माहेश्वरसूत्राणि
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्त्तुकामः सनकादिसिद्धान्नेतद्विमर्शे शिवसूत्रजालम्॥
महेश्वरस्य ढक्कायाः चतुर्दशनादाः उद्भूताः। ते एव संस्कृतभाषायाः अक्षराणि। एतानि एव माहेश्वरसूत्राणि इति पाणिनिः स्वस्य अष्टाध्यायीग्रन्थे उल्लिखितवान् अस्ति ।
चतुर्दश माहेश्वरसूत्राणि
[सम्पादयतु]अइउण्
ऋऌक्
एओङ्
ऐऔच्
हयवरट्
लण्
ञमङणनम्
झभञ्
घढधष्
जबगडदश्
खफछठथचटतव्
कपय्
शषसर्
हल्
इति माहेश्वराणि सूत्राणि।
प्रत्याहारः
[सम्पादयतु]एतेषु चतुर्दशसु अपि सूत्रेषु अन्ते स्वररहितं व्यञ्जनं श्रूयते । एतेन अन्तिमवर्णेन सह आदिमः वर्णः यदि उच्चार्यते तर्हि तदन्तिमवर्णं विहाय अन्ये सर्वे वर्णाः सङ्गृहीताः भवन्ति । यथा - अ इ उ ण् इति सूत्रस्थस्य अकारस्य ऐ औ च् इति सूत्रस्थेन चकारेण सह उच्चारणे अच् इति शब्दः निष्पाद्यते । एतेन अ इ उ ऋ ऌ ए ओ ऐ औ इति वर्णाः सङ्गृहीताः भवन्ति । एवं निष्पन्नः अच् इत्यादिः शब्दः प्रत्याहारः इति व्याकरणे प्रसिद्धः। "आदिरन्त्येन सहेता" इत्यनेन सूत्रेण प्रत्याहारशब्दस्य बोध: जायते । चतुर्दशसूत्रै: अनेकेषां प्रत्याहाराणाम् उत्पत्तिर्भवति । प्रत्याहाराणाम् आधारेणैव सम्पूर्णं व्याकरणं रचितम् ।
केचन प्रत्याहाराः
[सम्पादयतु]- अक् - अ इ उ ऋ ऌ
- यण् - य् व् र् ल्
- अच् - सर्वे स्वराः
- हल् - सर्वाणि व्यञ्जनानि
प्रत्याहाराणां नियमाः
[सम्पादयतु]- प्रत्याहारेण सूत्रान्ते वर्तमानस्य वर्णस्य ग्रहणं न भवति ।
- आदिमः वर्णः इत्यस्य सूत्रे आदौ एव वर्तमानः वर्णः इति नार्थः । किन्तु कस्मिंश्चित् कल्पिते समूहे आदौ वर्तमानो वर्णः इत्यर्थः । एतेन इक् वल् इत्यादयोऽपि प्रत्याहाराः सिद्ध्यन्ति ।
- प्रत्याहारेण यदि स्वराणां ग्रहणं तर्हि तैः सह दीर्घाणामपि ग्रहणं भवति ।
- प्रत्याहारेण यदि व्यञ्जनानां ग्रहणं तर्हि तत्र पुनः पुनः श्रूयमाणः अकारः न ग्राह्यः ।
प्रत्याहाराणां संख्या
[सम्पादयतु]एतैः चतुर्दशभिः माहेश्वरसूत्रैः आहत्य २८१ प्रत्याहाराः कर्तुं शक्याः : १४*३ + १३*२ + १२*२ + ११*२ + १०*४ + ९*१ + ८*५ + ७*२ + ६*३ + ५*५ + ४*८ + ३*२ + २*३ + १*१ - १४ (पाणिनिः एकाक्षरयुकतं प्रत्याहारं नाङ्गीकरोति)-१०(हकारद्वयं वर्तते इत्यतः १० कृत्रिमप्रत्याहाराः भवन्ति) । किन्तु पाणिनिना ४१ प्रत्याहाराः एव उपयुक्ताः सन्ति ।