मन्दारः
पठन सेटिंग्स
मन्दारः | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Flowers
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Bauhinia variegata L. | ||||||||||||||||
अयं कश्चन वृक्षविशेषः वर्तते ।
उपयोगः
[सम्पादयतु]- १) चर्मणः उपरि मन्दारस्य वल्ल्कल्म् अधिकं प्रभावं जनयति । पिटकान् शीघ्रं शामयति । केचन चर्मरोगाः मन्दरस्य वल्कलस्य कषायेन क्षालनेन निवारिताः भवन्ति । मुखे पिटकाः भवन्ति चेदपि अनेन कषायेन गण्डूषकरणं रूढौ अस्ति ।
- २) आमशङ्का, क्रिमिसमस्या, गुदभ्रंशः प्रवाहिका इत्येतेषु रोगेषु अपि मन्दारः प्रयोजनकारी ।
- ३) उदरस्स्फीतिः अस्ति चेत् अस्य पुष्पस्य गुलकुन्दम् सज्जीकृत्य सेवनीयम् । (गुलकुण्दम् –गुडस्य, शर्करायाः वा पाके पुष्पाणां दलनि संस्थाप्य सज्जीक्रियते )
- ४) द्रवरूपीपित्तं यदा रक्तेन मिलति तदा समग्रशरीरे पित्तप्रकोपस्य दुष्परिणामः भवति । इदं रक्तपित्तं शरीरस्य ऊर्ध्वभागे नासिकातः नेत्रतः कर्णतः मुखात् च निस्सिरति अपि च शरीरस्य अधोभागे जननेन्द्रियात्, येनितः गुदात् च निरसरति । अन्ते रोमकूमतः एव रक्तपित्तं निस्सरति । एतादृशस्य रक्तपित्तस्य निवारणार्थं मन्दरस्य पुष्पाणि कुट्टयित्वा रसं निष्कास्य १०-२० मि.ली परिमितं सेवनीयम् । केषुचित् दिनेषु एव एषः भयङ्कररोगः शाम्यति ।
उपलभ्यमानानि औषधानि
[सम्पादयतु]- काञ्चनारगुग्गुलु
- काञ्चनारादिक्वाथः
- काञ्चनगुटिका इत्येतानि प्रसिद्धानि ।
प्रभेदाः
[सम्पादयतु]पुष्पाणां वर्णानुसारं मन्दास्य त्रयः प्रभेदाः सन्ति ।
- श्वेतपुष्पः
- पीतपुष्पः
- रक्तपुष्पश्च
- पितपुष्पाणि अर्धविकसितानि भवन्ति । रक्तपुष्पमन्दारः उन्नतः वृक्षः भवति श्वेतपुष्पः पीतपुष्पश्च बहु उन्नतः न भवति ।