मातङ्गिनी हाजरा
Matangini Hazra मातङ्गिनी हाजरा | |
---|---|
भारतस्य वीरवृद्धा | |
जन्म |
१८७० मीदनापुरमण्डलं, वङ्गप्रदेशः |
मृत्युः |
१९४२ मीदनापुरमण्डलं, वङ्गप्रदेशः |
वृत्तिः | Activist, क्रांतिकारी, स्वतंत्रता सेनानी |
कृते प्रसिद्धः | भारमात्रे प्राणाहुतिं दत्तवती क्रान्तिकारिणी |
मातङ्गिनी हाजरा ( ( शृणु) /ˈmɑːtənɡiːniː hɑːjərɑː/) (वङ्ग: মাতঙ্গিনী হাজরা, हिन्दी: मातङ्गिनी हाजरा) भारतमात्रे प्राणाहुतिं दत्तवतीषु क्रान्तिकारिमहिलासु अन्यतमा । मातङ्गिनी हाजरा वङ्गप्रदेशीया आसीत् । पराधीने भारते वङ्गप्रदेशः क्रान्तिकारिणां राजधानीत्वेन परिगण्यते स्म । अतः तत्र आन्दोल-सभा-गुप्तगोष्ठीत्यादीनां दृश्यानि सामान्यानि आसन् । वङ्गप्रदेशस्य क्रान्तिकारिणां मुख्यस्थानत्वात् तत्रत्याः प्रजाः साक्षात् परोक्षरीत्या वा स्वतन्त्रतासङ्ग्रामे सल्लग्नाः आसन् । मातङ्गिनी हाजरा इत्यस्याः जीवनम् अस्य प्रत्यक्षोदाहरणमस्ति ।
जन्म, परिवारश्च
[सम्पादयतु]१८७० तमे वर्षे वङ्गप्रदेशस्य मीदनापुरमण्डलस्य तामलुक-उपमण्डलस्य होगला-ग्रामे मातङ्गिन्याः जन्म अभवत् । तस्याः पिता ठाकुरदास मैति कृषकः आसीत् । ठाकुरदास दरिद्रः आसीत् । अतः धनोपार्जनार्थं सः स्वपुत्र्याः विक्रयणम् अकरोत् । धनस्य लीप्सया सः मातङ्गिन्याः बालविवाहम् अलीला-ग्रामवासिना षष्ठिवर्षीयेण वृद्धेन सह अकारयत् । तस्य वृद्धस्य नाम त्रिलोचन हाजरा आसीत् । मातङ्गिनी यदा अष्टादशवर्षीया अभवत्, तदा सा विधवा अभवत् ।
जीवनम्
[सम्पादयतु]अष्टादशवर्षस्य आयुः विवाहाय न्यूनातिन्यूनम् आयुः इति अधुना वयं जानीमः । परन्तु सा अष्टादशवर्षस्य वयसि विधवा अभवत् । तस्याः सन्ततिः अपि नासीत् । अतः सा स्वपितृगृहं प्रत्यगच्छत् । यः पिता पुत्र्याः विक्रयणम् अकरोत्, सः अधिकदिनं यावत् स्वपिरणीतां पुत्रीं कथं रक्षेत् ? सः पुत्रीम् अलीला-ग्रामं प्रतिपैषयत् । जीवनस्य कठोरकाले मातङ्गिन्याः आश्रयस्थानम् एव नासीत् । निःसहाया सा विपुत्रं (step son) न्यवेदयत् यत्, “केवलं मम भोजनस्य व्यवस्थां कुरु । अहं अन्यत् किमपि नेच्छामि” इति । तस्याः विपुत्रः तस्याः ज्येष्ठः आसीत् । सः मातङ्गिन्याः दुःखम् अन्वभवत् । अतः सः स्वस्य विमात्रे भोजनव्यवस्थाम् अकारयत् । अलीला-ग्रामे पत्युः प्रासदस्य समीपे मातङ्गिन्याः एकः कुटीरः आसीत् । विपुत्रः महेन्द्रः तस्यै समयानुसारं भोजनं प्रयच्छति स्म । पर्वदिनेषु तस्याः कृते वस्त्राणि अपि आनयति स्म । एवं अन्यस्य उपकाराधीना मातङ्गिनी स्वजीवनं यापयन्ती आसीत् । हृदि किमपि प्राप्तुम् अवगन्तुं वा ईप्सा एव नासीत् । “यदस्ति तदेव मम” इति भावयन्ती अन्यत् किमपि चिन्तनं सा न करोति स्म । पराधीना मातङ्गिनी अफीण-व्यसनं करोति स्म । अतः भोजनानन्तरम् अफीण इत्यस्य सेवनं कृत्वा सा गहनसमाधेः अवस्थायां दिनं यापयति स्म । अन्यस्य जनस्य, देशस्य च चिन्तनाय अवसर एव नासीत् । एतादृशी स्थितिः द्विचत्वारिंशत् (४२) वर्षाणि यावत् आसीत् । अर्थात् अष्टादशवर्षे विधवा जाता मातङ्गिनी षष्ठिवर्षीया अभवत् ।
जीवनपरिवर्तनम्
[सम्पादयतु]द्विचत्वारिंशत्वर्षाणि नित्यं सा भोजनं, व्यसनं, शयनं च करोति स्म । अन्यत् किमपि कार्यमेव नासीत् तस्याः । परन्तु भारतस्य क्रान्तिकारिप्रवृत्याः सहसा सम्बन्धः अभवत् तस्याः । १९३० तमे वर्षे महात्मना आभारते सविनयनियमभङ्गान्दोलनम् उद्घोषितम् आसीत् । आभारतं मण्डलेषु, नगरेषु, महानगरेषु, वीथीषु च सभाः, पदयात्राः च भवन्ति स्म ।
अलीला-ग्रामे आन्दोलनकर्तृभिः सभायै यत् स्थानं निश्चितं कृतम् आसीत्, तस्य समीपे एव मातङ्गिन्याः कुटीरम् आसीत् । विनेच्छया तया आन्दोलनकारिणां भाषणानि श्रोतव्यानि अभवन् । तस्याः कृते एतत् सर्वं नवीनप्रवृत्तिः आसीत् । अतः सा कौतूहलभावेन तेषां कार्याणि पश्यन्ती, भाषणानि शृण्वन्ती च आसीत् । सा यूनां क्रियाकलापं दृष्ट्वा चिन्तयन्ती आसीत् यत्, “एते कीदृशीं क्रीडां क्रीडन्तः सन्ति” इति । परन्तु आन्दोलनकार्यस्य वारं वारं परिचयेन तस्यां देशस्य परिस्थित्याः ज्ञानम् अभवत् । यूनां “वन्दे मातरम्”, “महात्मा शतं जीवेत्” इत्यादयः जयघोषाः तस्यां कौतूहलम् अवर्धत । शनैः शनैः अफीण-व्यसनं त्यक्त्वा सा भाषणं श्रोतुम् आरभत । भाषणस्य शब्दाः तस्याः हृदयं व्यदारयन् । सा अचिन्तयत्, “एते नवयुवानः यदि देशाय स्वप्राणाहुतिं दातुं प्रभवन्ति, तर्हि व्यर्थं जीवनं यापयन्ती अहं किमर्थं देशाय कार्यं कर्तुं न शक्नोमि ?” इति । परन्तु द्विचर्त्वारिंशद्वर्षाणि यस्याः जीवनं व्यसनादिभिः, दुःसङ्गैः च सह व्यतीतं, सा एतादृशं कठोरनिर्णयं झटिति कर्तुं कथं शक्नुयात् ? किंकर्तव्यमूढावस्थायां तस्याः वर्षद्वयं न्यर्गच्छत् ।
१९३२ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६/१/१९३२) दिनाङ्के तामलुक-उपमण्डस्य युवानः सर्वेषु ग्रामेषु पदयात्रायाः आयोजनम् अकुर्वन् । ग्रामं ग्रामं भ्रमन्ती सा पदयात्रा अलीला-ग्रामे सम्प्राप्ता । तस्यां पदयात्रायां यूभिः सह वृद्धाः अपि आसन् इति मातङ्गिनी अपश्यत् । खेदस्य विषयः आसीत् यत्, पदयात्रायाम् एकापि महिला नासीत्, केवलं पञ्च षड् वा बालिकाः एव आसन् । पदयात्रायाः तत् दृश्यं दृष्ट्वा मातङ्गिन्याः हृदि कीदृशाः भावाः स्युः इति तु मातङ्गिनी जानीयात् उत ईश्वरः । परन्तु सहसा सा पदयात्रायाः सम्मर्दे एकीभूता । पञ्च षड् वा कि.मी. यावत् पदयात्रा यदा अग्रे गता, तदा सर्वेषां मनसि द्विषष्ठिवर्षस्याः वृद्धायाः विषये कुतूहलम् उद्भूतम् – “कुतः, किमर्थम् एषा वृद्धा अस्माकं पदयात्रया सह सल्लग्ना” इति । पदयात्रायाः तद्दिवसः मातङ्गिन्याः जीवनपरिवर्तनस्य महान् दिवसः आसीत् ।
भारतीयस्वतन्त्रतान्दोलने योगदानम्
[सम्पादयतु]मातङ्गिनी निर्व्यसनजीवनं यापयन्ती आसीत् । अहिंसकान्दोलनेषु सा अविरतपरिश्रमं करोति स्म । ततः तया अनेकेषु स्थानेषु पदयात्राणां, सभानां च आयोजनं कृतम् । पदयात्रायां सभायां वा एतां वृद्धां दृष्ट्वा यूनां हृदयेऽपि देशभावनायाः स्फुरणं भवति स्म । लवणसत्याग्रहेऽपि मातङ्गिन्याः योगदानम् आसीत् । सा ग्रामं ग्रामम् अटन्ती जनजागृतिं करोति स्म । तस्याः पृष्ठे सहसा जनानां सम्मर्दः भवति स्म । आरक्षकाः यदा पदयात्रिणाम् उपरि दण्डप्रहारं कुर्वन्ति स्म, तदा ते वृद्धां मत्वा मातङ्गिनीं किमपि न कुर्वन्ति स्म । परन्तु मातङ्गिनी आरक्षकेभ्यः न बिभेति स्म । सा तु सर्वदा आङ्ग्लानां विरोधं कुर्वती आसीत् ।
एकदा सा आरक्षकाणां व्यूहं भेद्य तामलुक-उपमण्डलस्य न्यायालये कोङ्गेस-पक्षस्य ध्वजस्य आरोहणं कृतवती आसीत् । आरक्षकाणां यदा ज्ञानम् अभवत्, तदा ते तस्याः उपरि दण्डप्रहारम् अकुर्वन् । दण्डप्रहारेण सा मूर्छिता । मूर्छितावस्थायामपि सा “वन्दे मातरम्” उच्चस्वरेण वदन्ती आसीत् । ततः सर्वे ताम् औषधालयम् अनयन् । स्वस्थतां सम्प्राप्य सा पुनः स्वातन्त्र्यसङ्ग्रामे अयुजत् ।
वङ्गप्रदेशस्य गवर्नर् तामलुक-उपमण्डस्य निरीक्षां कर्तुं यदा अटन् आसीत्, तदैव सत्याग्रहिणः कृष्णध्वजं प्रदर्श्य तस्य विरोधम् अकुर्वन् । तेषु सत्याग्रहिषु मातङ्गिनी हाजरा अपि आसीत् । आरक्षकाः अन्यैः सह तामपि कारागारं प्रेषितवन्तः । सा प्रथमवारं कारागारं गता । कारगारे अन्यैः क्रान्तिकारिभिः सह तस्याः सम्पर्कः अभवत् । स्वतन्त्रतान्दोलनस्य विषये तस्याः ज्ञानम् अवर्धत । कारागारात् मातङ्गिनी यदा विमुक्ता, तदा तया ‘खादि’-वस्त्रधारणस्य प्रतिज्ञा कृता । तस्याः प्रतिज्ञायाः आजीवनं पालनम् अकरोत् सा । सा नित्यं तन्तुकरणयन्त्रं चालयति स्म । क्रान्तिकारिणः तां ‘वृद्धा गान्धी’ (बुढी गान्धी) कथयन्ति स्म ।
१९४२ तमे वर्षे महात्मना ‘भारत छोडो’-आन्दोलनस्य उद्घोषणा कृता आसीत् । तेन 'करेंगे या मरेंगे' वाक्यम् अपि प्रदत्तमासीत् । तस्य अनुकरणं कुर्वन्तः आभारतस्य क्रान्तिकारिणः 'भारत छोडो'-आन्दोलने भागम् अवहन् । तामलुक-उपमण्डलस्य क्रान्तिकारिभिः स्थानीय-आरक्षकालयस्योपरि आधिपत्यं स्थापयितुं निर्णयः कृतः । योजनानुसारं सर्वे क्रान्तिकारिणः आरक्षकालयं परितः सज्जाः अभवन् । परन्तु क्रान्तिकारिणां योजनाविषये आरक्षकाणां ज्ञाने सति ते क्रान्तिकारिणः दण्डयितुं सज्जाः अभवन् । अहिंसकानां क्रान्तिकारिणां सम्मुखं सशस्त्राः आरक्षकाः आसन् । अतः युवानः निश्चयम् अकुर्वन् यत्, “महिलाः, वृद्धाः, बालकाश्च पृष्ठभागे भवन्तु” इति । परन्तु अग्रे स्थिता मातङ्गिनी पृष्ठभागं गन्तुं निराकरोत् । सर्वेषाम् आग्रहेण सा पृष्ठभागम् अगच्छत् । सा अवदत्, “राष्ट्रध्वजः यदि अपमानास्पदस्थित्यां भविष्यति, तर्हि अहम् अग्रे आगत्य मम दायित्वं स्वीकरिष्ये” इति । तस्याः कथनं सर्वैः अङ्गीकृतम् ।
क्रान्तिकारिणः आरक्षकालयं प्रति अग्रे यदा गच्छन्तः आसन्, तदा आरक्षकाः अग्निशस्त्रेण (Gun) तेषाम् उपरि आक्रमणम् अकुर्वन् । गुलिकायाः (bullet) प्रहारात् भीताः जनाः इतस्ततः अधावन् । परन्तु पृष्ठे स्थिता मातङ्गिनी अग्रे आगता । सा उग्रस्वरेण अवदत्, “भोः क्रान्तिकारिणः ! मा बिभ्यतु । मीदरपुरस्य पुरुषाः न कस्मात् बिभेति” इति । मातङ्गिन्याः शब्दाः क्रान्तिकारिषु नवीनोर्जायाः सञ्चरणम् अकुर्वन् । मातङ्गिन्या सह “वन्दे मातरम्”-नादेन आरक्षकालयं प्रति यदा सर्वे अग्रे गताः, तदा आरक्षकाः “प्रतिगच्छन्तु” इति आदिशन् । परन्तु न केनापि तेषां कथनं श्रुतम् । अन्ततो गत्वा पुनः आरक्षकाः अग्निशस्त्रस्य उपयोगम् अकुर्वन् ।
आरक्षकैः चालिता प्रथमा गुलिका मातङ्गिन्याः चरणं व्यभेदयत् । ततः द्वितीयवारं गुलिकाद्वयं क्रमेण दक्षिणहस्तं, भुजं च व्यभेदयत् । तस्याः दक्षिणहस्ते यः राष्ट्रध्वजः आसीत्, तं वामहस्ते धृत्वा सा अग्रे अगच्छत् । अन्ते गुलिकाद्वयं वक्षस्स्थलं, ललाटं च व्यभेदयत् । मातङ्गिनी हाजरा मातृभूमेः कुक्षौ अपतत् । मातृभूमेः सेवायै स्वप्राणस्य आहुतिम् अयच्छत् सा ।
श्रद्धाञ्जली
[सम्पादयतु]भारतस्वतन्त्रतानन्तरं भ्रष्टाचार-निम्नमनोरञ्जन-अभद्रसाहित्यादीनां बाहुल्येन ज्ञायते यत्, स्वतन्त्रताक्रान्तिकारिणां कृते स्वल्प एव कृतज्ञतायाः भावः भारतवासिभिः प्रदर्शितः । भारतीयानाम् अधिकः समयः, अधिकं धनं, अधिका शक्तिः अनैतिककार्येषु, निम्नकार्येषु च गच्छति । विद्यार्थी विद्यार्थिकाले केवलं प्रमाणपत्रं प्राप्नोति । वृत्तिजीवी अधिकं धनं प्राप्तुम् अन्यस्य पादक्षालने रतः भवति । व्यापारी अन्यानां लुण्ठने स्वचातुर्यं मनुते (मानता है) । अशिष्टस्य चलच्चित्रस्य व्यासङ्गिनः (fond of), निम्नमानसिकतायाः स्वामिनः, अयोग्याः भारतीयाः, बलात्कारादिकार्यैः स्वेषाम्, अन्येषां च जीवनं नाशयन्ति । भारतीयमहिलाः पारिवारिक-कूटनीति-प्रदर्शकस्य धारावाहिकस्य पृष्ठे स्वसमयं, स्वचरित्रं च नाशयन्ति इति ।
उपरि उक्तसर्वेभ्यः मातङ्गिनी हाजरा पथदर्शिका अस्ति । द्विचत्वारिंशद्वर्षाणि अफीम इत्यस्य व्यसने निमज्जा आसीत् मातङ्गिनी हाजरा । द्विषष्ठिवयसि वृद्धावस्थायां देशभावनायाः दीपकं हृदि प्रज्वाल्य सा देशाय प्राणाहुतिम् अयच्छत् । तस्याः जीवनेन ज्ञायते यत् भारतीयानां वर्तमानसमस्यानां समाधानम् अपि भवितुम् अर्हति । मातङ्गिनीवत् तेऽपि स्वहृदि नैतिकतायाः, देशसेवायाः च दीपकं प्रजवाल्य भारतस्य रक्षणं कर्तुं प्रभवन्ति । भारतस्य अधःपतनाय कारणीभूतानि उपरि उक्तानि निम्नकार्याणि स्थगयित्वा एव वयं मातङ्गिनी हाजरा इत्यस्यै श्रद्धाञ्जलीं दातुं शक्नुमः ।
तामलुक-उपमण्डलस्य क्रान्तिकारिभिः सञ्चालिते ‘विप्लव’-नामके वर्तमानपत्रे मातङ्गिनीविषये एवं लिखितम् आसीत् -
“ | Matangini led one procession from the north of the criminal court building; even after the firing commenced, she continued to advance with the tri-colour flag, leaving all the volunteers behind. The police shot her three times. She continued marching despite wounds to the forehead and both hands. | ” |
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यानुबन्धाः
[सम्पादयतु]http://www.midnapore.in/freedomfighters/matangini_hazra.html
http://www.streeshakti.com/bookM.aspx?author=14
http://purbamedinipur.gov.in/photo-gallary-NEW.htm
http://indianhistoryliterature.blogspot.in/2012/08/role-of-matangini-hazra-and-kasturba.html
http://www.preservearticles.com/201104225773/biography-of-matangini-hajra.html Archived २०१४-०३-११ at the Wayback Machine