माजुलीद्वीपः
माजुलीद्वीपः एकम् आध्यात्मिकं स्थलं वर्तते । तत्स्थलम् इतिहासेन, संस्कृत्या च सह संलग्नम् अस्ति । इदं स्थलम् असम-राज्यस्य बृहत्तमं वीक्षणीयस्थलं वर्तते । तस्मिन् स्थले वैष्णवधर्मः अपि विद्यते । तत्स्थलं वैष्णवधर्मस्य केन्द्रं मन्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति । तया नद्या अस्य स्थलस्य प्राकृतिकं सौन्दर्यं वर्धते । नद्या निर्मितेषु द्वीपेषु विश्वस्य बृहत्तमः द्वीपः अस्ति माजुलीद्वीपः । पुरा अयं दीपः १२५० चतुरस्रवर्गकिलोमीटरमितः विस्तृतः अस्ति । किन्तु मृत्तिकायाः अपकर्षणेन साम्प्रतम् अयं ४२१.६५ चतुरस्रवर्गकिलोमीटरमितः एव विस्तृतः अस्ति । इदं स्थलं जोरहट-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । नौकायानेन माजुलीद्वीपं प्राप्तुं शक्यते ।[१]
माजुली-द्वीपे प्रायः जलप्लावनं भवति । अतः अस्य द्वीपस्य पारिस्थिकतन्त्रं दूषितम् अभवत् । किन्तु अस्य द्वीपस्य वर्तमानकालिकस्थितिः तस्य स्थलस्य धर्मप्रभावेण, संस्कृत्याः प्रभावेण च अस्ति । तत्र सतना इत्याख्या सांस्कृतिकसंस्था अस्ति । आहत्य पञ्चविंशतिः सांस्कृतिकसंस्थाः तत्र स्थिताः सन्ति । मन्यते यत् – “एताः संस्थाः वैष्णवधर्मस्य केन्द्राणि सन्ति । असमियासाधुना श्रीशङ्करदेवेन एतेषां केन्द्राणां प्रोत्साहनं कृतम् आसीत् । पुनश्च श्रीशङ्करदेवस्य अनुयायिना माधवदेवेन अपि एतासां वृद्ध्यर्थं प्रोत्साहनं कृतम् आसीत् । भारतस्य प्रमुखशास्त्रीयनृत्येषु सत्तरिया-नृत्यस्यापि केन्द्रम् अस्ति अयं द्वीपः ।
सतरा-संस्थाः सामाजिक्यः, धार्मिक्यः च सन्ति । तत्र वैष्णवधर्मपालनाय शिक्षणं प्रदीयते । सर्वेषां सतरा-संस्थानां विशिष्टं महत्त्वम् अस्ति । तत्र विभिन्नानि धार्मिकशिक्षणानि प्रदीयन्ते । माजुलीद्वीपस्य वातावरणं लोकप्रियं नास्ति । यतः तत्र वर्षा अधिककालपर्यन्तं भवति । तत्र उष्णतायाः अपि आधिक्यं भवति । केवलं शीतर्तौ एव वातावरणं शीतलं, सामान्यं च भवति । अतः तस्मिन् काले माजुलीद्वीपः भ्रमणं कर्तुं योग्यः ।
सन्दर्भः
[सम्पादयतु]- ↑ "মাজুলীৰ ঐতিহাসিক তথা ভৌগলিক তথ্য". Vikaspedia.