महायानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गौतमबुद्धः

बौद्धधर्मः

बौद्धधर्मः

महायानमतानुसारेण निर्वाणस्य कृते उभयविधानाम् आवरणानां क्षयः आवश्यको भवति । क्लेशावरणज्ञेयावरणयोः क्षतिः क्रार्मकाऽस्ति । पूर्वं क्लेशावरणं नश्यति,तदनन्तरं ज्ञेयावरणस्य विनाशो भवति । हीनयाने स्वीकृतं निर्वाणस्य स्वरूपं महायानस्य दृष्टिकोणेन अपूर्णमस्ति,यतो हि क्लेशावरणस्य विनाशानन्तरमपि ज्ञेयावरणम् अवशिष्टं भवति ।

यद्यपि हीनयानमतेन क्लेशावरणविनाशेन आत्मनो निषेधो विहितः । यतो हि आत्मनः सुखादीनां कृते एव मानवस्य प्रवृत्तिर्जायते । अतएव दुःखादयो भवन्ति । आत्मदृष्ट्यैव इमे विषमपरिणामा भवन्ति । अतः आत्मनो निषेधे सत्येव दुःखानां स्वत एव नाशो भविष्यति । अयमेव हीनयानस्य नैरात्म्यवादो वर्तते । तस्य द्वौ भेदो कथितौपुद्गलनैरात्म्यवादो धर्मनैरात्म्यवादश्च । एवं पुद्गलनैरात्म्येन प्राणी स्वतः क्लेशमुक्तो भवति ।

एतद्विपरीतं जगतोऽभावात् सांसारिकपदार्थानां शून्यताया ज्ञानेन पारमार्थिक सत्यरूपिणो ज्ञानस्योपरितः आवरणं नश्यति । साधकोऽपि सर्वज्ञतां लभते । क्लेशेन मुक्तेरावरणं भवति,ज्ञेयावरणं च ज्ञेयपदार्थम् आवृणोति । उभयोरावरणयोर्विनाशेनैव सर्वज्ञता प्राप्तुं शक्यते । महायानसम्प्रदाये ज्ञेयावरणस्य निवारणोपायरूपेण सर्वशून्यतायाः प्रतीतिरभिमताऽस्ति । एवमेव हीनयाने अर्हत्प्राप्तीः परमोद्देश्यमस्ति,किन्तु महायाने बुद्धत्वप्राप्तिर्ल-क्ष्यभूता भवति । उभयोः सम्प्रदाययोरयमेव निर्वाणभेदः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महायानम्&oldid=480775" इत्यस्माद् प्रतिप्राप्तम्