माणिमाधवचाक्यारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(माणि माधव: चाक्यारः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
माणि माधव चाक्यारः
Mani Madhava Chakyar.jpg
नाट्याचार्यः विदूषकरत्नम्, माणिमाधवचाक्यारः कूटियाट्टम् कलाकोविदः
Born १५.०२.१८९९
क्रि.श.१८९९तमवर्षस्य फेब्रवरीमासस्य १५दिनाङ्कः ।
कोजिक्कोडु, केरलराज्यम्,भारतम्  भारतम्
Died क्रि.श.१९९०तमवर्षस्य जनवरीमासस्य १४दिनाङ्कः । ९०वर्षाणि ।
ओट्टप्पळम्, केरलम्, भारतम्  भारतम्
Years active १९१०-१९९०
Religion हिन्दुधर्मः
Spouse(s) श्रीमती पि.के.कुञ्जिमलु नञ्जियारम्मा ।
Awards १९६४:सङ्गीतनाटक अकदेमी प्रशास्तिः
१९६४: पदेरेव्सकी प्रतिष्ठानम्(न्यूयार्क्)
१९७४: पद्मश्रीः
१९७५: केरलसाहित्याकदेमीप्रसास्तिः
१९७६: केरलसङ्गीतनाटकपुरस्कारः
१९८२: सङ्गीतनाटकाकादेमीपुरस्कारः
१९८२: भारतसर्वकारः प्रतिभापुरस्कारः
१९८२: कालिदासाकादेमीपुरस्कारः
१९८३: केरलकलामण्डलपुरस्कारः
१९८७: तुलसीसम्माननम्
१९९१: गुरुवारप्पन्सम्माननम्
माणि माधव चक्यारः

माणिमाधवः चाक्यारः भारतस्य विश्रुतः कलाकाराः। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । कूटियाट्टं तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति । अस्यां कलायां कोविदः अयं माणिमाधवः शाक्यारः । अस्य जीवितकालः क्रि.श.१८९९तमवर्षस्य फेब्रवरि १५दिनाङ्कतः क्रि.श.१९९१तमवर्षस्य जनवरी १४दिनाङ्कपर्यनतम् । अस्यां कलायाम् एषः सर्वश्रेष्ठम् अभिनयं सुचारु नाट्यं प्रदर्शयति स्म । अस्य जन्म केरलस्य कोजिकोडु मण्डलस्य करयादस्य समीपे तिरुवङ्गयूरुग्रामे क्रि.श.१८९९तमे वर्शे फेब्रवरी मासस्य १५दिनाङ्के अभवत् । अस्य पिता विष्णुशर्मा माता सावित्रि इल्लोतम्मा च । अस्य माणिकुटुम्बः उत्तरकेरलस्य चाक्यार् वंशसम्बद्धः । अस्य वंशः एव संस्कृतनाट्यशास्ताधारितं कूटियाट्टस्य संरक्षकः । इयं कला अस्मिन् माधवे परम्परया एव उदिता ।

पारम्परिकेन गुरुकुलक्रमेण अयं चाक्यार् कूटु, कूटियाट्टं च कलाशिक्षां सम्पादितवान् । एतयोः कलयोः विद्वान् पितृव्यौ एव अस्य गुरू अभवताम् । ते गुरुः माणि पर्मेश्वर चाक्यारः, गुरुः माणि नीलकण्ठ चाक्यारः। कूटियाट्टं कलायाः माणि परम्परायाम् एव आगतः यस्यां रसाभिनयस्य वाचिकाभिनयस्य च महत्त्वम् अस्ति । अयम् उन्नतश्रेण्याः संस्कृतपण्डितः अपि । अयं संस्कृतभाषया भाषायाः कलायाः च विषययोः उपन्यासं करोति स्म । भारतीयपरम्परगतेन क्रमेण अलङ्कारशास्त्रं, नाट्यशास्त्रं, व्याकरणशास्त्रं, न्यायशास्त्रं, ज्योतिश्शात्रं च अनेन अधीतानि । संस्कृताध्ययने अस्य गुरुः पण्डितरत्नं पजेदतु शङ्करन् नम्बूदरिपादाः । अयं, सार्वकालिकपण्डितः संस्कृतभाषाकोविदः दर्शनकलानिधिः रामवर्मा परीक्षितः तम्पुरन् (कोच्चि महारजः) इत्यस्य प्रियशिष्यः आसीत् । अस्य मार्गदर्शनेन माणिमधव चाक्यरः न्यायशास्त्रं नृत्यशास्त्रं चाधीतवान् । अयं किलिक्कुरुस्सुमङ्गले विद्यमनायां बालकोल्लासिनी संस्कृतपाठशालायां संस्कृतभाषाध्ययनं कृतवान् ।

कूडियाट्टं शैल्यामाणिमाधव चाक्यारस्य रावणपात्रम्

रसाभिनयवैदुष्यम्[सम्पादयतु]

तत्कले अयं माणि माधव चाक्यारः रसाभिनयानां महापण्डितः इति प्रसिद्धः अभवत् । अयं सात्विकाभिनये परिणतः आसीत् । गतशताब्दस्य अत्यद्भुतः नृत्यकलापटुः इति प्रसिद्धः अभवत् । रावणः (कट्टिवेशः) आर्जुनः (पच्चवेशः) उदयनः(पच्चवेशः) जीमूतवाहनः (पजुकवेशः) इत्यादीनां पात्राणां पोषणं सम्यक् करोति स्म । अस्य कैलासोद्धारणं पार्वतीविरहः च तस्य नटनाकौशलं सम्यक् प्रकटयतः । नेत्राभिनये पकरन्नाटम् अभिनये च अस्य विशेषकौशलम् आसीत् । शिखिनिशलभम्... इत्यादीनां श्लोकानाम् अभिनये अयं सिद्धयस्तः आसीत् ।

पुनर्निरूपणम्[सम्पादयतु]

एतां कूटियाट्टकालां हैन्दवदेवालयात् बहिः आनयनस्य कीर्तिः माधवचाक्यारस्य एव भवति । क्रि.श.१९४९तमे वर्षे आकाशवाण्यां (AIR) अस्य प्रदर्शनं कृतवान् । कूटाम्बलात् बहिः कृतं प्रथमप्रदर्शनम् इति कश्चित् ऐतिहासिककार्यक्रमः अभवत् । क्रि.श.१९५५तमे वर्षे स्वगुरोः नेतृत्वे प्रथमवारं कूटियाट्टं प्रदर्शनं मन्दिरात् बहिः आनीय स्वग्रामे कूठम्बलग्रामे कृतम्। किन्तु मन्दिरात् बहिः प्रदर्शनेन बहवः समस्याः अभिमुखमागताः । चाक्यारसमाजस्य जनाः एव विरोधं कृतवन्तः ।

क्रि.श.१९६२तमे वर्षे डा.वि.राघवन् इत्यस्य ख्यातस्य कलासंस्कृतपण्डिस्य नेतृत्वे मद्रास्नगरस्य संस्कृतरङ्गम् इति संस्था गुरुः मानि माधव चाक्यारमहोदयं कलाप्रदर्शनार्थम् आह्वयत् । चेन्नैमहानगरं गत्वा अनेन कोटियाट्टं सार्वजनिकप्रदर्शनं दत्तम् अनेन प्रथमवारं केरलात् बहिः इयं कला आनीता । तदनन्तरं माणिमधवचाक्यारेण सह कूटियाट्टमपि केरलात् बहिः अपि प्रसिद्धिमवाप्नोत् । केरलेतरजनाः अपि अस्य महाकविदः प्रतिभपूर्णं कलाप्रदर्शनं दृष्टुं शक्तवन्तः । अयं देहली बनारस् इत्यादिषु उत्तरभारतस्य बहुषु स्थानेषु प्रदर्शनार्थम् आहूतः । अनेन परिवर्तनेन तस्य रसाभिनयस्य नाट्यशास्त्रस्य कूटियाट्टकलायाः च टीकां कर्तुम् अवकाशः अभवत् । तस्य उत्तरभारतस्य पर्यटनानन्तरं क्रि.श.१९६४तमे वर्षे एव चाक्यर् कूट्टु, कूटियाट्टं च कलायै अस्य योगदानं परिगणयन् भारतसर्वकारेण तस्मै सङ्गीतनाटकाकादम्यः पुरस्कारः समर्पितः । ईदृशकलायै अयं राष्ट्रियः पुरस्कारः प्रथमतया प्रदत्तः। तस्य रसाभिनयस्य नेत्राभिनयस्य च कौशलं कूटियाट्टं प्रति जनान् आकर्षत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

sa:माणि माधव: चाक्यारः

"https://sa.wikipedia.org/w/index.php?title=माणिमाधवचाक्यारः&oldid=344777" इत्यस्माद् पुनः प्राप्तिः