मातङ्गिनी हाजरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Matangini Hazra
मातङ्गिनी हाजरा
Kolkata Matangini Hazra.jpg
भारतस्य वीरवृद्धा
जन्म १८७०
मीदनापुरमण्डलं, वङ्गप्रदेशः
मृत्युः १९४२
मीदनापुरमण्डलं, वङ्गप्रदेशः
वृत्तिः Activist, क्रांतिकारी edit this on wikidata
कृते प्रसिद्धः भारमात्रे प्राणाहुतिं दत्तवती क्रान्तिकारिणी
मातङ्गिन्याः वास्तविकं चित्रम्

मातङ्गिनी हाजरा ( /ˈmɑːtənɡn hɑːjərɑː/) (वङ्ग: মাতঙ্গিনী হাজরা, हिन्दी: मातङ्गिनी हाजरा) भारतमात्रे प्राणाहुतिं दत्तवतीषु क्रान्तिकारिमहिलासु अन्यतमा । मातङ्गिनी हाजरा वङ्गप्रदेशीया आसीत् । पराधीने भारते वङ्गप्रदेशः क्रान्तिकारिणां राजधानीत्वेन परिगण्यते स्म । अतः तत्र आन्दोल-सभा-गुप्तगोष्ठीत्यादीनां दृश्यानि सामान्यानि आसन् । वङ्गप्रदेशस्य क्रान्तिकारिणां मुख्यस्थानत्वात् तत्रत्याः प्रजाः साक्षात् परोक्षरीत्या वा स्वतन्त्रतासङ्ग्रामे सल्लग्नाः आसन् । मातङ्गिनी हाजरा इत्यस्याः जीवनम् अस्य प्रत्यक्षोदाहरणमस्ति ।

जन्म, परिवारश्च[सम्पादयतु]

१८७० तमे वर्षे वङ्गप्रदेशस्य मीदनापुरमण्डलस्य तामलुक-उपमण्डलस्य होगला-ग्रामे मातङ्गिन्याः जन्म अभवत् । तस्याः पिता ठाकुरदास मैति कृषकः आसीत् । ठाकुरदास दरिद्रः आसीत् । अतः धनोपार्जनार्थं सः स्वपुत्र्याः विक्रयणम् अकरोत् । धनस्य लीप्सया सः मातङ्गिन्याः बालविवाहम् अलीला-ग्रामवासिना षष्ठिवर्षीयेण वृद्धेन सह अकारयत् । तस्य वृद्धस्य नाम त्रिलोचन हाजरा आसीत् । मातङ्गिनी यदा अष्टादशवर्षीया अभवत्, तदा सा विधवा अभवत् ।

जीवनम्[सम्पादयतु]

अष्टादशवर्षस्य आयुः विवाहाय न्यूनातिन्यूनम् आयुः इति अधुना वयं जानीमः । परन्तु सा अष्टादशवर्षस्य वयसि विधवा अभवत् । तस्याः सन्ततिः अपि नासीत् । अतः सा स्वपितृगृहं प्रत्यगच्छत् । यः पिता पुत्र्याः विक्रयणम् अकरोत्, सः अधिकदिनं यावत् स्वपिरणीतां पुत्रीं कथं रक्षेत् ? सः पुत्रीम् अलीला-ग्रामं प्रतिपैषयत् । जीवनस्य कठोरकाले मातङ्गिन्याः आश्रयस्थानम् एव नासीत् । निःसहाया सा विपुत्रं (step son) न्यवेदयत् यत्, “केवलं मम भोजनस्य व्यवस्थां कुरु । अहं अन्यत् किमपि नेच्छामि” इति । तस्याः विपुत्रः तस्याः ज्येष्ठः आसीत् । सः मातङ्गिन्याः दुःखम् अन्वभवत् । अतः सः स्वस्य विमात्रे भोजनव्यवस्थाम् अकारयत् । अलीला-ग्रामे पत्युः प्रासदस्य समीपे मातङ्गिन्याः एकः कुटीरः आसीत् । विपुत्रः महेन्द्रः तस्यै समयानुसारं भोजनं प्रयच्छति स्म । पर्वदिनेषु तस्याः कृते वस्त्राणि अपि आनयति स्म । एवं अन्यस्य उपकाराधीना मातङ्गिनी स्वजीवनं यापयन्ती आसीत् । हृदि किमपि प्राप्तुम् अवगन्तुं वा ईप्सा एव नासीत् । “यदस्ति तदेव मम” इति भावयन्ती अन्यत् किमपि चिन्तनं सा न करोति स्म । पराधीना मातङ्गिनी अफीण-व्यसनं करोति स्म । अतः भोजनानन्तरम् अफीण इत्यस्य सेवनं कृत्वा सा गहनसमाधेः अवस्थायां दिनं यापयति स्म । अन्यस्य जनस्य, देशस्य च चिन्तनाय अवसर एव नासीत् । एतादृशी स्थितिः द्विचत्वारिंशत् (४२) वर्षाणि यावत् आसीत् । अर्थात् अष्टादशवर्षे विधवा जाता मातङ्गिनी षष्ठिवर्षीया अभवत् ।

जीवनपरिवर्तनम्[सम्पादयतु]

द्विचत्वारिंशत्वर्षाणि नित्यं सा भोजनं, व्यसनं, शयनं च करोति स्म । अन्यत् किमपि कार्यमेव नासीत् तस्याः । परन्तु भारतस्य क्रान्तिकारिप्रवृत्याः सहसा सम्बन्धः अभवत् तस्याः । १९३० तमे वर्षे महात्मना आभारते सविनयनियमभङ्गान्दोलनम् उद्घोषितम् आसीत् । आभारतं मण्डलेषु, नगरेषु, महानगरेषु, वीथीषु च सभाः, पदयात्राः च भवन्ति स्म ।

अलीला-ग्रामे आन्दोलनकर्तृभिः सभायै यत् स्थानं निश्चितं कृतम् आसीत्, तस्य समीपे एव मातङ्गिन्याः कुटीरम् आसीत् । विनेच्छया तया आन्दोलनकारिणां भाषणानि श्रोतव्यानि अभवन् । तस्याः कृते एतत् सर्वं नवीनप्रवृत्तिः आसीत् । अतः सा कौतूहलभावेन तेषां कार्याणि पश्यन्ती, भाषणानि शृण्वन्ती च आसीत् । सा यूनां क्रियाकलापं दृष्ट्वा चिन्तयन्ती आसीत् यत्, “एते कीदृशीं क्रीडां क्रीडन्तः सन्ति” इति । परन्तु आन्दोलनकार्यस्य वारं वारं परिचयेन तस्यां देशस्य परिस्थित्याः ज्ञानम् अभवत् । यूनां “वन्दे मातरम्”, “महात्मा शतं जीवेत्” इत्यादयः जयघोषाः तस्यां कौतूहलम् अवर्धत । शनैः शनैः अफीण-व्यसनं त्यक्त्वा सा भाषणं श्रोतुम् आरभत । भाषणस्य शब्दाः तस्याः हृदयं व्यदारयन् । सा अचिन्तयत्, “एते नवयुवानः यदि देशाय स्वप्राणाहुतिं दातुं प्रभवन्ति, तर्हि व्यर्थं जीवनं यापयन्ती अहं किमर्थं देशाय कार्यं कर्तुं न शक्नोमि ?” इति । परन्तु द्विचर्त्वारिंशद्वर्षाणि यस्याः जीवनं व्यसनादिभिः, दुःसङ्गैः च सह व्यतीतं, सा एतादृशं कठोरनिर्णयं झटिति कर्तुं कथं शक्नुयात् ? किंकर्तव्यमूढावस्थायां तस्याः वर्षद्वयं न्यर्गच्छत् ।

१९३२ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६/१/१९३२) दिनाङ्के तामलुक-उपमण्डस्य युवानः सर्वेषु ग्रामेषु पदयात्रायाः आयोजनम् अकुर्वन् । ग्रामं ग्रामं भ्रमन्ती सा पदयात्रा अलीला-ग्रामे सम्प्राप्ता । तस्यां पदयात्रायां यूभिः सह वृद्धाः अपि आसन् इति मातङ्गिनी अपश्यत् । खेदस्य विषयः आसीत् यत्, पदयात्रायाम् एकापि महिला नासीत्, केवलं पञ्च षड् वा बालिकाः एव आसन् । पदयात्रायाः तत् दृश्यं दृष्ट्वा मातङ्गिन्याः हृदि कीदृशाः भावाः स्युः इति तु मातङ्गिनी जानीयात् उत ईश्वरः । परन्तु सहसा सा पदयात्रायाः सम्मर्दे एकीभूता । पञ्च षड् वा कि.मी. यावत् पदयात्रा यदा अग्रे गता, तदा सर्वेषां मनसि द्विषष्ठिवर्षस्याः वृद्धायाः विषये कुतूहलम् उद्भूतम् – “कुतः, किमर्थम् एषा वृद्धा अस्माकं पदयात्रया सह सल्लग्ना” इति । पदयात्रायाः तद्दिवसः मातङ्गिन्याः जीवनपरिवर्तनस्य महान् दिवसः आसीत् ।

भारतीयस्वतन्त्रतान्दोलने योगदानम्[सम्पादयतु]

मातङ्गिनी निर्व्यसनजीवनं यापयन्ती आसीत् । अहिंसकान्दोलनेषु सा अविरतपरिश्रमं करोति स्म । ततः तया अनेकेषु स्थानेषु पदयात्राणां, सभानां च आयोजनं कृतम् । पदयात्रायां सभायां वा एतां वृद्धां दृष्ट्वा यूनां हृदयेऽपि देशभावनायाः स्फुरणं भवति स्म । लवणसत्याग्रहेऽपि मातङ्गिन्याः योगदानम् आसीत् । सा ग्रामं ग्रामम् अटन्ती जनजागृतिं करोति स्म । तस्याः पृष्ठे सहसा जनानां सम्मर्दः भवति स्म । आरक्षकाः यदा पदयात्रिणाम् उपरि दण्डप्रहारं कुर्वन्ति स्म, तदा ते वृद्धां मत्वा मातङ्गिनीं किमपि न कुर्वन्ति स्म । परन्तु मातङ्गिनी आरक्षकेभ्यः न बिभेति स्म । सा तु सर्वदा आङ्ग्लानां विरोधं कुर्वती आसीत् ।

एकदा सा आरक्षकाणां व्यूहं भेद्य तामलुक-उपमण्डलस्य न्यायालये कोङ्गेस-पक्षस्य ध्वजस्य आरोहणं कृतवती आसीत् । आरक्षकाणां यदा ज्ञानम् अभवत्, तदा ते तस्याः उपरि दण्डप्रहारम् अकुर्वन् । दण्डप्रहारेण सा मूर्छिता । मूर्छितावस्थायामपि सा “वन्दे मातरम्” उच्चस्वरेण वदन्ती आसीत् । ततः सर्वे ताम् औषधालयम् अनयन् । स्वस्थतां सम्प्राप्य सा पुनः स्वातन्त्र्यसङ्ग्रामे अयुजत् ।

वङ्गप्रदेशस्य गवर्नर् तामलुक-उपमण्डस्य निरीक्षां कर्तुं यदा अटन् आसीत्, तदैव सत्याग्रहिणः कृष्णध्वजं प्रदर्श्य तस्य विरोधम् अकुर्वन् । तेषु सत्याग्रहिषु मातङ्गिनी हाजरा अपि आसीत् । आरक्षकाः अन्यैः सह तामपि कारागारं प्रेषितवन्तः । सा प्रथमवारं कारागारं गता । कारगारे अन्यैः क्रान्तिकारिभिः सह तस्याः सम्पर्कः अभवत् । स्वतन्त्रतान्दोलनस्य विषये तस्याः ज्ञानम् अवर्धत । कारागारात् मातङ्गिनी यदा विमुक्ता, तदा तया ‘खादि’-वस्त्रधारणस्य प्रतिज्ञा कृता । तस्याः प्रतिज्ञायाः आजीवनं पालनम् अकरोत् सा । सा नित्यं तन्तुकरणयन्त्रं चालयति स्म । क्रान्तिकारिणः तां ‘वृद्धा गान्धी’ (बुढी गान्धी) कथयन्ति स्म ।

'भारत छोडो' आन्दोलनकाले मृत्युः[सम्पादयतु]

१९४२ तमे वर्षे महात्मना ‘भारत छोडो’-आन्दोलनस्य उद्घोषणा कृता आसीत् । तेन 'करेंगे या मरेंगे' वाक्यम् अपि प्रदत्तमासीत् । तस्य अनुकरणं कुर्वन्तः आभारतस्य क्रान्तिकारिणः 'भारत छोडो'-आन्दोलने भागम् अवहन् । तामलुक-उपमण्डलस्य क्रान्तिकारिभिः स्थानीय-आरक्षकालयस्योपरि आधिपत्यं स्थापयितुं निर्णयः कृतः । योजनानुसारं सर्वे क्रान्तिकारिणः आरक्षकालयं परितः सज्जाः अभवन् । परन्तु क्रान्तिकारिणां योजनाविषये आरक्षकाणां ज्ञाने सति ते क्रान्तिकारिणः दण्डयितुं सज्जाः अभवन् । अहिंसकानां क्रान्तिकारिणां सम्मुखं सशस्त्राः आरक्षकाः आसन् । अतः युवानः निश्चयम् अकुर्वन् यत्, “महिलाः, वृद्धाः, बालकाश्च पृष्ठभागे भवन्तु” इति । परन्तु अग्रे स्थिता मातङ्गिनी पृष्ठभागं गन्तुं निराकरोत् । सर्वेषाम् आग्रहेण सा पृष्ठभागम् अगच्छत् । सा अवदत्, “राष्ट्रध्वजः यदि अपमानास्पदस्थित्यां भविष्यति, तर्हि अहम् अग्रे आगत्य मम दायित्वं स्वीकरिष्ये” इति । तस्याः कथनं सर्वैः अङ्गीकृतम् ।

क्रान्तिकारिणः आरक्षकालयं प्रति अग्रे यदा गच्छन्तः आसन्, तदा आरक्षकाः अग्निशस्त्रेण (Gun) तेषाम् उपरि आक्रमणम् अकुर्वन् । गुलिकायाः (bullet) प्रहारात् भीताः जनाः इतस्ततः अधावन् । परन्तु पृष्ठे स्थिता मातङ्गिनी अग्रे आगता । सा उग्रस्वरेण अवदत्, “भोः क्रान्तिकारिणः ! मा बिभ्यतु । मीदरपुरस्य पुरुषाः न कस्मात् बिभेति” इति । मातङ्गिन्याः शब्दाः क्रान्तिकारिषु नवीनोर्जायाः सञ्चरणम् अकुर्वन् । मातङ्गिन्या सह “वन्दे मातरम्”-नादेन आरक्षकालयं प्रति यदा सर्वे अग्रे गताः, तदा आरक्षकाः “प्रतिगच्छन्तु” इति आदिशन् । परन्तु न केनापि तेषां कथनं श्रुतम् । अन्ततो गत्वा पुनः आरक्षकाः अग्निशस्त्रस्य उपयोगम् अकुर्वन् ।

आरक्षकैः चालिता प्रथमा गुलिका मातङ्गिन्याः चरणं व्यभेदयत् । ततः द्वितीयवारं गुलिकाद्वयं क्रमेण दक्षिणहस्तं, भुजं च व्यभेदयत् । तस्याः दक्षिणहस्ते यः राष्ट्रध्वजः आसीत्, तं वामहस्ते धृत्वा सा अग्रे अगच्छत् । अन्ते गुलिकाद्वयं वक्षस्स्थलं, ललाटं च व्यभेदयत् । मातङ्गिनी हाजरा मातृभूमेः कुक्षौ अपतत् । मातृभूमेः सेवायै स्वप्राणस्य आहुतिम् अयच्छत् सा ।

श्रद्धाञ्जली[सम्पादयतु]

भारतस्वतन्त्रतानन्तरं भ्रष्टाचार-निम्नमनोरञ्जन-अभद्रसाहित्यादीनां बाहुल्येन ज्ञायते यत्, स्वतन्त्रताक्रान्तिकारिणां कृते स्वल्प एव कृतज्ञतायाः भावः भारतवासिभिः प्रदर्शितः । भारतीयानाम् अधिकः समयः, अधिकं धनं, अधिका शक्तिः अनैतिककार्येषु, निम्नकार्येषु च गच्छति । विद्यार्थी विद्यार्थिकाले केवलं प्रमाणपत्रं प्राप्नोति । वृत्तिजीवी अधिकं धनं प्राप्तुम् अन्यस्य पादक्षालने रतः भवति । व्यापारी अन्यानां लुण्ठने स्वचातुर्यं मनुते (मानता है) । अशिष्टस्य चलच्चित्रस्य व्यासङ्गिनः (fond of), निम्नमानसिकतायाः स्वामिनः, अयोग्याः भारतीयाः, बलात्कारादिकार्यैः स्वेषाम्, अन्येषां च जीवनं नाशयन्ति । भारतीयमहिलाः पारिवारिक-कूटनीति-प्रदर्शकस्य धारावाहिकस्य पृष्ठे स्वसमयं, स्वचरित्रं च नाशयन्ति इति ।

उपरि उक्तसर्वेभ्यः मातङ्गिनी हाजरा पथदर्शिका अस्ति । द्विचत्वारिंशद्वर्षाणि अफीम इत्यस्य व्यसने निमज्जा आसीत् मातङ्गिनी हाजरा । द्विषष्ठिवयसि वृद्धावस्थायां देशभावनायाः दीपकं हृदि प्रज्वाल्य सा देशाय प्राणाहुतिम् अयच्छत् । तस्याः जीवनेन ज्ञायते यत् भारतीयानां वर्तमानसमस्यानां समाधानम् अपि भवितुम् अर्हति । मातङ्गिनीवत् तेऽपि स्वहृदि नैतिकतायाः, देशसेवायाः च दीपकं प्रजवाल्य भारतस्य रक्षणं कर्तुं प्रभवन्ति । भारतस्य अधःपतनाय कारणीभूतानि उपरि उक्तानि निम्नकार्याणि स्थगयित्वा एव वयं मातङ्गिनी हाजरा इत्यस्यै श्रद्धाञ्जलीं दातुं शक्नुमः ।

तामलुक-उपमण्डलस्य क्रान्तिकारिभिः सञ्चालिते ‘विप्लव’-नामके वर्तमानपत्रे मातङ्गिनीविषये एवं लिखितम् आसीत् -

Matangini led one procession from the north of the criminal court building; even after the firing commenced, she continued to advance with the tri-colour flag, leaving all the volunteers behind. The police shot her three times. She continued marching despite wounds to the forehead and both hands.

सम्बद्धाः लेखाः[सम्पादयतु]

भारतीयस्वतन्त्रतान्दोलनम्

भारत छोडो

महात्मा गान्धी

बाह्यानुबन्धाः[सम्पादयतु]

http://www.midnapore.in/freedomfighters/matangini_hazra.html

http://www.streeshakti.com/bookM.aspx?author=14

http://purbamedinipur.gov.in/photo-gallary-NEW.htm

http://indianhistoryliterature.blogspot.in/2012/08/role-of-matangini-hazra-and-kasturba.html

http://www.preservearticles.com/201104225773/biography-of-matangini-hajra.html

"https://sa.wikipedia.org/w/index.php?title=मातङ्गिनी_हाजरा&oldid=421670" इत्यस्माद् पुनः प्राप्तिः