मूषकम्
मूषकं तु सङ्गणकेषु प्रयुक्तं किञ्चित् निर्देशनोपकरणम्। एतस्य कार्यसिद्धान्तं तु आधारतले द्विविेमयोः गतिं ज्ञात्वा तदनुसारेण क्रिया इति अस्ति। व्यवहारे तु मूषकं इत्येतत् एकं वस्तु यत्तु प्रयोक्त्रा हस्तस्याधः धार्यते, अस्मिन् च एकम् एकाधिकानि वा गण्डानि भवन्ति।
कदाचिच्च मूषकोपकरणे अन्यान्यपि अङ्गानि भवन्ति, तद्यथा चक्राणीति। येन प्रयोक्त्रा तन्त्रम् आधृत्य नैकानि कार्याणि कर्तुं शक्यन्ते। येन अधिकं नियन्त्रणं विमीयनिवेशनं च सम्भवति। प्रायेण मूषकस्य कार्येण सङ्गणकपटले एकस्य निर्देशकाकृत्याः गमनं भवति, येन हि ग्राफिकल्-यूसर्-इन्टरफेस् इत्यस्य सूक्ष्मतया नियन्त्रणं सम्भवति।
नामकरणम्
[सम्पादयतु]संस्कृते एतस्य नाम तु आङ्ग्लानुसारी। आङ्ग्लभाषायां च माउस् इति पदस्य एतदर्थे प्रयोगः ऐदम्प्राथम्येन बिल्-इङ्ग्लिश् इत्यस्य 1965 इत्यस्य प्रकाशने कम्प्यूटर-ऍडेड्-डिस्प्ले-कन्ट्रोल् इत्यस्मिन्नभवत्।[१]
संस्कृतभाषायां श्रीकान्तजमदग्निसङ्कलिते आङ्ग्लसंस्कृतसङ्गणकशब्दकोशे एतस्य पदस्य प्रयोगः 'मूषकम्' इति रूपेण दृश्यते।[२]
प्रकाराः
[सम्पादयतु]यान्त्रिकमूषकानि
[सम्पादयतु]कन्दुकमूषकस्य आगमनेन प्राक्तनानां मूषकानां बाह्यचक्राणां स्थाने एकलं कन्दुकम् आगतम्, यस्य घूर्णनं कस्यामपि दिशि शक्यम्। एतस्य त्वागमनं सेराक्स-अल्टो इति सङ्गणकस्य यन्त्रांश-पुटकान्तर्गते अभवत्।
प्राकाशिकमथ च लेसर्-मूषकम्
[सम्पादयतु]प्राकाशिके तु मूषके एकस्याथवा बहूनां प्रकाशोत्सर्जक-डायोदोपकरणानां प्रयोगः क्रियते, सहैव च प्रकाशडायोदस्य प्रयोगः कृत्वा अधःस्थतलापेक्षया उपकरणस्य गतिः अन्विष्यते। अतः आन्तरिकानां चलद्भागानां प्रयोगेन सा गतिः न अन्विष्यते एतस्मिन्। लेसर्-मूषकम् अपि प्राकाशिकम् एव मूषकं भवति। तस्मिन् तु संसक्तस्य प्रकाशस्य (लेसर्-इत्यस्य) प्रयोगः क्रियते।
जडत्वीयानि अथ च घूर्णनदर्शकीयानि मूषकानि
[सम्पादयतु]त्रिविमानि मूषकानि
[सम्पादयतु]स्पर्शात्मकानि मूषकानि
[सम्पादयतु]एर्गोनामिक्-मूषकानि
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ Oxford English Dictionary, "mouse", sense 13
- ↑ http://www.scribd.com/doc/100804570/English-Sanskrit-Computer-Dictionary