मैसूरुदसरामहोत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मैसूरुनगरे विजयदशमी दिने विश्वविख्यातः जम्बूसवारीनामकः महोत्सवः भवति । ततःपूर्वं नवदिनानि यावत् नवरात्रिपर्व राजगृहे वैभवेन आचरितं भवति नवदिनेषु नगरे नृत्यसङ्गीतनाटक -चलनचित्रादिनाम् महोत्सवः भवति । राजगृहेऽपि सायङ्काले सङ्गीतकार्यक्रमाः भवन्ति । विजयदशमीदिने मैसूरुनगराधिदेवतायाः चामुण्डेश्वर्याः उत्सवमूर्तेः शोभायात्रा भवति । गजस्य उपरि स्थिते ‘अम्बारी’नामके मण्डपे देवी चामुण्डेश्वरी विराजमाना भवति । पूर्वम् ओडेयर् वंशीयाः एतं महोत्सवम् आचरन्ति स्म । इदानीम् अपि आरम्भे ते एव पूजां कुर्वन्ति । अनन्तरम् कर्णाटकराज्यस्य मुख्यमन्त्री अपि पूजां कृत्वा विजयदशमीयात्रायाः आरम्भं कारयति । बन्नीमण्डपपर्यन्तम् (बन्निमण्डपं नगरे विद्यमानं प्रसिद्धं स्थानम्) वैभवयुता यात्रा प्रचलति । सर्वभागतः स्तब्धचित्राणि जानपदनृत्यप्रकाराणि यात्रामहोत्सवस्य सौन्दर्यं वर्धयन्ति । मध्याह्ने यात्रामहोत्सवम् अनेकलक्षजनाः पश्यन्ति । रात्रौ अपि विविधाः कार्यक्रमाः आयोजिताः भवन्ति । राजगृहसमीपे फलपुष्पप्रदर्शनं वस्तुप्रदर्शनं च अतीव सुन्दरतया आयोजितं भवन्ति । मैसूरुनगरे सर्वत्र सुन्दरालङ्कारः भवति । देशविदेशेभ्यः जनाः मैसूरुनगरम् आगत्य आनन्दमनुभवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मैसूरुदसरामहोत्सवः&oldid=388986" इत्यस्माद् प्रतिप्राप्तम्