मुळिय तिम्मप्पय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्नड कोगिले पत्रिका

परिचयः[सम्पादयतु]

तिम्मप्पय्यः (Muliya Timmapayya) मूलतः दक्षिणकन्नडमण्डलस्य मुलियग्रामे अत्यन्तं निर्धनकुटुम्बे जन्म अभवत् । एतस्य जन्मदिनाङकः १८८८ तमस्य वर्षस्य मार्च्-मासस्य ३ दिनाङ्कः । पिता केशवभट्टः, माता मूकाम्बिका च ।
अयं संस्कृतं सङ्गीतं च अधीतवान् । किन्तु वृत्त्या कन्नड-अध्यापकः । मङगलूरुनगरे विद्यमानायां केनराप्रौढशालायां १९११ तः १९४८ तमवर्षपर्यन्तं सेवां कृत्वा निवृत्तः जातः ।

कन्नडसेवा[सम्पादयतु]

एषः प्रमुखतया संशोधकः, विमर्शकः, पत्रकारः च सन् कन्नडामातुः सेवां कृतवान् । कन्नड कोगिलेइत्येतस्याः साप्ताहिकपत्रिकायाः सम्पादकः एषः कविः । आण्डय्यस्य कब्बिगर काव्य इत्येतस्मिन् काव्ये ऐतिहासिकान् अंशान् प्रकाशितवान् । तथा कन्नडस्य प्राचीनकृतिषु विद्यमानं स्वादं कर्णाटकीयेभ्यः परिचायितवान् । १९३१तमे वर्षे कारवारनगरे प्रचलिते सप्तदशे कन्नडसाहित्यसम्मेलने अध्यक्षपीठम् अलङ्कृतवान् आसीत् । एषः १९५० तमस्य वर्षस्य जनवरिमासस्य १६ दिनाङ्के दिवङगतः जातः ।

रचिताः कृतयः[सम्पादयतु]

चन्द्रावलि विलास इत्येषा १९१३तमे वर्षे तिम्मप्पय्येन प्रकाशिता पुरातनकन्नडस्य गद्यकृतिः । १९३८ तमे वर्षे प्रकाशिता नाडोज पम्पा एतस्य मेरुकृतिः वर्तते । मुलिय तिम्मप्पय्यस्य अन्य कृतयः 'नडतेय नाडु' (१९१७), 'सोबगिन बल्लि' ( १९१७), 'बड हुडुगि' (१९१८ ), 'हगलिरुलु' (१९१८) , 'पश्चात्ताप' (१९३४), 'आदि पूराण संग्रह' (१९३८ ), 'त्रिपुर दाह' (१९४१) , 'समस्त भारत सार' (१९४१), 'पार्ति सुब्ब' (१९४६) इत्यादयः

"https://sa.wikipedia.org/w/index.php?title=मुळिय_तिम्मप्पय्य&oldid=391648" इत्यस्माद् प्रतिप्राप्तम्