मलेमहदेश्वराद्रिः
मलेमहदेश्वराद्रिः / ಮಲೆ ಮಹದೇಶ್ವರ ಬೆಟ್ಟ ಶ್ರೀ ಮಲೆ ಮಹದೇಶ್ವರ ಸ್ವಾಮಿ ದಕ್ಷಿಣ ದ್ವಾರ ಹನೂರು ಕ್ಷೇತ್ರ | |
— town — | |
निर्देशाङ्काः
१२°१′५०.७३″ उत्तरदिक् ७७°३५′३४.६५″ पूर्वदिक् / 12.0307583°उत्तरदिक् 77.5929583°पूर्वदिक् | |
देशः | भारतम् |
राज्यम् | ಕರ್ನಾಟಕ |
मण्डलम् | ಚಾಮರಾಜನಗರ |
समीपतमं नगरम् | ಹನೂರು |
समयवलयः | IST (UTC+05:30) |
जालस्थानम् | www.mmhills.com |
महदेश्वराद्रिः कर्नाटकस्य दक्षिणतमसीमामहामण्डलस्य चामराजनगरस्य हनूरुमण्डल<u>स्य</u> मुख्यं भक्तिकेन्द्रं वर्तते। अस्य मन्दिरस्य नाम महदेश्वराद्रिः अस्ति यतः अयं मन्दिरं पर्व्वतैः परिवृतः अस्ति । महदेश्वराद्रिः पश्चिमघट्टभागादारभ्य पूर्वघट्टानां दिशि व्यापृतपर्व्वतश्रेणी कर्णाटक-तमिलनाडु-सीमायां प्रसृतः महदेश्वराद्रिः दखन् प्रस्थभूमेः बहुप्रमुखभागः अपि वर्तते ।
मार्गसूची
[सम्पादयतु]अयं महदेश्वराद्रिः मैसूरुतः १५० कि.मी दूरे, राजधानिबेङ्गलूरुतः २१० कि.मी दूरे च अस्ति । महदेश्वरमन्दिरं हालुमतसमुदायस्य महत्त्वपूर्णं भक्तिकेन्द्रम् अस्ति तथा च भगवतः शिवस्य पूजाकेन्द्रम् अपि अस्ति । महदेश्वराद्रिः प्रतिवर्षं कर्णाटक-तमिलनाडु-प्रान्तयोः लक्षशः भक्तान् आकर्शति । मन्दिरप्राङ्गनं समुच्छयाः च प्रायः १५० एकरे-परिमितं क्षेत्रं व्याप्नोति । तदतिरिक्तं तालुपर्व्वतः, हलेयूरु, इण्डिगनाथग्रामेषु मन्दिरसम्बद्धा भूमिः वर्तते । समुद्रतलात् प्रायः ३००० पादपरिमितम् ऊर्ध्वं स्थितः महादेश्वराद्रिः निबिडवनेन परिवृतः अस्ति तथापि प्रतिवर्षम् एषः बहुसङ्ख्याकान् भक्तन् आकर्षयति इति विशेषः एव ।
परिचयः
[सम्पादयतु]- मलेमहादेश्वराद्रौ तम्मडि इत्याख्याः अत्रत्य पुरोहिताः सन्ति, अत्र तैलमज्जनसेवा अतीव महत्त्वपूर्णा अस्ति। अत्रत्य तैलमज्जनसेवां पूर्वम् उप्पार शेट्टर् श्रीसरगूरु मूगप्प महोदयः करोतिस्म। महदेश्वराद्रेः वर्तमानदेवालयस्य निर्माणं हालुमतस्थ कुरुबगौडः अम्बालापालेगारः जुञ्जेगौडधनिकः कुरुबगौडः कृतवान्, महदेश्वरः पञ्चदशशताब्दौ जीवित शरणसन्तः आसीत् (?),एते शिवस्य अवताराः स्वरूपी इति च विश्वासः अत्रैत्येषु वर्तते। भक्तानां विश्वासः अस्ति यत् महदेश्वरः प्रायः षट्शतवर्षात् पूर्वं (?) तपस्यार्थम् एनं स्थानम् आगतः, अधुना अपि मन्दिरस्य गर्भगृहे तपस्यां निरन्तरं कुर्वन् अस्ति। मन्दिरस्य गर्भगृहान्तर्गतं लिङ्गं केनापि न निर्मितम्, अपितु स्वयम्भूः स्वोत्पन्नं वा अस्ति। इतिहासः लोकगीतानि च कथयन्ति मलेमहदेस्वरः व्याघ्रं स्ववाहनरूपेण उपयुज्य तस्योपरि उपविश्य पर्वतानां परितः भ्रमन् आर्तभक्तानां शरणसन्तानां रक्षणस्य मार्गरूपी अभवत् । अतः महदेश्वरः अपि भक्तैः व्याघ्रमहदेश्वरः इति सम्बोधितः भवति । महादेश्वराद्रौ अद्यापि व्याघ्रवाहनमहदेश्वरयात्रार्थं प्रतिमा अस्ति । विशेषावसरेषु व्याघ्रस्य अलङ्कारः भवति । कन्नड लोककथायां महदेश्वरभक्तिगीताना कृते अद्वितीयं स्थानं वर्तते, लोककलाकाराः तान् महदेश्वरगीतान् कथयन्ति। अतः कन्नड लोककथानां जगति महदेश्वरभक्तानाम् अनुपमं योगदानं प्राप्तम् अस्ति । एतेषु लोकगीतेषु "चेल्लिदरु मल्लिगेया..." अतीव प्रसिद्धं वर्तते।
महदेश्वरस्वामिनः जन्मवृत्तन्तः
[सम्पादयतु]- महदेश्वरस्य जन्म-वृद्धयः च जानपदकथानुसारम् एवं श्रूयन्ते महदेश्वरस्य पालकाः श्रीचन्द्रशेखरमूर्तिः उत्तराजम्म दम्पती आस्थाम् । ते मूलतः आदिजाम्बव (मादिग) गोत्रस्य सन्ति इति भाति यत् महदेश्वरः श्रीशैलस्य मल्लिकार्जुनस्वामी इत्यस्य सान्निध्ये स्थित्वा वर्तमानस्य महदेश्वरमन्दिरस्य क्षेत्रं सुत्तूरुमटानां मार्गेण अधुनातन महदेश्वर देवालयस्य प्रदेशमागत्य एतत् मम निवासयोग्यं स्थानम् इति मत्वा अत्रैव निवसति स्म। बालयोगी महदेश्वरः पर्व्वते प्राप्तं व्याघ्रं वाहनरूपेण उपयुज्य भक्तानां रक्षणार्थं अटन् आसीत् एतत् लोककाव्येषु अभिलिखितम् अस्ति। कल्याणार्थं देशं परिभ्रमन् अनेकेषां समस्यानां समाधानं कुर्वन् चमत्कारी महदेश्वरः हरदनहल्ली मठस्य तृतीयः मठाधीशः इत्यपि ज्ञायते । वैज्ञानिकदॄष्ट्या भौगोलिकदृष्ट्या च एषः स्थलः निबिडवनैः परिवृतः निवासयोग्यः । कथ्यते यत् वन्यजन्तुभिः आक्रान्ते अस्मिन् क्षेत्रे शताब्देः पूर्वं बहवः साधवः योगिनः च शिबिरं कुर्वन्ति स्म । अत्र देशस्य बहवः योगिनः तपस्यार्थं तिष्ठन्ति यतः एतत् जनहीनं निबिडं वनं वर्तते। परन्तु तस्मिन् एव स्थाने मायाविद्यां तन्त्रविद्यां च करतलामलकीकृतः 'श्रवण' नामकः राक्षसः निवसन् आसीत् । तस्य कार्यं तपस्यारतानां साधुसन्तानाम् उपद्रवः स्वस्य मायाशक्तेः उपयोगेन तेषां तपस्यानां विघटनं च आसीत् । लोककाव्यात् ज्ञायते यत् महदेश्वरः श्रावणस्य सम्मुखे तस्य सर्वाः मायातन्त्रविद्याः नाशयित्वा तस्य वशगतान् साधून् भिक्षून् च उन्मुक्तवान् । श्रावणस्य कपिमुष्ट्यां यत्र असंख्यर्षयः बन्धनरूपेण दिवसं यापयन्ति स्म । तत् स्थानम् अद्य 'तावसेरे' अस्ति । श्रवणराक्षसः यत्र निवसति स्म तत् 'श्रवणबोली' इति कथ्यते । महदेश्वराः वर्तमानस्य महदेश्वरमन्दिरस्य निर्माणं हालुमतनगरस्य कुरुबागौडजातेः धनिकेन श्रीजिञ्जेगौडः इत्यनेन कृतम् अस्ति तथा च इतिहासात् ज्ञायते यत् अस्मिन् क्षेत्रे मठः अपि स्थापितः आसीत्। महदेश्वरस्य जनकल्याणसेवायाम् अतीव महत्त्वपूर्णं यत् तत्रत्यानां जनानां मुख्यतया आदिवासीनाम्, गिरिजनानां च सुशिक्षितानां, शिष्टजनानां च परिवर्तनस्य उद्देश्येन मठस्थापनामकरोत् इत्येतत् महदेश्वर लोककल्याणार्थसेवासु बहुमुख्यं स्थानमावहति। महदेश्वरकथानुसारं तत्रत्याः सप्तपर्वताः भिन्न-भिन्न-लोकनाम्ना प्रसिद्धाः सन्ति । ७७ पर्व्वतैः - अनेमले, जेनुमले, कनुमले, पच्चेमले, पवलमले, पोन्नाचिमले, रुद्राक्षीमले, विभूतिमले, कोङ्गुमले पर्व्वतैः परितः सम्पूर्णपरिवृतक्षेत्रः महादेश्वराद्रिः इति कथ्यते ।
महदेश्वरस्य भक्तसङ्कुलः
[सम्पादयतु]- पुरातनमैसूरुप्रदेशे श्रीमहदेश्वरस्वामिभक्ताः प्रचुरतया सन्ति। चामराजनगर, मैसूर, मण्ड्या, रामनगराम्, बेङ्गलुरु, तुमकूरुक्षेत्रम्, हालुमतः, उप्पारः, कुरुबगौडरु, मिङ्गायतः, गाणिगकुलः, नायकः, ओक्कलिगः/वक्कलिगः, वन्नियारकुलः, क्षत्रियगौण्डर्, शेट्टर्, कुरुबगौडः (हलमाता गौडः), भोविजनाङ्गः, महदेस्वराद्रेः परितः आदिवासी, सोलिगर्, अन्य अनेककुलानां गृहदेवता/कुलदेवता महदेश्वरस्वामी वर्तते।
- १९५३ तमवर्षपर्यन्तं महदेस्वरमन्दिरस्य प्रशासनं तैः स्थापितसालूरुमठस्य नियन्त्रणे आसीत् । परन्तु १९५३ तमे वर्षे मन्दिरस्य प्रशासनं मद्राससर्वकाराय समर्पितम् । ततः परं १९५६ तमे वर्षे भाषाप्रान्तविभागात् चामराजनगरस्य कर्णाटकेन सह संयोगपरिणामेन मद्राससर्वकारेनच्युतं प्रशासनं कर्णाटकसर्वकारस्य आधीन्येविद्यमान मुजरायविभागाय समर्पितं च ।