मोहनम् (रागः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मोहनम् इत्यस्मात् पुनर्निर्दिष्टम्)
मोहनम् (रागः)

आरोहणम् स रि प ध
अवरोहणम् स ध प ग रि
जीवस्वराःग, ध, रि
न्यासस्वराःस, ग, ध, रि
रसःकरुणा, भक्तिः
समयःसायंकाल:
जनकरागःहरिकाम्बोधि
प्रसिद्धकीर्तनानिकपालि, नन्नुपालिम्प, परिपाहिमाम् नृहरे,

मोहनम् इति कर्णाटकसङ्गीतस्य कश्चन रागः । एषः औदव-रागेषु अन्तर्भवति । अयं राग: सायंकाले गातव्यम् । त्यागराज: इत्यादय: अस्मिन् रागे बहव: कृत्तय: रचितवन्त: । हिन्दुस्थानिशास्त्रियसङ्गीत: मोहनस्य सम: भूप् इति भवति ।

अस्य रागस्य आरोहणावरोहणरीति आ विश्वे बहुप्रसिद्धः । तथा च पूर्व-एशियायाः चीनदेशे, जपान्-देशेऽपि अयं रागः बहुलप्रसिद्धः ।

लक्षणम्[सम्पादयतु]

मोहनम्-रागस्य तालः षड्जम् C वर्णेन सूच्यते

मोहनम् इत्यस्मिन् रागे मध्यमं तथा निशादं न भवतः । अयं रागः सममात्रिकः भवति (औदवरागः बहव: जना: मोहनराग: हरिकाम्भोजि रागस्य जन्यराग: इति प्रधानतया वदन्ति। किन्तु अयं राग: वाचस्पति, काल्याणी शङ्कराभरणम् च रागेभ्य: जन्यं प्राप्तुं शक्यते । बहुकालात् पूर्वं तामिल् सङीते मुलयप्पन् इति कश्चन रचनाकार: प्रयुक्तवान् (क्रि.पू. ३)।

अस्य आरोहणावरोहणस्वरस्य संरचना यथा-

  • आरोहणम्-(ārohaṇa) : स रि प ध
  • अवरोहणम्-(avarohaṇa) : स ध प ग रि

(अत्र उपयुज्यमानाः स्वाराः-षड्जम् , चतुश्रुति ऋषम् , अन्तर गन्धारम् , पञ्चमम्, चतुश्रुति धैवतम् )

मोहानस्य आरोहाणम् अवरोहाणम् च
"https://sa.wikipedia.org/w/index.php?title=मोहनम्_(रागः)&oldid=372114" इत्यस्माद् प्रतिप्राप्तम्