मुरारिः
कुट्टियटम् |
---|
मुरारिपदचिन्ता चेत्तदा माघे रतिङ्कुरु ।
मुरारिपदचिन्ता चेत्तदा माघे रतिङ्कुरु ॥
मुरारिपदचिन्तायां भवभूतेस्तु का कथा ।
भवभूतिमनादृत्य मुरारिमुररीकुरु ॥
इत्यादिना प्रशंसितपाण्डित्यस्य मुरारेः (Murari) कः काल इति विचारे प्रस्तुते –
- (क) भवभूतेः पद्यद्वयस्योध्दरणात्ततोऽर्वाचीनो मुरारिः
(ख) काश्मीरनृपस्यावन्तिवर्मणः (८५५-८८४) काले वर्तमानः तत्कृपोपजीवो च हरविजयकर्त्ता रत्नाकरः – ‘अङ्कोत्थनाटक इवोत्तमनायकस्य नाशं कविर्व्यधित यस्य मुरारिरित्थम्’ इत्यादिनो मुरारिं स्मृतवानिति ततोऽयं प्राचीनः । ११३५ ख्रीष्टाब्दे वर्त्तमानोऽथ श्रीकण्ठचरितरचयिता मङ्खः मुरारिं राजशेखरात् प्राचीनं मन्यते । इदं सर्वं विचार्य ख्रीष्टनवमशतकपूर्वार्ध्दे मुरारिरजायतेति प्रतीयते । मुरारिपाण्डित्यम्
संस्कृतकविषु मुरारेर्महती प्रतिष्ठा विद्यते । भाषाप्रौढिव्याकरणपाटवं चास्य विपश्चितो रञ्जयति । स हि बालवाल्मीकिर्महाकविश्चाख्यायते । तस्य प्रशंसा न केवलमितरैः कृताऽपि तु स स्वयमप्याह –
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः।
अब्धिर्लङ्घित एव वानरभटैः किन्त्वस्य गम्भीरता –
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः॥
अस्य रचनायामतिशयोक्तेः प्राचुर्य दृश्यते । असत्यामपि उपमाचमत्कृतौ सत्यामपि क्लिष्टतायां बन्धदाढर्येन सङ्गीतकृतमाधुर्येण चास्य कवित्वं रमणीयशैलीसम्पन्नं मन्वते ।