महाभारततात्पर्यनिर्णयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

महभारत्

महाभारतं वैदिक संस्कृतेः विश्वरूपदर्शनं कारयति। अस्य उद्भोदककथाभागेन पामराः अपि सारं ज्ञाताः भवन्ति। महाभारतं गात्रदृष्ट्या विषयदृष्ट्या च विशिष्टं स्थानं भजते। ईदृशस्य महाभारतस्य समग्रविषयाणां निरूपणं कृतं भवति अस्मिन ग्रन्थे। ईदृशं कार्यम् अन्ये दार्शनिकाः न कृतवन्तः। आचार्यः जिज्ञासुजनेभ्यः महदुपकारं कृतवान् अस्ति। माहाभारततात्पर्यनिर्णयः ग्रन्थः मध्वाचार्यस्य कृतिषु श्रेष्ठस्थानं भजते। अयं ग्रन्थः गात्रेऽपि बृहत् भवति। ५ सहस्रादिकश्लोकाः अस्मिन् ग्रन्थे सन्ति। ३२ अध्यायाः सन्ति अस्मिन् ग्रन्थे। "सर्वशास्त्रार्थनिर्णयः" प्रथमः अध्यायः भवति। सुवाक्योद्धारः द्वितीयः अध्यायः भवति। तृतीये अध्यायः “सर्गानुसर्गलयप्रादुर्भावनिर्णयः” भवति। अस्मिन्नेव अध्याये "रामकथानिर्णयस्य" आरम्भः भवति, समाप्तिस्तु नवमे अध्याये भवति। दशमे अध्याये वेदव्यासस्य अवतरस्य समग्रं चित्रणं दत्तम् अस्ति। एकादशाध्यायादारभ्य द्वात्रिंशत् अध्यायपर्यन्तं माहाभारतस्य निर्णयः कृतः भवति। महाभारततात्पर्यनिर्णयस्य वैशिष्ट्यान्तरं श्रीकृष्णस्य, पाण्डावानाञ्च कथाः स्पुटतया निरूपिताः सन्ति। रामयणस्य सीतापहरणम्, सीतापरित्यागः, महाभारतस्य द्रौपदीपञ्चपत्नित्वादि मूलविचारान् स्फुटतया निरूपितवान् अस्ति। मूलभारतस्य केचन श्लोकानां साक्षात् अर्थमपि निरूपितवान् अस्ति।