मृतसागरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मृतसागरः आ्ग्लभाषायां the Dead Sea इति ज्ञायते |

मृतसागरः

मृतसागरः इति पदं प्रायः सर्वे श्रुतवन्तः सन्ति । एषः एकः विशालःजलाशयः यः झोर्ढान्-इस्रेल देशौ अन्तःस्थः । तस्य अन्य नाम “लवणसागरं अपि भवति । पृथिव्याः पृष्ठस्य नीचतं स्थलं मृतसागरः । सादारणतः सागरस्य जलम् लवणम् एव । किन्तु , मृतसमुद्रः अन्यसमुद्राणां तुलनया आसन्न दशगुणम् अधिकः क्षारः (९.६) । (तादृशं अतिकलवणत्वजलाशयाः अन्याः अपि विरलाः सन्ति) । एतस्य लवणत्वात् तत्र परिशरः पशुपक्षिमत्स्याः जीवनेभ्यः अयुक्तं भवति । अतः एव एतस्य जलाशयस्य नाम मृतसागरः । ५० किलोमीटरम् दीर्घः १५ किलोमेटरम् विस्तृतः एवं ३०० मेटरं निम्नः एषः, ४२९ मीटरं सागरतलतःअधः वर्तमानः मृतसागरः, पृथिव्याः पृष्ठस्य नीचस्थलं भवति । झोर्ढान नदी एषस्य उपनदी । मृतसागरस्य जलस्य घनता सधारणजलापेक्षया अतिकतरा भवति । अतः अस्मिन् सागरे तरणं प्लवं इव भवति ।

सर्वदा मृतसागरः यात्रिकान् आकर्षिकस्थलः अस्ति स्म। इदानीम् अपि बृहत् स्ङ्ख्यायां यात्रिकाः एषस्य सागरस्य दर्शन्निमित्तम् आगच्छन् सन्ति । एवं बैबिळ् मध्ये मृतसागरस्य उल्लेखः दृश्यते, राजा डेविड् आरोग्यार्थं अत्र आगतवान् इति । अस्मिन् प्रदेशे वृष्टिःबहु न्यून्ं,प्रतिवर्षं ४ इन्चः एव । अतः अयं प्रदेशः अति शुष्कः। किन्तु , केभ्यचित् रोगेभ्यः (उदाहरणात् सोरियासिस् इति शर्मरोगः, नासिकसम्बन्दितरोगः, जानुसम्बन्दितरोगः ) एतस्य शुष्कवातावरणं, एवं धातुपूर्णजलं वरं इति मन्यते ।

मृतसागरे प्लवमानः एषः पत्रिकां पठति

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मृतसागरः&oldid=409587" इत्यस्माद् प्रतिप्राप्तम्