मलेकुडियजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


कुडीयजनाङ्गस्य स्थाननिर्देशः[सम्पादयतु]

कोडगुमण्डलस्य मडिकेरी, विराजपेटेप्रदेशे च कुडियजनाः दृश्यन्ते । दक्षिणकन्नडमण्डलस्य सुळ्य, बेळ्तङ्गडी, बण्ट्वाळ इत्यादिषु भागेषु ‘मलेकुडिय’ इति अन्यः कश्चन वर्गः अस्ति । कुडियजनाङ्गः, मलेकुडियजनाङ्गः च भिन्नः इति केचन विद्वांसः, द्वौ अपि समानौ इति केचन विद्वांसाः वदन्ति । दक्षिणभारतस्य आदिवासिजनाङस्य अध्ययनं कृत्वा एड्गर् थर्स् बन्, के.रङ्गाचारिः च वदतः यद् कुडियजनाङ्गः मलेकुडियजनाङ्गः च समानगणः । एतेषु वैवाहिकसम्बन्धः अपि चलति । मडिकेरीस्थाः कुडियजनाः धर्मस्थलं परितः विद्यमानाः मलेकुडियजनैः सह विवाहादिकं रचयन्ति ।

भाषा वृत्तिः च[सम्पादयतु]

दक्षिणकन्नडमण्डले, कुडियजनाङ्गीयान् अथवा मलेकुडियजनाङ्गीयान् मलेकुडिय, कुडिय, बारिकेगौड, गौड इत्यादि नाम्ना आह्वयन्ति । शिराडि- चार्मुडिघट्टयोः अरण्यस्य मध्ये विद्यमानाः इळिमले, बाञ्जारुमले, अम्बाटिमलेप्रदेशः एतेषां प्रियः । एलावाटिकासु, अरण्येषु क्रुत्रिमवननिर्माणार्थं च वृक्षकर्तनकार्याणि च कुर्वन्ति । ‘तुळु’ एतेषां मातृभाषा । मलयाळिजनैः सह कार्यं कुर्वन्ति इति कारणेन अनिवार्यतया मलयाळभाषामपि वदन्ति । बहिः व्यावहारिकभाषा कन्नडभाषा इति कारणेन् कन्नडमपि एते जानन्ति । कल्लुर्टिं , भैरवं, अम्बाटिमलेदैवं, धर्मस्थलमञ्जुनाथस्वामिनं च आराधयन्ति ।

गृहनिर्माणं, कुटुम्बव्यवस्था च[सम्पादयतु]

मलेकुडियजनाङ्गीयाः व्रीहितृणम् आच्छाद्य कुटीरं निर्मान्ति । अन्तः भूतप्रकोष्ठः, पाकशाला, शयनप्रकोष्ठः, मध्यप्रकोष्ठः, वस्तुस्थापनप्रकोष्ठः च भवन्ति । एतेषु अविभक्तकुटुम्बः विरलः । एतेषां चिन्तनानुसारम् केवलं पतिः, पत्नी, बालाः च कुटुम्बे भवन्ति । विधवाविवाहस्य अवसरः अस्ति ।

न्यायव्यवस्था[सम्पादयतु]

कलहसन्दर्भे , न्यायदानं करोति वसतिसमुच्चयस्य नायकः गुरिकारनामकः । सर्वे मिलित्वा एतस्य चयनं कुर्वन्ति । बहिर्भागतः आगताः जनाः अन्तः गन्तुं गुरिकारस्य अनुमतिं प्राप्नुयुः । एतेषां विवाहनिश्चयाः, जनन-मरणकार्याणि, अनैतिकसम्बन्धः, भूकलहाः, पर्वदिनानि इत्यादयः गुरिरुकारस्य नेतृत्वे एव चलन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मलेकुडियजनाङ्गः&oldid=374172" इत्यस्माद् पुनः प्राप्तिः