मार्सेलो माल्पीगिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Opera omnia, 1687

(कालः – १०. ०३. १६२८ तः ३०. ११. १६९४)

अयं मार्सेलो माल्पीगिः (Marcello Malpighi) कश्चन जीविनाम् अन्तररचनायाः विवरणकर्ता । वस्तुतः एषः एव "सूक्ष्मदर्शकयन्त्रस्य" जनकः । तत् सूक्ष्मदर्शकयन्त्रं १७ शतकस्य मध्यभागे वैज्ञानिकानां संशोधनकार्ये उपयुक्तम् । अयं मार्सेलो माल्पीगिः इटलीप्रदेशीयः । सः १६२८ तमे वर्षे मार्च् मासस्य १० दिनाङ्के जन्म प्राप्नोत् । वैद्यपदव्याः प्राप्तेः अनन्तरम् इटलीदेशे विभिन्नेषु विश्वविद्यालयेषु शिक्षकवृत्तिम् अकरोत् । १६९१ तमे वर्षे शिक्षकवृत्तितः निवृत्तिं प्राप्य १२ तमस्य पोपस्य (पोपः इत्युक्ते क्रिश्चियन्–मतस्य धर्मगुरुः) इनोसेण्टस्य वैयक्तिकवैद्यरूपेण नियुक्तः । एषः मार्सेलो माल्पीगिः १६५० तमे वर्षे एव मण्डूकस्य श्वासकोशस्य परीक्षणं सूक्ष्मदर्शकयन्त्रद्वारा अकरोत् । ततः आरभ्य सूक्ष्मदर्शकस्य आरम्भम् अभ्यासं च अकरोत् अपि । १६६० तमे वर्षे "रक्तं श्वासकोशम् आवृतानां लोमनाडीनां जाले प्रवहति" इति यत् संशोधितवान् तदेव तस्य जीवनस्य प्रमुखं संशोधनम् । एतत् संशोधनं श्वासोच्छ्वासस्य विवरणे प्रमुखं पदम् अभवत् । "वायुः श्वासकोशाणां कृशाणां जवनिकासदृशाणां निर्मोकानां द्वारा रक्तेन योजितः भवति । तथा रक्तेन योजितः वायुः (आम्लजनकसहितः) रक्तेन सह एव शरीरस्य सर्वम् अपि अङ्गं प्रति गच्छति" इत्येतत् अपि अस्य मार्सेलो माल्पीगेः एव संशोधनम् ।


अनेन मार्सेलो माल्पीगिना संशोधिताः अतिसूक्ष्माः रक्तनाड्यः (कोशसदृश्यः) "क्यापिलरि” इति उच्यन्ते । ताः रक्तनाड्यः (लोमनाड्यः वा) एव शुद्धरक्तनाड्याः शाखाः अतिसूक्ष्माभिः मलिनरक्तनाडीभिः सह योजयन्ति इत्यपि अयं मार्सेलो माल्पीगिः संशोधितवान् । एतत् संशोधनं पूर्वं विलियं हार्वे इत्यनेन रक्तपरिचलनस्य क्रमस्य विषये कृतस्य संशोधनस्य लोपं न्यवारयत् । तदनन्तरम् अयं मार्सेलो माल्पीगिः कुक्कुटस्य भ्रूणस्य, अन्येषां कीटानां च परीक्षणम् अकरोत् । कौशेयकीटस्य अङ्गानां विषये अध्ययनं कृत्वा पुस्तकम् अपि अलिखत् । जगति अकशेरुकाणां विषये लिखितं प्रथमं पुस्तकं तत् । प्राथमिकस्तरस्य कुक्कुटशावके श्वासोच्छ्वासार्थं मीनस्य इव विशिष्टस्य अङ्गस्य प्राथमिकस्तरस्य अङ्गं किञ्चित् भवति इत्यपि संशोधितवान् । एतत् संशोधनं पक्षिवर्गः मीनवर्गतः एव विकसितः इत्यस्य पुष्टिम् अयच्छत् । तैलपसदृशाः लघुकीटाः अतिसूक्ष्मेण रन्ध्रेण श्वासोच्छ्वासं कुर्वन्ति । सस्यस्य काण्डेषु अपि श्वासोच्छ्वासार्थं रन्ध्राणि भवन्ति । पर्णानाम् अधोभागे सूक्ष्माणि पत्ररन्ध्राणि भवन्ति । इत्यादयः विषयाः अनेन मार्सेलो माल्पीगिना एव संशोधिताः । अनेन कृतानि संशोधनानि जीविनां विषये नूतनायाः दृष्ट्याः एव उदयस्य कारणानि अभवन् । एषः १६९४ तमे वर्षे नवेम्बर् मासस्य ३० तमे दिनाङ्के इहलोकम् अत्यजत् ।

"

"https://sa.wikipedia.org/w/index.php?title=मार्सेलो_माल्पीगिः&oldid=353195" इत्यस्माद् प्रतिप्राप्तम्