सामग्री पर जाएँ

मरीचिका (भौतविज्ञानम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मरुस्थले मरीचिका

मरुस्थले कदाचिद् यात्रिणः दूरतोऽवगच्छन्ति यत् कस्मिंश्चिद् स्थाने जलं वर्तते किन्तु यदा ते तत्र गच्छन्ति तर्हि जलं न प्राप्नुवन्ति । वर्ण्यते यत् इत्यमेव पिपासितः मृगः जलम् अवगम्य स्थानादेकस्मात् अन्यं प्रतिधावति अन्ते च पञ्चत्वं प्राप्नोति । अतएव प्रतारणा चेयं मृगतृष्णिकेति नाम्नाभिधीयते । कारणञ्चास्य प्रकाशस्य पूर्णपरावर्तनमस्ति । सूर्यतापाद मरुस्थलीयाः सिकताः अत्युष्णाः भवन्ति तत्स्प्रशेन भुवोऽभ्याशवर्ती वायुः सर्वाधिक उष्णो भवति वायोश्च ऊर्ध्ववर्तिनाम् आवरणानां तापः क्रमशः ह्रसति । अतएव वायोः ऊर्ध्ववर्तीनि आवरणानि अधोवर्तिनाम् आवरणानाम् अपेक्षया सधनानि भवन्ति पृथ्वी प्रति गमनशीलाः किरणाः सघनमाध्यमात् विरलमाध्यमे प्रविशन्ति अभिलम्बाच्च ते दूरम् अपसरन्ति । अन्ते च तेषाम् आपतनकोणः क्रान्तिकाद् कोणाद् बृहद् भवति किरणश्च ते परावर्तिताः भूत्वा उपरि प्रत्यावर्तन्ते । यर्हि ते किरणः यात्रिणाः नेत्रं प्राप्नुवन्ति तर्हि तेन वृक्षः तस्यां दिशि अवलोक्यते यतः किरणाः तस्य नेत्र प्रति गच्छान्ति । किन्तु , क्तैपयकिरणाः वृक्षशिखरात् साक्षादेव यात्रिणः नेत्रं प्राप्नुवन्ति । एतेन स वृक्षान् तेषां प्रतिबिम्बान् च वाथार्थ्थेण तद्वदेव पश्यति यथा सरोवरे । यहि यात्रो तत्स्थानं प्राप्नोति तर्हि तत्र जलं न् अप्राप्यते तथाच तदेव दृश्यं भूयोऽग्रं सरति । वृक्षात् नेत्रं यावत् किरणानाम् आगमनं चित्रे प्रदर्शितम् ।

उष्णताजनिता मरीचिका

शीतप्रधानप्रदेशेषु मृगमरीचिका

[सम्पादयतु]

अतिशितप्रधानेषु देशेषु वायोर अघोवर्ति आवरणम् ऊर्ध्ववर्त्यावरणापेक्षया शितलं भवति । एतादृश्यां दशायां दूरस्थं वस्तु , यथा जलयानप्रभृतिभ्यः आगन्तुकः प्रकाशः , ऊर्ध्वं प्रति गमनसमये अभिलम्बात् (Normal ) दूरं प्रति अपवर्तितो भवति अन्ते च पूर्णपरावर्तितो भूत्वा द्र्ष्टुः नेत्रं प्रति प्रत्यावर्तते । अतएव तद्वस्तु वायौ तदवैपरीत्येन लम्बितं दृश्यते यथा चित्रे प्रदर्शितम् । उदारणम् - कस्यश्चिद नद्याः वास्तविकं गम्भीरत्वं ४ मीटर परिमितम् अस्ति तर्हि तत्याः आभासिकं गम्भीरत्वं किं भविष्यति । वास्तविकं गम्भीरत्वम् /आभासिकं गम्भोरत्वम् = µ (जलार्थम्) आभासिकं गम्भीरत्वम् = वास्तविकं गम्भीरत्म्/ µ = ४/१.३३ मीटराणि = ३ मी० प्रायेण

सम्बद्धाः लेखाः

[सम्पादयतु]