माघः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
{{{नाम}}}}
{{{जन्म}}}-{{{मरणम्}}}
[[image:{{{भावचित्रम्}}}|250px]]
कालः क्रि. श्. ६७५-७५०
जन्मस्थानम् वसन्तपुरः
मरणस्थानम्
भाषा संस्कृतम्
विभागः पध्य
काव्यनामः {{{काव्यनाम}}}
आश्रयदाता
आवासस्थानम् राजास्थानस्य वसन्तपुरप्रदेशः
प्रमुख कृतयः शिशुपालवधम्
पिता दत्तकः
माता
पुत्रः

माघः संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधरूपकस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।

जन्मवृत्तान्तः[सम्पादयतु]

शिशुपालवधस्य अन्ते पञ्चसु पद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्ञः मन्त्री बभूव । माघस्य पितुः नाम दत्तकः इति ।

देशकालादयः[सम्पादयतु]

राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,

अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥

इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।

माघस्यैतिह्यविषये स्वल्पमपि आभ्यन्तरप्रमाणमपि लभ्यते । शिशुपालवधस्य समाप्तौ कविवंशवर्णनप्रसङ्गोऽपि समुपस्थापितोऽस्ति । तदनुसारेण माघो सुप्रभदेवाख्यस्य पौत्रो दत्तकाख्यस्य पुत्रः आसीत् । यथोक्तं तत्र -

सर्वाधिकारी सुकृताधिकारः श्रीचर्मलातस्य बभूव राज्ञः ।

असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ।।

••••••••••••••

तस्याभवद् दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः ।।

•••••••••••••••••••

"तस्यात्मजः सुकविकीर्तिदुराशयाऽदः, काव्यं व्यधत्तं शिशुपालवधाभिधानम्।"

वर्मलातनामा नृपतिः वर्मनामा वर्मनाभः धर्मनामः धर्मलात इतिप्रभृति नामभिरपि परिचितः । वसन्तगढग्रामे तेन स्थापितमेकं शिलाशासनं समुपलब्धमस्ति । यथोक्तं तत्र -

द्विरशीत्यधिके काले षण्णां वर्षशतोत्तरे ।

जगन्मातुरिदं स्थानं स्थापितं गोष्ठिपुङ्गवैः।।

जयति जयलक्ष्म्यलक्षितवक्षःस्थलसंशयोदारः।

श्रीवर्मलातनृपतिः पतिरवनेरधिकबलवीर्यः॥ इति ।[१]

यद्यपि कविवंशवर्णनपराणि पञ्च पद्यान्यपि मल्लिनाथादिभिः व्याख्यानान्येव तथापि तेषां मौलिकत्वं तु ससंशयमेव। यतो हि तद्ग्रंथनशैली ग्रन्थनिर्वाहितशैल्या भिन्नैव । सम्भवति पश्चाद्वर्तिना केनाऽपि तानि प्रक्षिप्तान्यपि स्युः । सत्यपि तथा स्वल्पमपि कविपरिचयप्रकाशं तु तेभ्यः प्राप्यत्येव प्रक्षेपकस्यापि आप्तत्वात् । श्रीवर्मलातो नृपः सम्भवतो वलभीं शासति स्म । तस्य च स्थितिकालः स्पष्टत: ६८२ मितवैक्रमाब्दमभितः शिलालेखे तथोल्लिखितत्वात् । तेन हि सुप्रभदेवस्याऽप्ययमेव कालः । तस्य हि सुतो दत्तकः सर्वाश्रयः । तस्य च कालस्तदन्तरवर्ती, सम्भवतः ६७०-७३० मितवैक्रमाब्दानभितः । तस्य पुत्रो माघ इति तस्य कालः ७००-७०० मितवैक्रमाब्दानभितोऽनुमितः समालोचकैः ।

अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।

शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।[२]

उक्तं शिशुपालवधगतं पद्ममाधृत्य केचित्तु वृत्तिशब्देन काशिकावृत्तिं जयादित्यप्रणीतां न्यासशब्देन जितेन्द्रबुद्धेः विवरणपञ्जिकां च गृहीत्वा यथानिर्दिष्टं मल्लिनाथवल्लभदेवादिभिः व्याख्यातृभिः माघस्य समयो जितेन्द्रबुद्धेः पश्चाद्वर्तीत्यपि मन्यन्ते । किन्त्वेष भ्रम एव दृश्यते 'दिङ्नागानां पथि परिहरन्' इति कथनेन कालिदासदिङ्नागयोः समकालिकत्वकल्पनमिव । यतो हि बाणस्य समयस्तु सुनिश्चित एव । न कदापि काशिकावृत्तिकारेण बाणपूर्ववर्तिना भाव्यम् । काशिकावृत्युपरि हरदत्तस्य पदमञ्जरी टीका । तस्या एव व्याख्या जितेन्द्रबुद्धेर्न्यासापराभिधा। किन्तु बाणभट्टोऽपि न्यासं ग्रन्थं स्मरति 'कृतगुरुपदन्यासा लोक इव व्याकरणेऽपि' इति कथनेन । तेन हि जितेन्द्रबुद्धेः पूर्वमपि आसन्ननेके न्याससंज्ञिताः ग्रन्थाः । अष्टाध्याय्याः वृत्तिग्रन्थश्च काशिकापूर्वमप्यासीदेव यदुपरि वार्तिकानि प्रणीतानि कात्यायनादिभिः । वस्तुतस्तु अष्टाध्यायी सूत्राणामाद्यो वृत्तिकारः पाणिनिरेव तदनु च व्याडिरिति सर्वसम्मतमेव । अतो नेदं प्रमाणं माघकालनिर्णये । अपरञ्च जितेन्द्रबुद्धिः पदमञ्जरीमनुसरति । पदमञ्जरीकारी हरदत्तः स्वयमेव माघं स्मरतीति निरस्तैव जितेन्द्रबुद्धेः माघपूर्ववर्तिता।

सामान्यतो बाह्यमाणैरपि माघस्य समयं निर्णेतुं शक्यते । बाणभट्टो माघं न स्मरतीति सामान्यतः इदमेव तस्य स्थितिकालस्य पूर्वसीमा । यद्यपि स भट्टिमपि न स्मरति तथैव भारविमपि तथापि सामान्यरूपेणेदमुच्यते । भारविमनुजीवति माघ इति तथा रेखा कल्पिता । यशस्तिलकचम्पूकारः सोमदेवः (१०१६ वै०), ततः पूर्ववर्ती ध्वन्यालोककृदानन्दवर्धनः (९०७ वै०) कविराजमार्गस्य प्रणेता नृपतुङ्गदेवः (८७१ वै०) च माघं स्मरन्ति । तुङ्गदेवस्तु तं कालिदाससमकक्षत्वेन स्तौति । अतस्ततोऽपि न्यूनतममपि शताब्दीपूर्वमेव माघस्य स्थितिकालेन भाव्यमेव । अनेनाऽपि माघस्य स्थितिकालः ७७० वैक्रमाब्दमभितः आपतति सामान्यतः । स च दीर्घजीवी आसीत् । तेन तस्य स्थितिकालः ७००-७८० मितवैक्रमाब्दान्तरालेऽनुमितः विद्वद्भिः। प्रचलितकिंवदन्त्यनुसारेण, यथा भोजप्रबन्धे प्रबन्धचिन्तामणौ च लिखितं, माघो नाम कश्चिद्विचक्षणो भोजस्य सभायामासीत् । कोऽसौ माघः कश्चासौ भोज इति तु नाधुनाऽपि स्पष्टम् ।

सामान्यतो राजा भोजशब्देनाऽप्युच्यते । महाभारते भोजशब्दो राजबोधकत्वेन प्रयुक्तो दृश्यते । नाम्नापि भोजाख्यास्त्रयो राजानोऽभूवन्निति वदन्त्येतिहासिकाः, येषु टोडर-महाशय अन्यतमः। धारानगरीशः परमारवंशीयो भोजस्तु १०६०-१११० मितवैक्रमाब्दान्तराले स्थितिमानिति सप्रमाणं प्राप्यते। माघस्य तत्समकालिकत्वे मते सति तस्य हि 'रम्या इति प्राप्तवतीः पताकाः'[३] 'त्रासाकुलः परिपतन्'[४] इति पद्यद्वयमुद्धरत आनन्दवर्धनस्य कः स्थितिकालः स्याद् यं हि कुन्तको, राजशेखरः, महिमभट्टश्च, स्वयमेव भोजोऽपि स्मरति अभिनवगुप्तस्तु व्याख्यात्यपि । तेन नैव माघो धारानगरीशभोजसमकालिकः । इदं सम्भवति यत्कश्चिद्भोजाख्यो नृपः यमैतिहासिका द्वितीयभोजमिति परिचिन्वन्ति, चितौर (चित्रवर) नगरे ७०७ मितवैक्रमाब्दात् ७३२ मितवैक्रमाब्दपर्यन्तं शासनरतः आसीत् । तेनास्य माघाश्रयदातृत्वं सिध्यत्यपि। अपरञ्च माघस्य श्रीमालवास्तव्यत्वम् - 'इति श्रीभिन्नमालवास्तव्यदत्तकसूनोर्महावैयाकरणस्य माघस्य कृतौ शिशुपालवधे महाकाव्ये' इति शिशुपालवधपुष्पिकावाक्यतो ज्ञायते । श्रीमालवास्तव्यश्चित्तोरनगरीमाश्रितवानिति न किमप्याश्चर्यम्।

कृतयः[सम्पादयतु]

शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।

शिशुपालवधम्[सम्पादयतु]

माघस्य सम्प्रत्येकैव कृतिर्लभ्यते शिशुपालवधं नाम महाकाव्यम् । तत्र हि महाभारताश्रिता शिशुपालवधात्मिका कथा वर्णिताऽस्ति । नारदाद्युधिष्ठिरयज्ञवृत्तान्तं श्रुत्वा कृष्णः ससैन्यस्तत्र गच्छति । तत्र च कुष्णस्याग्रपूजाविरोधिनमुद्धतं शिशुपालं स निहन्ति । एतावतीमेव कथां कविः स्वप्रतिभाबलाद् विस्तृतेषु विंशतिसर्गेषु वर्णयति । संक्षिप्तकथाश्रयेण काव्यप्रवर्तनं संस्कृतपण्डितानां महानामोदविषयः । कालिदासो हि सुविस्तृतां कथामादाय काव्यरत्नं प्रणीतवान् । एवमेव कुमारदासोऽपि । भारविस्तु तदपेक्षया स्वल्पतरां कथामाश्रित्य महाकाव्यं विरचितवान् । माघस्ततोऽपि स्वल्पतरां कथां गृहीतवान् । रत्नाकरस्तु स्वल्पतमामेव कथामाधृत्य पञ्चाशत्सर्गात्मकं महाकाव्यं प्रणीतवान् । शिशुपालवधस्य सन्त्यनेकाष्टीका विशत्यधिंकाः यासु मल्लिनाथस्य सर्वङ्कषा प्रसिद्धाः प्राचीनासु नेवासु च शेषराजस्य चन्द्रकला ।

कथावस्तु[सम्पादयतु]

तत्र हि शिशुपालवधस्य प्रथमे सर्गे नारदागमनं श्रीकृष्णेन तदादरः नारदेन शिशुपालवधाय प्रोत्साहनं शक्रसन्देशकथनम् । द्वितीये कृष्णबलरामोद्धवानां गुप्तमन्त्रणा उद्धवपरामर्शानुसारेण युधिष्ठिरस्य यज्ञं गमनाय निर्णयः, तृतीये श्रीकृष्णस्य प्रस्थानं द्वारकासेनासमुद्रादीनां वर्णनम्, चतुर्थे रैवतकपर्वतवर्णनम्, पञ्चमे तत्र सैन्यशिविरवर्णनं, षष्ठे षट्ऋतुवर्णनं, सप्तमे वनविहारवर्णनं, अष्टमे जलक्रीडावर्णनं, नवमे सायं चन्द्रोदय-शृंगारविधानादिवर्णनं, दशमे दानगोष्ठीरात्रिक्रीडावर्णनम्, एकादशे प्रभातवर्णनं, द्वादशे प्रस्थानवर्णनं यमुनावर्णनञ्च, त्रयोदशे कष्णपाण्डवसमागमः, श्रीकृष्णस्य नगरप्रवेशवर्णनं च, चतुर्दशे राजसूययज्ञक्रमः श्रीकृष्णस्याग्रपूजा, भीष्मेण तस्य स्तवनञ्च, पञ्चदशे शिशुपालक्रोधो युद्धाय सन्नद्धता च राज्ञां, षोडशे दूतसंवादः सप्तदशे युद्धप्रयाणं, अष्टादशे युद्धवर्णनं, एकोनविंशे युद्धवर्णनं चित्रालंकारयोजना च, विंशे शिशुपालवधः, इति प्रतिसर्गकथासारः ।

माघस्य शैली[सम्पादयतु]

माघे सन्ति त्रयो गुणाः

सुविदितमेवैतत् संस्कृतसाहित्ये महाकाविः माघः खल्वत्यन्तं भासुरं रत्नम्। अस्य हि नवाभिनवपदविन्यासविलासो नितराम् उदात्तशैलीम् अनुशेते। अलङ्कारगीभिः गुम्फितशैली माघस्य अत्यन्तभासुरा वर्तते । तेनैव कारणेन एतस्य महाकाव्यं विद्वद्भिः बृहत्त्रय्यां पर्यगण्यत। असाधारणम् अलङ्कारपूर्णं वर्णनं भावगाम्भीर्यं च पदे पदे कवेरस्य काव्यकलायाः उत्कर्षम् उद्‌घोषयति । सर्गे सर्गे अनेकानि पद्यानि वर्णनसौन्दर्येण, भावसौष्ठवेन विचारगाम्भीर्येण चाऽद्वितीयं भावम् उपस्थापयन्ति । चरित्रचित्रण-धुरन्धराणां प्रकृतिपर्यवेक्षणविचक्षणानां गणना-प्रसङ्गे तु माघस्य तुलां नाऽधिरोहति कोऽपि । कविनाऽनेन कृतं वर्णनं सर्वेषाम् एव पाठकानां ह्रदयानि आवर्जयति। वैशिष्टयं च किञ्चित् प्रतिपाद्यते। तद्यथा-

उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बि-घण्टाद्वयपरिवारित-वारणेन्द्रलीलाम्।

अस्मिन् पद्ये कविः रैवतकं पर्वतम् उभयतः सूर्येन्दु-रूपविलम्बिघण्टा-द्वय-परिवारित-वारणेन्द्रलीलाम् आवहन्तम् इवाऽऽकलयति । अत एव माघो ` घण्टामाघः' इति नाम्ना प्रसिद्धिम् उपगतः।

माघविरचितं शिशुपालवधं नाम महाकव्यं विंशतिसर्गग्रथितम् । १६५० पद्यैः परिगुम्फितमिदं महाकव्यं संस्कृतसाहित्ये भृशं विराजते । काव्येऽस्मिन् कवेः प्रौढिमा प्रतिपदं दृश्यते। तद्यथा-

उदयशिखर-श्रृङ्ग-प्राङ्गणेष्वेव रिंगन्
सकमलमुखहासं वीक्षितः पद्मिनीभिः।
विनतमृदुकराग्रः शब्दयन्त्या वयोभिः
परिपतति दिवोऽङ्के हेलया वालसूर्यः॥

कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-

अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।
निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥

माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--

अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥

श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।

अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्‌गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥

कविकुलललामभूतस्य माघस्य श्रृंगारिक-पदावलिरपि नितरां मुग्धीकरोति विदग्धान् । यथा च-

यां यां प्रियो प्रैक्षत कातराक्षीं, सा सा ह्रिया नम्रमुखी बभूव
निःशङ्कमन्याः सममाहितेर्ष्या, स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥

माघप्रतीतकाव्येषु विषय-वैविध्यनिवेशेनाऽनुमीयते यदसौ कविरासीत् अनेकशास्त्रनिपुणः सङ्गीत-नाट्य-व्याकरणाऽलङ्कार-राजनीति-विशेषज्ञश्च । अत एव भारतीयैः आलोचकैः माघे प्रभूतप्रशंसायाः वृष्टिः कृताऽवलोक्यते । माघकाव्ये कालिदासस्योपमा, भारवेरर्थगौरवं, दण्डिनः पदलालित्यम् इत्येतेषां त्रयाणामपि गुणानाम् अभूतपूर्वः सन्निवेशः समजनि इत्याचक्षते । तथा हि-

उपमा कालिदासस्य भारवेरर्खगौरवम्।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ इति।

वस्तुतत्त्वेषु विमृश्यामानेषु विदितं भवति यत् प्रशस्तिरियम् काव्यकलां सर्वोत्कृष्टां ज्ञापयति । उपमा-विषयेऽपि कविकुल-चूडामणिः माघः इतरानखिलान् कवीश्वरान् अतिवर्तते इत्युक्त्तिः सुतराम् सत्यम् भवति । न चेयं लोकख्यातिराख्यातिमात्रम् । माघकाव्ये न केवलम् उपमाभूयिष्ठत्वम्, अपितूपमा-सौष्ठवम् । यद्यपि बहुभिः अन्यैः कवीश्वरैः अपि उपमा समुपलालिता, तथा च सा रामणीयकत्वेन परिपूर्णत्वेन याथातथ्येन प्रकृत्युनुरूप-निरूपकत्वेन च मघस्योपमायाः तुलां नाधिरोहति । माघस्योपमा यथा निमज्जयन्ती रसिकान् आनन्दसागरे, पाययन्ती लोकोत्तररसधारां, चमत्कुर्वती चेतांसि विपश्चिताम्, उपदिशन्ती चाऽनन्यसदृशान् उपदेशान्, आविष्कुर्वती वा विविधभावावेशान् उपजयन्ती यादृशं प्रभावं सह्रदयह्रदयपटलेषु प्रतिभाति, न तथाऽन्येषाम् ।

अत एव साहित्यधुरन्धरेण रादशेखरेणेत्थम् अभाणि-

कृत्स्नप्रबोधकृद्वाजी भारवेरिव भारवेः।
माघेनेव च माघेन कम्पः कस्य न जायते॥

माघः एकीभूतकालिदासभारविभट्टय इति समालोचकाः कथयन्ति। काव्ये कालिदासस्य काव्यसौन्दर्यं भारवेरर्थगौरवं भट्टेश्च व्याकरणपाटवञ्च दश्यते । तस्मिन् काव्यनैपुण्यव्याकरणपाटवयोः सुन्दरसमन्वय दृश्यते । तत्र हि कलापक्षस्य प्राचुर्येण सहैव भावपक्षस्यापि समादरो लभ्यते अत्र वीरो मुख्यरसः शृगारश्चाङ्गम् । कोमलपदावल्या सहैव शब्दजालोऽपि तत्र विलसति । अस्य हि सुसंघटिता भाषा भावाभिव्यक्तये नितान्तं सक्षमा दृश्यते । अत्र त्रयाणमेव काव्यगुणानां समन्वितः प्रयोगो दृश्यते । अस्य चित्रालङ्कारजालो भारविं भट्टिञ्चातिशेते । तेनैवोक्तं - 'माघे माघे गतं वयः' इति। यथा 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनात्कालिदासो दीपशिखासंज्ञां लेभे यथा वा 'आदन्ते कनकमयातपत्रलक्ष्मीम्' इति कथनाद्भारविरातपत्रसंज्ञां लेभे तथैव माघोऽपि निम्नांकितपद्येन घण्टासंज्ञामलभत -

उदयति विततोऽर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।

वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्।।[५] इति।

कथ्यते 'नवसर्गे गते माघे नवशब्दो न विद्यते'। तथा कथनेऽयमेव हेतुर्यत्तत्र नवनवानां शब्दानां बाहुल्येन प्रयोगकृतोऽस्ति । नवतामेव माघो रमणीयताया स्वरूपं मन्यते । कथयति सः - 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः'[६]

समालोचकाः कथयन्ति यन्माघस्य भाषायां पाण्डित्येन सह परिष्कारः, कोमलतया सह माधुर्यं, ओजसा सह सशक्तता, अर्थगाम्भीर्येण सह स्फूतिरपि द्रष्टुं शक्यते । यथा हि -

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।

मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।।[७]

तस्य हि सूक्ष्मेक्षिकाऽपि सर्वानेवातिशेते । स यदेव कथयति तस्य मूलमेव स्पृशति । यथा हि -

प्रहरकमपनीय स्वं निदिद्रासतोच्चैः, प्रतिपदमुपहुतः केनचिज्जागृहीति।

मुहुरविशदवर्णादददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।

कुमुदवनमपश्रि श्रीमदम्भोजदण्डं त्यजति मुदमुलूकः प्रीतिमश्चक्रवाकः ।

उदयमहिमरश्मिर्याति शीताशुरस्तं, हतविधिलसितानां हा विचित्रो विपाकः।

माघेन काव्ये बहूनिच्छन्दांसि प्रयुक्तानि । तेषु हि वंशस्थवृत्तमतीव प्रियम्। माघाय हि अलङ्कृतकाव्यपरम्परा भारवितः प्राप्ताऽऽसीद्या सा साधु निरवाहयत् । तस्य प्रत्येकं वर्णनमलङ्कृतभाषायामेव लभ्यते । सः यद्यपि इतिवृत्तनिर्वाहे स्खलति, यत्र कुत्र तु प्राकरणिकवर्णनस्य मूलकथया सह नास्ति कोऽपि सम्बन्धस्तथापि वर्णनाचातुर्या स निष्प्रयोजनानपि विषयान् प्रयोजनसम्बद्धामिव करोति । वस्तुतञ्चतुर्थसर्गादारभ्य त्रयोदशसर्गपर्यन्तो विषयो मूलकथया सह नितान्तमेवासम्बद्धः । इतिवृत्तेन सह तु प्रथम-द्वितीय-चतुर्दश-विंशतिसर्गा एव सम्बद्धाः । वीररसाप्लाविते इतिवृत्ते गौणेन शृङ्गारवर्णनेन काव्यस्य कलेवरवृद्धिरेव भवति नान्यत् । वस्तुतस्तु अङ्गीभूतेन शृङ्गारेण अङ्गभूतो वीर उद्वेजित इव दृश्यते तत्र। यदा कदा तस्य प्रकृतिचित्रणमपि कृत्त्रिभमलङ्कारभाराक्षिप्तमिव दृश्यते। तस्य प्रकृतिचित्रणमुद्दीपरूपेणैव कृतं दृश्यते। किन्तु ग्राम्यजीवनचित्रणं तु नितान्तं स्वाभाविकमपि दृश्यते। तस्य वर्णनसौन्दर्यं चमत्कारविधानञ्च चरमोत्कर्षतां स्पृशति । नारदावतरणं स इत्थं वर्णयति -

चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।

विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।।

तथैव -

गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविभुजः।

पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥

भारविणा सह साम्यम्[सम्पादयतु]

कतिपयपक्षेषु माघो भारविना सह साम्यं विभर्ति कतिपयपक्षे वैषम्यमपि । उभेऽपि काव्ये 'श्रियाः' इति पदेनारभेते। उभयोरेवारम्भे राजनीतिवर्णिताऽस्ति । उभयोरेव चतुर्थसर्गो नानावृत्तमयः । उभेऽपि शब्दचित्रकाव्यं प्राथम्येन प्रस्तुतः प्रथमे १५ सर्गे द्वितीये १९ तमे सर्गे। किन्तु प्रथमं शिवमहिमवर्णनपरं द्वितीयं तु कृष्णकथासम्बद्धम् । प्रथमे प्रतिसर्गान्ते लक्ष्मीशब्दस्य प्रयोगो द्वितीये श्रीशब्दस्य । प्रथमे हिमालयवर्णनाय यमकं प्रयुनक्ति द्वितीयं रैवतकवर्णनाय । प्रथमे व्यासस्य भूमिकां द्वितीये नारदः पूरयति । इदमपि विश्वस्यते यद भावाभिव्यक्तौ पाण्डित्यप्रदर्शने च माघो भारविमतिशेते तथैव छन्दोयोजनायां चित्रालङ्कारप्रयोगे च । आद्यो हि विवेचकोऽपरो समीक्षकः । प्रथमे ओजोभूयस्त्वं द्वितीये तु माधुर्यप्राचुर्यम् । आद्यः निपुणः कलाकारो द्वितीयस्तु दक्षचित्रकारः। प्रथमे या सुकुमारता सा द्वितीये प्रौढतामावहति । आद्ये काव्यवनिता आसन्नयौवना द्वितीये तु प्राप्तयौवना दृश्यत इति ।

प्रशंसा[सम्पादयतु]

काव्यशास्त्रमर्मज्ञः माघः बहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।

"उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥"

"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"

"नवसर्गे गते माघे नवशब्दो न विद्यते"

इत्यादयः माघकवेः प्रशंसापराः उक्तयः विराजन्ते ।

सन्दर्भः[सम्पादयतु]

  1. संस्कृतकविजीविते १४१ तमपृष्ठे पार्श्वसूची
  2. ६।११
  3. ५/५३
  4. ५/२६
  5. ४।२०
  6. ४।१७
  7. ६।२०
"https://sa.wikipedia.org/w/index.php?title=माघः&oldid=443979" इत्यस्माद् पुनः प्राप्तिः