्जाता। मनोवैज्ञानिकानामपि मनोविज्ञानस्य प्रतिपाद्यमधिकृत्य नूनमेव बहवो भेदा: सन्ति। कस्य विषयस्य मनोविज्ञानस्य विवेचने प्राधान्यं भवितुमर्हति, कस्य च गौणत्वमित्यधिकृत्यापि दृष्टिभेदाः सञ्जाता:। को हि खलु मनोविज्ञानस्य समीचीनो विधि:, कानि वा अनुसन्धानसाधनानि, यान्यनुसृत्य मनोविज्ञानं स्वगन्तव्यं प्राप्तुमर्हतीत्यस्मित्रपि विषये तेषां मनोवैज्ञानिकानां नैवं सर्वेषां सर्वदा मतैक्यमासीत्। यदा बहवो विद्वांस एकमेव मतमनुमोदयन्ति, तदा तेषां वर्गविशेषः सम्प्रदाय पदेनाऽभिधीयते। काऽपि विशिष्टा विचारधारा विचारपरम्परा वा, यया आचार्यविशेषो दृष्टिविशेषो वा समाद्रियते, सम्प्रदायसंज्ञया व्यवहर्तुं शक्यते। मनोविज्ञानक्षेत्रे तु साम्प्रतं नैव कोऽप्येको विशिष्टः सम्प्रदायः सँल्लक्ष्यते। किन्तु वैक्रमसंवत्सरस्य विंशतितमायाः शताब्द्या अन्तिमचरणद्वये, विशेषत: सप्तपञ्चाशदुत्तरैकोनविंशतितम (१९५७) वर्षादारभ्य सप्ताशीत्युत्तरैकोनविंशतितम(१९८७)वर्षपर्यन्तं बहवो मनोवैज्ञानिकसम्प्रदायाः प्रादुरभवन्। तेषांसङ्क्षिप्तं विवरणमात्रास्माभिरुपस्थाप्यते।

(अ) निर्मितिवादः - Structuralism[सम्पादयतु]

अयं सम्प्रदाय आचार्यप्रवराभ्यां प्राध्यापकवण्ट टिचनरमहोदयाभ्यां[७] प्रारब्ध आसीत्। आचार्यप्रवरेण वण्टमहोदयेन लीपजिविश्वविद्यालये जर्मनीप्रदेशे या प्रथमा प्रयोगात्मकमनोविज्ञानानुसन्धानार्थं प्रयोगशाला स्थापिताऽभूत्, तस्यामध्ययनार्थं विविधदेशेभ्यः समुत्साहसम्पन्नाः टिचनरप्रभृतयः बहवो विद्यार्थिन: समागतवन्तः। सर्वेषु तेष्वेको महामतिराङ्गलदेशीय: टिचनरोऽप्यासीत्। सोऽध्ययनानन्तरम् अमेरिकां गत्वा कार्नेलविश्वविद्यालये मनोविज्ञानविभागाध्यक्षपदमलङ्करोति स्म।

प्राध्यापकवण्टप्रतिपादितविचाराननुसृत्य टिचनरमहोदयेन निर्मितवाद इति सम्प्रदाय: स्थापितः। तेनेदं प्रतिपादितं यद्धि मनोविज्ञानस्य प्रतिपाद्यं कल्पनाविचार भावनारूपत्रिविध-तत्त्वैर्निर्मितं चैतन्यमेव[८] । अस्य चोपयुक्तमध्ययनसाधनं मानसं प्रत्यक्षमेव, यत् कुशलैः प्रशिक्षितैर्निरीक्षकैराश्रीयते। सामाजिकव्यवहारसामान्यव्यवहारप्रयत्न व्यक्तित्वादीनि तेन मनोविज्ञानप्रतिपाद्यक्षेत्रे न समावेशितानि। तेन तच्छिष्यैश्च बहवः प्रयोगा: साफल्येन सम्पादिताः।

(आ) क्रियावादः - Functionalism[सम्पादयतु]

अयं सम्प्रदायो निर्मितिवाद इव नास्ति सुदृढो नैव च शृङ्खलाबद्धोऽपि। अस्योद्भवस्तु निर्मितिवादस्याऽनेकमनोवैज्ञानिकानां समालोचनारूपेणा भवत्। डेन्मार्कदेशीयहाफडिंगमहोदयेन अमेरिकादेशीयप्राध्यापकविलियमजेम्समहोदयेन च प्राध्यापकटिचनरप्रभृतिभिः प्रतिपादितो निर्मितिवादो नाङ्गीकृतः। ताभ्यां मानसिकक्रियाणां परिवर्तनशीलं स्वरूपमभिमुखीकृत्येदं साधितं यद्धि चैतन्यस्य निर्मितिस्तरेषु पृथक्तो विभाजनं कर्तुं न शक्यते। एकोनविंशतिशततमवर्षा(१९००)दनन्तरं नाऽतिचिराद् अमेरिकादेशीयशिकागोविश्वविद्यालयस्य प्राध्यापकाभ्यां श्रीडिबेएंजेलमहोदयाभ्यां[९] प्राणिनः स्ववातावरणेन सह सामञ्जस्यस्थापनप्रकारा विशेषतः समुल्लिखिताः। मानसिकक्रियाणामध्ययनेन तेषां त्वयमभिप्राय आसीद् यत्केन प्रकारेण विचारसंवेगादि मानसिकक्रिया: प्राणिनः प्राणधारणार्थावश्यकतापूर्त्यर्थं व्यवहारसौकर्य सम्पादयन्तीति। क्रियावादिनां मनोवैज्ञानिकानां प्रतिपादितमतानामयं प्रभावोऽभवद् यद्धि प्राणिविज्ञानेऽपि मनोवैज्ञानिकानां विशेषरुचिः समजायत, मनोविज्ञानस्य समस्यानामध्ययने च विकासान्वितायाः पद्धत्याः प्रयोगो बहुलतरः प्रवर्तितः।।

(इ) व्यवहारवादः[सम्पादयतु]

व्यवहारवादनामा मनोविज्ञानसम्प्रदायस्तु हाप्किन्सविश्व विद्यालयस्य पशुमनोविज्ञानविशारदेन प्राध्यापकवाट्सनमहोदयेन प्रवर्तितः। सोऽपि निर्मितिवादस्य दृष्टिकोणं सङ्कुचितमेव मन्यते स्म। तदनुसारं क्रियावादिभिः कृतं समालोचनमपि निर्मितिवादस्य फल्गुताप्रदर्शनं कर्तुं क्षमं नासीत्। प्राध्यापकवाट्सनेन विशेषतो मानसप्रत्यक्षस्य निरर्थकताऽवैज्ञानिकता च प्रदर्शिता। तन्मते मनोविज्ञानस्य विवेच्यं तु व्यवहाराध्ययनमेव, न तु चैतन्यं चैतन्यसन्तानं वा। प्रकृते सम्प्रदाये मनोविज्ञानस्यार्वाचीनस्य प्रतिपादने च व्यवहारपदप्रयोगो नीतिशास्त्राभिमतौचित्यानौचित्य संसर्गनिरस्त एव भवति। कमपि पुरुषं पशुं वा कस्याप्युत्तेजकस्य सविधे प्रयोगशालायां समुपस्थाप्य तस्य प्रतिक्रियाया वस्तुतन्त्रात्मकवैज्ञानिकविधिनाकलनात्मकं निरीक्षणमेव वस्तुतो वैज्ञानिकी सामग्री प्रदातुं प्रभवति। वाट्सनमहोदयस्तच्छिष्याश्चाऽध्ययनसंवेग प्रवृत्तिव्यक्तिविकसादिक्षेत्रेषु महत्वपूर्णान् प्रयोगान् कृतवन्तः।

(ई) समष्टिवादः[सम्पादयतु]

अयं सम्प्रदाय: निर्मितिवादव्यवहारवादयोः प्रतिक्रियारूपेण समजनि। अस्य प्रवर्तका जर्मनदेशीयमनोवैज्ञानिकवरेण्या: प्राध्यापककोहलर-कोफ्को वर्दीमरमहोदया आसन्। तेषां मतेऽनुभवव्यवहारयोर्घटकद्वये प्रविभाजनं नैव साम्प्रतं प्रतिभाति। उदाहरणतो निर्मितवादश्चैतन्यस्य पृथक् पृथग् निर्मितिघटकेषु प्रविभाजनं समीचीनं मन्यते। व्यवहारवादोऽपि उत्तेजकप्रतिक्रियारूपे घटकद्वये प्रविभाज्य मनोविज्ञानस्याऽध्ययनमुपक्रमते। द्वे एव मते न समीचीने। समष्टिवादिनां मतेऽनुभवश्च व्यवहारश्चेति स्वत एव पूर्णा समष्टिः, न तयोः पार्थक्येन प्रविभक्तेषु घटकेषु विभाजन कर्तुं शक्यते, यद्यपि किञ्चित्सम्बन्धस्थापनं समष्ट्यवयवयोरवगन्तुं शक्यते। अस्य सम्प्रदायस्य केचित् प्रयोगा अस्माभिः प्रत्यक्षाध्ययनविचारादिविवेचनावसरे प्रदर्शयिष्यन्ते।

(उ) मनोविश्लेषणम्[सम्पादयतु]

अन्येभ्यः सम्प्रदायेभ्यो विशिष्टं पदमधितिष्ठति। अस्य प्रवर्तका आस्ट्रियादेशस्थवियनानगरस्य प्रतिभाशालिनश्चिकित्सकप्रवरा: फ्रायड्महाशया आसन्। असामान्यमानसिकरोगस्नायविकामयपरिपीडितानां जनानां चिकित्सायामनुरक्तेनैव तेनाऽयं मनोविज्ञानस्य महत्त्वपूर्णः सम्प्रदाय: प्रादुर्भावित:। शतद्वयोत्तरविंशतिसहस्र रोगिणामसान्यमानसिकरोगाणामध्ययनेन तेषाञ्च सफलचिकित्सया फ्रायड्महोदयो मनोविज्ञानक्षेत्रेऽभूतपूर्वस्य मनोविश्लेषणविधेराविष्कारमकरोत्। आश्चर्यजनकसाफल्य समन्वितोऽयं मनोविश्लेषणविधिर्व्यक्तित्वविकासस्याऽसामान्यव्यवहारस्य च जटिलतमानां कासाञ्चित् समस्यानां समाधानं साफल्येन कर्तुमर्हति। फ्रायड्महोदयानां तेषाञ्च प्रमुखानुयायिनां मतमस्माभिः पञ्चदशेऽध्याये विवेचयिष्यते।

मनोविज्ञानस्येतरविज्ञानैः सह सम्बन्धः[सम्पादयतु]

(अ) प्राणिविज्ञानेन सह सम्बन्धः[सम्पादयतु]

अस्मिन् युगे प्राणिविज्ञानस्य मनोविज्ञान स्याऽध्ययनविधौ महान् प्रभावो दृश्यते। ननु किं मनोविज्ञानं प्राणिविज्ञानाङ्गभूतम्? अत्रोच्यते- मनोविज्ञानं प्राणिविज्ञानस्याङ्गभूतं विज्ञानं नास्ति। इदं तु स्वतन्त्रविज्ञानम्। यद्यपि स्वकीयानुसन्धानावश्यकतानुसारं प्राणिविज्ञानेन निर्णीततथ्यानां सिद्धान्तानां वा समादरोऽत्राऽपि क्रियत एव। प्राणिविज्ञानं खलु जीवनधारिणां प्राणिनां पशूनाञ्च यथा जीवनं प्रादुर्भवति, यथा चाऽस्याऽनुकूलपरिस्थितौ संरक्षणं भवितुमर्हतीति विचारयति। प्राणिविज्ञानेनाऽपि मानवजीवनरहस्योद्घाटने महान् प्रयत्नः क्रियते। केन प्रकारेण कोषाणुकशृङ्खलायां मनोविकासः सञ्जायते? केन प्रकारेण विषमपरिस्थितावुपस्थितायां कथं जीवनरक्षार्थं प्राणिना प्रतिक्रियाभेदेन सामञ्जस्यस्थापनं क्रियते। प्राणिविज्ञानविशारदा विकासवादमतमनुसृत्येदमङ्गीकुर्वन्ति यद्धि मानसिकोच्चस्तरीयक्रियाणां विचारविवेक प्रयत्नेच्छादीनां विकासस्तदा समुद्भवति, यदा तस्यावश्यकता परिस्थित्या सह सामञ्जस्यसंस्थापनेऽनिवार्या सञ्जायते।

किञ्च, विविधेन्द्रियाणां विकासोऽपि परिस्थित्यनुगृहीत सामञ्जस्येनैव संसिद्धयति। प्राणिविज्ञानन्तु जडभूतादिभ्य एव चैतन्यविकासमवधारयति। मनोवैज्ञानिकास्तु विकासवादीयामनुसन्धानपद्धतिमेवानुसरन्ति। किन्तु तेषामियं चिन्ता नास्ति कथं हि खलु चैतन्यतत्त्वोद्भवो जडभूतादिसङ्घटनेन सम्भवतीति। मनोवैज्ञानिकास्तु उत्पन्नं चैतन्यं किं वा वस्तुभूतं चैतन्यमेवाऽध्ययनविषयत्वेनाऽङ्गीकुर्वन्ति। ते तु सिद्धवस्तुचैतन्येन मनोरूपेण जनितानां क्रियाणामिच्छासंवेगादीनां यथाभूतानां बाह्यव्यवहाराणां चाध्ययनं गवेषणालक्ष्यमवधारयन्ति। अतोऽस्ति सुदृढो दृष्टिभेद: प्राणिविज्ञानमनोविज्ञानयोः। अपि च, सन्ति हि बहवोऽर्वाचीना मनोवैज्ञानिका विशेषतो व्यवहारवादानुसारिणो ये प्राणिविज्ञाननिरदर्शितां प्राणिविकासपद्धतिं मनोविकाससरणिञ्च स्वीकुर्वन्ति। ते चोच्चस्तरीयमानसिकक्रिया जीवनधारणार्थसमुपयुक्तप्रतिक्रियारूपेणैवा ङ्गीकर्वन्ति।

अस्माभिरपि चैतन्यविकासो मनोविकासश्च तेषां मतं पुरस्कृत्यैवाऽत्र द्वितीयेऽध्याये वर्णितः। किन्तु नैतेनैव विवेचनेन मनोविज्ञानस्य कथा परिसमाप्यते। वस्तुतस्तु प्राणिविज्ञानस्य गवेषणायाः परिसमाप्तावेव मनोविज्ञानस्य प्रमुखसमस्या स्वच्छक्षितिजे समुद्भवति। यत्तु प्राणिविज्ञानविशारदैरुक्तं यद्धि चैतन्यं जडभूत परिणाममात्रमिति। नास्त्यत्र मतैक्यं मनोवैज्ञानिकानाम्। सन्ति हि प्राध्यापकवार्डप्रभृतय आचार्या ये आत्माऽस्तित्वमङ्गीकुर्वन्ति। सन्ति चान्येऽस्माकं गुरव आत्रेयमहोदया इव. ये हि खल चैतन्यस्य पारलैकिकजीवनसत्तामङ्गीकुर्वन्ति। इदमपि वक्तुं न शक्यते यद्धि तेषां गवेषणाप्रणाली वैज्ञानिकी नास्ति। वस्तुतस्तु मनोविज्ञानस्याऽस्त्येकोऽ ध्यात्मवादनामा सम्प्रदायः, यस्य विवरणमस्माभिः पूर्वं यद्यपि न समुपस्थापितम्।

अस्तु, तावन्मनोविज्ञानप्राणीविज्ञानयोर्लक्ष्यभेदः सुस्थापितः। अस्मिन् युगे वस्तुतः किमपि विज्ञानं स्वतन्त्रं भवितुं नार्हति, किमुत मानवस्वरूपनिर्धारणसन्नद्धानि विज्ञानानि। यत्तु स्वातन्त्र्यमस्माभिरुक्तं मनोविज्ञानस्य तत्तु लक्ष्यमभिसन्धायैव। अनुसन्धानमार्गे विद्वद्भिरन्यविज्ञानेषु पारङ्गतानामाचार्याणां निर्णीततत्त्वानां समुपयोगस्तु क्रियत एव। एवमेव मनोविज्ञानेनाऽपि प्राणिविज्ञानगवेषितमान्यतानां समुपयोगः स्वविज्ञाननिरूपणे क्रियत एव। अतस्तत्स्वातन्त्र्यमपि गवेषणायां सम्प्रस्तुतायां सापेक्षमेव भवितुमर्हति। महदिदं हि खल प्राणिविज्ञानस्य गौरवं यदनेन प्रतिपादितो विकासवाद: साम्प्रतं सर्वैर्विज्ञानैर्वैज्ञानिकसरणिशृङ्खलारूपेण मन्यते। मनोविज्ञानमपि सुतरां प्राणिविज्ञानेनानु गृहीतं भवति, किन्तु नास्ति तस्याङ्गभूतं विज्ञानम्। अयमुपजीव्योपजीवसम्बन्धो नास्माभिराद्रियते। प्राणिविज्ञानपीतरथा सुविकसितमानवस्य प्रतिक्रियाणां प्रौढेऽध्ययने मनोविज्ञानस्याध्ययनेनानुगृहीतं भवितुमर्हति।

(आ) शारीरविज्ञानेन साकं सम्बन्धः[सम्पादयतु]

मनोविज्ञानस्य शारीरविज्ञानौचित्य मीमांसादिभिः सम्बन्धनिर्देशोऽस्माभिः पूर्वमेव कृतः। किन्तु स तु समासत एवासीत्। अत एवात्र विशदविवेचनस्यावसरः। अस्ति हि मनोविज्ञानस्य प्रतिपाद्यं मनोविक्रियाणा मध्ययनम्। मनोविकाराणां मस्तिष्कक्रियाभिः सह नितान्तं घनिष्ठ सम्बन्धो वर्तते। नास्त्येकोऽपि मनोविकारो यस्याऽनुयोगिनी नाडीप्रतिक्रिया न भवेत्। अस्तु तर्हि मनोविज्ञानं शारीरविज्ञानस्याऽङ्गभूतम्, यतो हि मस्तिष्कजनितानाडीक्रियाणामध्ययनं शारीरविज्ञानस्य प्रतिपाद्यमेवास्ति। पूर्वपक्षेऽस्मिन् सम्प्राप्तेऽस्माभिरुच्यते-नैतन्मतं समीचीनम्। शारीरशास्त्रं समस्तशरीरस्य रचनाया अध्ययनं करोति, न केवलं मस्तिष्कसम्बन्धिक्रियाणामेव। शारीरशास्त्रस्य दृष्टिर्यन्त्रवच्छरीररचनायाः सम्यगध्ययन एव। इदं हि साधारणतया वक्तुं शक्यते यच्छारीरविज्ञानेन प्राणिनामध्ययनं निर्जीवपदार्थानामिव सम्पद्यते। शारीरविज्ञाने विभिन्नानामङ्गानां प्रतिक्रिया: पार्थक्यादेवाध्ययनपथमारोहन्ति। अपि च, तासामध्ययनं प्रयोजनवर्जमेव भवति। न तथाऽस्ति मनोविज्ञानतन्त्रे। मनोविज्ञानं प्राणिनो मस्तुलुङ्गस्य क्रियाणामेवाध्ययनं करोति, न तु सर्वस्य शरीरस्य रचनायाः। शारीरविज्ञानेन यन्मस्तुलुङ्गस्याध्ययनं क्रियते तत्तु सङ्खपत एव। यतो हि दशसंस्थानेषु शारीरविज्ञानस्य विषयीभूतेषु नाडीसंस्थानं कोणैकनिक्षिप्तमेवास्ति। अपि च, मनोविज्ञानं मनसः क्रियाणां मस्तिष्कक्रियाणाञ्च प्रयोजनात्मकमध्ययनं करोति। उक्तं ह्यभियुक्तैः "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते'' इति।

मनोविज्ञानं हि खलु मानसिकक्रियाणां तत्सहकारिनाडीसंस्थानगतप्रतिक्रियाणां चाध्ययनमेव करोति यदनेन पूर्ववर्तिपरिस्थितीनां कारणभूतानामुत्तरभाविनीनां सामाजिकव्यवहारानुगतप्रतिक्रियाणाञ्च कार्यभूतानामवगम: सूत्रबद्धमनोवैज्ञानिकेतिहास शृङ्खलासमन्वितः सम्भवेत्। नेदमध्ययनं प्रयोजनव्यतिरिक्तं कर्तुं शक्यते। अपि च, मनोविज्ञानाऽधिकृता गवेषणा न निर्जीवपदार्थजातस्य गवेषणेव, किं वा यन्त्रानुसन्धानमिव सम्भवति, नैव चेयं यन्त्राङ्गानां पृथक्कृतानामध्ययनमिव भवति। मनोविज्ञानचिन्ता तु प्राणिनो निखिलप्रतिक्रिया अध्ययनलक्ष्यं स्वीकुरुते। समग्रप्राणिन: प्रतिक्रिया विवेकान्विता: प्रयोजनान्विता वा भवन्ति। अत एव सिद्धो हि दृष्टिभेद: शारीरविज्ञानमनोविज्ञानयोः। एतावतेदमपि साधितं यन्नास्ति मनोविज्ञानं शरीरविज्ञानाङ्गमात्रम्। मनोविज्ञानं तु स्वतन्त्रं विज्ञानमिति सुनिश्चितमेव।

अस्ति खलु हि मनोविज्ञानस्यैका विशिष्टा शाखा, या मस्तिष्कस्य विशदमध्ययनं स्वलक्ष्यं निश्चिनोति। इदन्तु शारीरकं मनोविज्ञानम्। अस्माभिरस्योल्लेख: पूर्वमेव कृतः, लक्ष्यमपि च निर्दिष्टम्। यद्यप्यधुना मनोविज्ञानपारङ्गतैरियमाशा तु परित्यक्तेव वर्तते यद्धि मस्तिष्कसंस्थानस्य सम्यगनुसन्धानेन वयं मन:स्वरूपमुद्घाटयितुं सफला भविष्याम इति, तथाप्युत्तरोत्तराध्ययनेन मनोविज्ञानस्येदं स्फुटतरं प्रतिभाति यन्मनोविकाराणां शरीरान्तर्गतक्रियाणाञ्च महत्तरमन्योन्याश्रयत्वं विद्यते। मूलतश्चेतनः प्राणी त्वेक एव। तस्यैव प्राणशक्तिर्द्विविधकार्यसम्पादने क्षमा भवति, मनोव्यापारं शरीरव्यापारञ्चेति। प्राणिविज्ञानस्येदं मौलिकं तथ्यमर्वाचीनैर्मनोविज्ञानविशारदैरङ्गीक्रियते। अस्माभिरप्यस्य ग्रन्थस्याऽग्रिमे विवेचनेऽस्य मौलिकतत्त्वस्याङ्गीकरणमनुमन्त्स्यते। मनोविज्ञानं नाडीविज्ञानस्य विशिष्टमध्ययनं करोत्येव। तस्मिन्नध्ययने शारीरविज्ञानानुसन्धानेभ्योऽपि महत्साहाय्य मवाप्यत्ते। शारीरविज्ञानेनाऽपि किं वार्युवेदविज्ञानेनाऽपि मनोविज्ञानगवेषणाभिश्चिकित्सा पद्धतिपरिष्कारे महत्साहाय्यं यथाऽवाप्तुं शक्यते, तथाऽस्माभिरसामान्यमनोविज्ञान प्रदर्शितमनोविश्लेषणादिसमन्वितचिकित्साप्रणालीनिर्देशनवेलायां प्रतिपादयिष्यत एव। मनोविज्ञानाङ्गभूतं विज्ञानद्वयमस्ति-परिचर्यामनोविज्ञानमसामान्यचिकित्सामनोविज्ञानं चेति।

अत:' सिद्धं मानवसेवादक्षयोरायुर्वेदमनोविज्ञानयो रुचिसाम्यम्, किन्तु नानेन मनोविज्ञानस्योपजीवकत्वं सिद्धं भवति।

(इ) न्यायशास्त्रेण सह सम्बन्धः[सम्पादयतु]

न्यायशास्त्रं तर्कशास्त्रापरपर्यायं सर्वशास्त्रोपकारकं भवति। उक्तं हि विद्यासमुद्देशप्रकरणे आचार्यप्रवरेण विष्णुगुप्तेनाऽपि -

प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।

आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।।

एवम्भूतं न्यायशास्त्रं मनोविज्ञानस्यापि महदुपकारकं सिद्धं भवति। न्यायशास्त्रस्य प्रतिपाद्यमस्ति सत्यासत्यानुसन्धानम्। प्रमायाः किं लक्षणम्? प्रमाणस्य किं लक्षणम्? कति वा भेदा:? कानि च प्रमाणानि? किमस्ति हि प्रमायाः प्रमात्वलक्षणमित्यादयः प्रश्ना न्यायशास्त्रेण मीमांस्यन्ते। सत्यत्वनिकषं निर्धार्य प्रतिकूलमतानां निवारणमप्यत्र क्रियते। युक्तिपुरस्सरं पञ्चावयववाक्यप्रयोगविधिञ्च न्यायशास्त्रमेव निश्चिनोति। कस्या अपि विचाराभिव्यक्तेः सम्यक्पद्धते: परीक्षा न्यायशास्त्रस्य लक्ष्यं भवति। एवं मनोविज्ञानमपि न्यायशास्त्रस्य ऋणि भवत्येव। तथाप्यस्ति लक्ष्यभेद: पद्धतिभेदश्च मनोविज्ञानन्यायशास्त्रयोः ।

मनोविज्ञानस्य प्रतिपाद्यं सर्वा एव मानसक्रियास्तासामभिव्यक्तिरूपव्यवहारश्च। मानसक्रियाश्चानन्ताः। तासां वर्गीकरणं सक्षेपतश्चिन्तनम्, संवेदनम्, प्रयतनञ्चेति त्रिधा कर्तुं शक्यते। चिन्तनं हि विचारपर्यायमेव। विचारमात्रं न्यायशास्त्रस्य विवेच्यं क्षेत्रम्। किन्तु मनोविज्ञानस्याध्ययनक्षेत्रे विचारातिरिक्तसंवेदनप्रयतनादीनामप्यन्तर्भावो भवति। अत एव मनोविज्ञानस्य विषयक्षेत्रं न्यायशास्त्रस्य विषयक्षेत्रादस्ति हि बृहत्तरम्। अपि च, मनोविज्ञानं वस्तुतन्त्रात्मकं विज्ञानम्। अस्य लक्ष्यं तु धारावाहिकचैतन्यस्य क्रियाणां सम्यनिरूपणं पूर्वापरसम्बन्धसमन्वितं व्याख्यानञ्च। नास्ति न्यायशास्त्रं वस्तुतन्त्रात्मकमपि तु प्रतिमानात्मकम्। सत्यत्वप्रतिमाननिर्धारणपरायणं न्यायशास्त्रं न विचाररूपविवेच्यतत्त्वस्य यथावस्तुभूतं विवरणं समुपस्थापयति, अपि तु यथा सत्यो विचारो भवितुमर्हस्तथात्मकस्य विचारस्यैव स्वरूपान्वेषणं न्यायशास्त्रैकलक्ष्यं भवति। अतो हि सिद्धो दृष्टिभेदो लक्ष्यभेदश्च। वस्तुतस्तु मनोविज्ञाननिर्भरं न्यायशास्त्रं न्यायशास्त्रनिर्भरं मनोविज्ञानञ्च भवति। मनोविज्ञानं चिन्तनक्रमं यथाभूतं मानसप्रत्यक्षेण सोद्देशं प्रकटयितुं प्रभवति। न्यायशास्त्रमपि मनोविज्ञानान्वेषिततत्त्वानां प्रमात्वं यथाभूतत्वं वाऽप्रमात्वं भ्रमत्वं वा निश्चेतुं प्रभवति।

(ई) औचित्यमीमांसया, (उ) सौन्दर्यशास्त्रेण च सम्बन्धः[सम्पादयतु]

एवमेवौचित्य मीमांसायाः सौन्दर्यशास्त्राच्चापि मनोविज्ञानस्य वैलक्षण्यं प्रतिपादयितुं शक्यते।

औचित्यमीमांसासौन्दर्यशास्त्रे प्रतिमानात्मके तन्त्रे। औचित्यमीमांसा औचित्यानौचित्य गवेषणायामनुरक्ता भवति। सौन्दर्यशास्त्रं च सौन्दर्यासौन्दर्यनिकषनिर्धारणे संल्लग्नं भवति। यद्यपि प्रतिमाननिर्धारणे स्वतन्त्रे हीमे तन्त्रे, किन्तु काभ्यां परिस्थितिभ्यां सौन्दर्यप्रतिमाननिर्धारणमौचित्यस्य निर्धारणं वा विवेकान्वितमविवेकान्वितं वा भवतीति समस्यायाः समाधानं मनोविज्ञानाश्रितमेव भवति। बहशो दृश्यते यच्छलच्छद्मपरायणै रौचित्यनिर्धारणमारोपात्मकं प्रतिपाद्यते। स्वार्थपरायणा: स्वात्मानमनेकवारं परमार्था नुरागिणमिव प्रकटयन्ति द्योतयन्ति च। सुप्रथितमिदं यत्

परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै।

विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते।। इति।

एतादृशां छद्मयुक्तानामौचित्यव्याख्यानप्रयोजनोद्घाटनसामर्थ्यां मनोविज्ञान मन्तरौचित्य-मीमांसायाः कथमपि नास्ति। अत एव सिद्धा खलु मनोविज्ञानस्याऽध्ययनस्य महत्यावश्यकता कर्तव्यशास्त्रस्य विवेचकेभ्यः। एवमेव सौन्दर्यनिरूपणमपि पुरुषतन्त्रं भवति। प्रतिमाननिर्धारणे विकारसम्भावना भवत्येव, परुषेच्छाधीनत्वात्। उक्तं ह्यभियुक्तैः

दधि मधुरं मधु मधुरं द्राक्षा मधुरा सिताऽपि मधुरैव।

तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम्।।

प्रायशः पुरुषा आदर्शप्रतिमानं गृहीत्वाऽपि रागद्वेषाऽभिभूताः सुन्दरमसुन्दरं वक्तुं प्रभवन्ति, न तु प्रभवन्त्येवाऽपि तु निर्धारयन्त्यपि। सुतरां तेषां छलच्छद्माभ्युपेत दृष्टिकोणाऽभिव्यक्त्यर्थं मनोविज्ञानस्य प्रौढमध्ययनं नितरामपेक्ष्यत एव।

(ऊ) दर्शनेन मनोविज्ञानस्य सम्बन्धः[सम्पादयतु]

मनोविज्ञानस्य दर्शनेन सह सर्वाधिक प्रगाढतम: सम्बन्धो वर्तते। दर्शनपितुः कनिष्ठतमा पुत्रीभूता हि खलु मनोविज्ञानविद्या। आ-एकोनविंशतिशताब्दि मनोविज्ञानस्य विवेचनं दर्शनाङ्गभूतमेवासीत्। किन्तु तदनन्तरम ‘अर्थो हि कन्या परकीय एव' इति काण्वन्यायमनुस्मृत्य मनोविज्ञानविद्या स्वकीयं नवं गृहं स्थापयति स्म। ननु दर्शनशब्दस्य कोऽर्थः? अत्रोच्यते-दृश्यतेऽनेन इति दर्शनम्। दर्शनस्यार्थद्वयम्-चक्षुषी, दर्शनविद्या च। यया विद्यया तत्त्वस्य चरमवस्तुस्वरूपस्य ज्ञानं भवेत् सा दर्शनाख्यां भजते। अस्ति हि दर्शनस्य षड्विधं लक्ष्यम्। प्रत्येकविधस्य लक्ष्यस्य पूर्तिरेकेन विशिष्टेन दर्शनाङ्गेन क्रियते। यथा हि -

(अ) तत्त्वमीमांसा[सम्पादयतु]

किं वा तत्त्वज्ञानमस्य ब्रह्माण्डस्य मौलिकतत्त्वस्य स्वरूप निरूपणमधिकृत्य प्रवर्तते। अस्याः प्रश्नोऽपि पुरातन एव। अस्य प्रश्नस्य स्वरूपं नासदीये सूक्तेऽपि लक्षितं विद्यते-“को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः' इति'। ननु सृष्टेर्मूलतत्वं प्रकृतिरस्ति? आहोस्विद् ब्रह्म? किमस्ति ब्रह्मणः स्वरूपमित्यादिप्रश्नशतानि जटिलतमानि तत्त्वमीमांसा गवेषयति।

(आ) ज्ञानमीमांसा[सम्पादयतु]

दर्शनस्य द्वितीया दुरूहतमा समस्या ज्ञानस्वरूपं वर्तते। इदन्तु ज्ञानमीमांसया विवेच्यते। ननु किमस्ति ज्ञानस्वरूपम्? किमस्ति प्रमात्वप्रयोजकम्? कानि प्रमाणान्युपादेयानि? कियती वा तेषां संख्या? कानि च ज्ञाननिबन्धनानि? किमस्ति खल्वपरोक्षानुभूतेस्तात्त्विकं स्वरूपमित्यादिप्रश्नशतोद्भावनं समाधानञ्च ज्ञानमीमांसा विवेचयति।

(इ) अध्यात्मविद्या[सम्पादयतु]

दर्शनस्य तृतीयं प्रष्टव्यमस्ति, ननु किमस्त्यात्मनः स्वरूपमिति? किन्नु खलु मन:स्वरूपम्? किमात्माऽस्ति ज्ञानाधिष्ठाता, ज्ञानप्रकाशक आहोस्विन्मनः? एतादृशानि प्रश्नशतानि या विद्या यद्दर्शनाङ्गमनुसन्दधाति, सा अध्यात्मविद्येति नाम्ना प्रथते। अस्माकं मनोविज्ञानमप्यस्याऽध्यात्मदर्शनस्य सन्ततिरेव। सम्प्रति तु मनोविज्ञानेनाऽर्वाचीनेन स्वपितुः कक्षं विहाय स्वकीय स्वतन्त्रं गौरवास्पदं स्थानं विज्ञानश्रेण्यां सम्प्राप्तम्। किन्तु मनोविज्ञानस्य मूलतस्तात्त्विकी समस्याऽध्यात्म दर्शनाऽभिन्नैव।

(ई) औचित्यमीमांसा[सम्पादयतु]

चतुर्थी दर्शनस्य शाखा औचित्यमीमांसाख्यया अभिहिता भवति। तस्याः प्रतिपाद्यं तु कर्तव्याकर्तव्यप्रतिमाननिर्धारणमेव।

(उ) न्यायशास्त्रम्[सम्पादयतु]

पञ्चमन्तु दर्शनाङ्गं न्यायशास्त्रमित्यभिधानेन सुप्रथितमेव विदुषां भारतीयतत्त्वपारदर्शिनाम्। अस्य तात्त्विकं स्वरूपं तु सत्याऽसत्यत्वप्रतिमानगवेषण मस्ति। प्रमात्वस्य किं विनिगमकम्? किं लोकोत्तरं ज्ञानमपि प्रमा भवितुमर्हति? पञ्चावयववाक्यस्य हेतूनां प्रमाणानाञ्च स्वरूपस्य विशदं विवेचनं न्यायशास्त्रेणैव विविच्यते।

(ऊ) सौन्दर्यशास्त्रम्[सम्पादयतु]

दर्शनस्य षष्ठमङ्गं सौन्दर्यशास्त्रमस्ति। अनेन तन्त्रेण सौन्दर्यासौन्दर्यस्य प्रतिमाननिर्धारणं क्रियते।

न्यायशास्त्रौचित्यमीमांसासौन्दर्यशास्त्रमिति शास्त्रत्रयं प्रतिमानात्मकं भवति। प्रथमत्रयन्तु तत्त्वज्ञानज्ञानमीमांसाऽध्यात्मदर्शनमिति तु प्रायशो वस्तुतन्त्रात्मकं भवति। अस्माभिरत्र प्रायश इति पदं साभिप्रायं प्रदत्तम्, यतो हि ज्ञानमीमांसाया: कलेवरे कतिपयसमस्यानां विवेचनं प्रतिमानात्मकमपि भवत्येव।

अस्ति हि खलु सप्तममप्यङ्गं दर्शनस्य। उपर्युक्तानि षडङ्गानि तु दर्शनस्य प्राच्यपाश्चात्त्यदर्शनेषु समानतयोपलभ्यन्ते, किन्तु सप्तममङ्गं तु भारतीयदर्शनस्य वैशिष्ट्यमेवावहति। इदं तु तत्त्वसाधनेति किं वा साधनेति योग इति पदेन वा वक्तं शक्यते। साधना तु मोक्षपरा। आमुष्मिकं पुरुषार्थं स्वनिर्णीततत्त्वानुसारं साक्षात्कर्तुं हि खलु साधना प्रवर्तते। अस्या लक्ष्यं त्वपरोक्षानुभूतिस्तत्त्वसाक्षात्काराख्या। साधना तु साम्परायचिन्तनसमन्वितयोगसाधनपरा हि खलु भवति। भारतीयदर्शनस्य गौरवं त्विदमेव यदत्र विचारोत्कर्षसहकारित्वेन शमदमादिसाधनसम्पत्तिरप्यनिवार्या सर्वैर्दशनसम्प्रदायैरेवाऽ भिमन्यते।

नेदं यत्साधनाया विवेच्यं नीतिशास्त्रप्रतिपाद्यान्तर्गतमेवास्ति। नीतिशास्त्र मैहिकपुरुषार्थविनिश्चयं करोति। आमुष्मिकपुरुषार्थस्य मोक्षरूपात्मकस्य नास्ति नीतिशास्त्रे काऽपि विचारणा। यदुचितं तत्त्वैहिकं कर्म। यन्नोचितं तदप्यैहिकमेव कर्म। सुतरां साधनापि दर्शनस्य मौलिकीमावश्यकतां पूरयति। अस्या निरूपणं मैत्रेय्या: परमपवित्र शब्देष्वतिरमणीयतरमुपलभ्यते- “किं तेनाहं कुर्यां येन नाहममृता स्याम्' इति । अमरत्वपदगवेषणन्तु मानवहृदयस्य पुरातनोऽभिलाषः। कथन्नु खलु दुःखस्याऽत्यन्तिकं प्रहाणं भवितुमर्हति? अयमेव चरम: प्रश्नः परमकारुणिकसांख्याचार्यानुयायिभिरीश्वर कृष्णैरप्येवमुट्टङ्कित: -

दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ।

दृष्टे सापार्था चेन्नैकान्ताऽत्यन्ततोऽभावात् ।।[१०] इति।

अत एव सिद्धं हि सुष्ठु साधनाया योगशास्त्रस्य वा दर्शनाङ्गत्वम्। पाश्चात्त्या: साधनादर्शनं योगशास्त्रापरनामधेयं धर्माङ्गत्वेन स्वीकुर्वन्ति। किन्तु यदि धर्मस्य कल्पना रूढिविरहिता दर्शनोद्भाविता भवेन्मन्ये नास्ति कोऽप्यवकाशः सार्वभौमधर्मदर्शन योर्वेषम्यप्रतिपादनाय। अपि च साधनाया दर्शनाङ्गत्वमप्यापाततो निःसन्दिग्धं सिद्ध्यति। दर्शनस्यैकमन्यदपि प्रतिपाद्यं भवति। तद्धि विभिन्नेषु विज्ञानेषु विरोधिष्ववभासमानेषु सामञ्जस्यस्थापनमिति। नैतदर्थं किमपि स्वतन्त्रमङ्गमस्ति। अस्माभिरिदं दर्शनस्वरूपं मनोविज्ञानवैशिष्ट्यप्रदर्शनार्थं स्थालीपुलाकन्यायेनोल्लिखितम्। ननु किमस्ति मनोविज्ञानस्य स्वातन्त्र्यविनिगमकम्? अत्रोच्यते-अध्यात्मदर्शनं तु विवेचनात्मकं विशेषतोऽन्तर्मुखं रहस्यगर्भितं भवति। मनोविज्ञानन्तु प्रयोगात्मकनिरीक्षणसम्पोढं बहिर्मुखं बाह्यव्यवहाराध्ययन समन्वितं रहस्यान्धविश्वासनिरस्तवैज्ञानिकप्रणाल्यनुसारि भवति।

मनोविज्ञानं मानवस्वरूपस्योद्घाटनपरायणं भवति। अस्यां गवेषणायामर्वाचीनस्य मनोविज्ञानस्य बाह्यव्यवहारमभिमुखीकृत्य मानसिकक्रियाणामध्ययनमेव लक्ष्यं वर्तते। मनोविज्ञानमद्यावधि आत्मतत्त्वं चैतन्याधिष्ठानं नाङ्गीकरोति। तैरभिमतं मन एव चैतन्याधिष्ठानमस्ति। अपि च, यत्किञ्चित्साम्यं मनोविज्ञानाध्यात्मदर्शनयोर्विद्यते, महच्चेदं साम्यम्। तत्तु मनस: किं वा चैतन्याऽधिष्ठानस्यामुष्मिकसत्त्वविषयानुसन्धानमस्ति। अस्ति हि खलु मनोविज्ञानस्यैका नवीनतमा शाखा ‘वैज्ञानिकाध्यात्मानुसन्धानम्' इति नाम्नी, यया चैतन्यतत्त्वस्य साम्परायिकसत्त्वविनिश्चयं कर्तुं मनोवैज्ञानिकानामनुसन्धित्सा प्रथते। अस्या अपि प्रणाली प्रयोगात्मिका, वैज्ञानिकप्रणाल्यनुसारिण्येव। अत: सिद्धं मनोविज्ञानस्य दर्शनात् स्वातन्त्र्यं पार्थक्यञ्च।

सुनिष्पन्नमेतद् यद्धयध्यात्मतत्त्वगवेषणायां मनोविज्ञानस्य विवेच्यं दर्शनोपबृंहितं भवत्येव। अपि च, मनोविज्ञानस्यानुसन्धानजातैरध्यात्मदर्शनस्याऽपि महत् साहाय्यं भविष्यतीत्यत्र नास्ति सन्देहावकाश:। सम्प्रति तु मनोवैज्ञानिकानां केन्द्रीभूतं लक्ष्यं मनोविक्रियाभिः सह मानवस्य बाह्यव्यवहारस्य साङ्गोपाङ्गमध्ययनमेव। एतदर्थमर्वाचीनेभ्यो मनोवैज्ञानिकेभ्यो दर्शनाङ्गभूतं मनोविज्ञानस्वरूपमिर्धारणं नातिरोचते।

मनोविज्ञानाऽध्ययनस्य उपयोगिता[सम्पादयतु]

यद्यपि विशुद्ध विज्ञानं ज्ञानोपार्जनार्थमेव प्रयुज्यते, तस्योपयोगित्वानुपयोगित्वकल्पनं विज्ञानक्षेत्राद्वहिरेवावतिष्ठते, तथापि मनोविज्ञानस्य विशुद्धविज्ञानस्योपयोगित्व विवेचनमत्रास्माभिः सन्निवेशितम्। तत्तु प्रपञ्चनं केवलं प्रारम्भिकपाठकस्य रुचिसंवर्धनायैव, यतो हि रुचिसंवर्धनं मनोवैज्ञानिकशिक्षणपद्धतेर्निरतिशयं वैशिष्ट्यमावहति। मनोविज्ञानं हि खलु सम्प्रति पदे पदे मानसिकद्वन्द्वोपेतानां सभ्यतासङ्घर्ष-सामाजिकप्रतिद्वन्द्वितायुद्ध विभीषिकादिजन्यजटिलतमपरिस्थितिषु वर्तमानानां मानवानां स्वस्थसन्तुलितजीवनयापन विधिप्रदर्शनक्षमः सुमहान् कल्पवृक्षः। जन्मन आरभ्य मरणपर्यन्तं यदि किमपि विज्ञानं मानवसेवायां परायणमस्ति तत्तु मनोविज्ञानमेव। शैशवे बाल्ये च पालनपोषणशिक्षणप्रकार प्रदर्श्य चरित्रविकासस्य भूमिकां मूलप्रवृत्तीनामुदात्तीकरणेन द्रढयति, विकृतानां बालकानां परिष्कारपद्धतिमपि द्योतयति, वयःसन्धिकाले यौवनप्रभाते च बालकबालिकानां कथं पथप्रदर्शनं कर्तव्यमित्यपि द्योतयति। शिक्षणविधावपराधिबालकानां दण्डं विहाय सन्मार्गप्रदर्शनविधौ च मनोविज्ञानेनामूलचूलं परिवर्तनं सम्पादितम्। अमानुषिकाऽमनो वैज्ञानिकदण्डप्रकारान् प्रति विरोधिमतमुत्पाद्य मानवस्वभावं प्रति नितरामुदारं सहिष्णुं मानवीयं दृष्टिकोणं प्रेर्य संहितानां परिष्कारं मनोविज्ञानमेव करोति स्म। सर्वोत्तमा ह्यर्वाचीनस्य मनोविज्ञानस्य सेवा असामान्यमनोविज्ञानक्षेत्रे लक्ष्यन्ते। असामान्यावस्थां नीयमानानां कारणानामनुसन्धानं मनोविश्लेषणादिसाधनैः सम्पाद्य तस्या निवारणप्रकारमपि सुचारुतरं मनोविज्ञानं निर्दिष्टवत्।

आयुर्वेदचिकित्साप्रणालीसमकक्षवेत्थं मनोवैज्ञानिकचिकित्साप्रणाली प्रचलिता सञ्जाता, या खलु प्रणाली साम्प्रतमौषधविज्ञानपरायणैः सुचिकित्सकैरपि भृशमाद्रियते। सुमहत्सु औद्योगिकसंस्थानेषु दैनन्दिनं श्रमिककार्यक्षमताकौशलस्तरक्लान्ति कारणादिसम्बन्धिन्योऽनेकविधा: समस्या: समुत्पद्यन्ते। मनोवैज्ञानिकास्तासां समाधाने प्रायश: सर्वेष्वेव देशेषु संलग्ना दरीदृश्यन्ते। युद्धबिभीषिकाऽपि प्रतिदिनं राष्ट्रेष्वविश्वास परस्परमुत्पाद्य सर्वत्र शान्तिप्रियाणां मानवानां हृदयं दहति। नैवं शक्यते युद्धविभीषिका निवारणं युद्धलिप्तराष्ट्रनागरिकाणां शिक्षायामन्तर्ग्रन्थिभेदनक्षमाद् मनोवैज्ञानिकप्रदर्शित-सुधारादृते। अपि च, मनोविज्ञानं वस्तुतन्त्रात्मकं विज्ञानम्। येऽनेन प्रदर्शितमार्गं नानसृत्य स्वैरिणो भवन्ति, तेषां स्वकीयं जीवनं द्वन्द्वोद्वेलितमसंयतं दुःखावलिप्तञ्च भवत्येव, ते समाजशरीरेऽपि कुष्ठवदेवावतिष्ठन्ते। अयन्तु समानो न्यायः सामान्यनागरिकेभ्यः समाजनेतृभ्यश्च। अत एव येषामभिलाषः स्वव्यक्तित्वोत्थानाय महत्त्वपूर्णपदलाभाय वा समाजसेवायै वा भवेत्, तेषां कृते मानवस्वभावपरिचयदक्षस्य मनोविज्ञानस्य गम्भीरमध्ययनं नितान्तम् अनिवार्यं भवतीति।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. बृहदा० २.४.५
  2. भगवद्गीता-१०.३२
  3. तुलनार्थम्-know Thyself
  4. द्रष्टव्यम् - Immanuel kant : critique of Pure Reason. Preface to the second edition page II, (Everymen's library edition) "Reason must approach nature with a view indeed. of receiving information from it not, however, in the character of a pupil who listens to all that his master chooses to tell him, but in that of a judge, who compells the witness to reply to those questions which he himself thinks fit to propose."
  5. द्रष्टव्यम्-पण्डितसुरेन्द्रशर्मकृतचिदानन्दीविलसितं तर्कभाषासंस्करणम्, पृ०२४
  6. द्रष्टव्यम्-Karl pearson, 'Grammar of Science'.
  7. Wilhelm wundt, ed Ward bradford titchner.
  8. Psychology is conercned with the study of images, thoughts, and feelings the three elements forming the strcture of consciousness.
  9. (Stimulus) John Dewey & James Rowland Angell.
  10. सांख्यकारिका १। २
"https://sa.wikipedia.org/w/index.php?title=मनोविज्ञानम्&oldid=461584" इत्यस्माद् प्रतिप्राप्तम्