यथार्थरूपा भगवद्गीता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Prabhupada 2021 b.jpg
ग्रन्थस्य लेखकः भक्तिवेदान्तस्वामीश्रीलप्रभुपादः

कस्यापि पुस्तकस्य एकलक्षप्रतिकृतय: यदि विक्रीयन्ते तर्हि स च कश्चन विशेष: एव । एवं सति कोटिप्रतिकृतय: यदि विक्रीयन्ते...? तदपि गीताया: ..? अन्ताराष्ट्रियकृष्णप्रज्ञासङ्घस्य संस्थापकेन भक्तिवेदान्तप्रभुपादस्वामिवर्येण लिखतं यथार्थरूपा भगवद्गीता (यथार्थरूपेण - As It Is) इत्याख्यस्य पुस्तकस्य कोट्यधिका: प्रतिकृतय: एतावता विक्रीता: सन्ति । मूलत: आग्लभाषया लिखित: एष: ग्रन्थ: फ्रेञ्च्, जर्मन्, स्प्यानिष्, रषियन्, चैनीस्, अरेबिक्, हीब्रू, डच्, पोर्चुगीस्, इटालियन् - इत्यादिभि: चत्वाशिंदिधिकाभि: विदेशीयभाषाभि: प्राय: सर्वाभि: अपि भारतीयभाषाभि: अनूदित: सन् नैकवारं प्रकाशित: अस्ति ।

हिन्दीभाषया 9,88,000 प्रतिकृतय: (त्रिंशद्वारं मुद्रिता:), मराठीभाषया 7,20,000 प्रतिकृतय: (अष्टवारं मुद्रिता:), मलयाळभाषया 4,50,000 प्रतिकृतय: (अष्टवारं मुद्रिता:), वङ्गभाषया 2,12,000 प्रतिकृतय: (अष्टवारं मुद्रिता:), ओड़ियाभाषया 1,75,000 प्रतिकृतय:, तमिलुभाषया 1,15,000 प्रतिकृतय:, तेलुगुभाषया 2,60,000 प्रतिकृतय:, कन्नडभाषया ...... प्रतिकृतय: - इत्येवं तस्य पुस्तकस्य विक्रीतानां प्रतिकृतीनां गणना उपलभ्यते । श्रीमद्भगवद्गीताया: अष्टादश-अध्यायानां सर्वेऽपि 700 श्लोका: अत्र अनूदिता:, आधुनिकदृष्ट्या च व्याख्याता: सन्ति ।


1896तमे क्रिस्ताब्दे कल्कत्तानगरे प्राप्तजन्मा अभयचरण डेवर्य: गौडीयमठ-संस्थापनाचार्यस्य श्रीशीलभक्तिसिद्धान्तसरस्वती-स्वामिन: आदेशानुसारं तस्य शिष्यत्वं स्वीकृतवान् । तस्य एव आज्ञाम् अनुसृत्य अभय: वेदज्ञानस्य प्रसाराय स्वीयं जीवनमेव समर्पितवान् । स: आदौ ‘ब्याक् टु गाड् हेड्’- इत्र्याख्याया: आंग्लपत्रिकाया: आरम्भम् अकरोत् । तद्द्वारा वेदान्तविचारान् आंग्लभाषया जनेभ्य: प्रापयितुं स: प्रयत्नम् अकरोत् । तेषु एव दिनेषु भगवद्गीताम् अधिकृत्य स: विशेषाध्ययनम् अकरोत् । तत: भगवद्गीताया: व्याख्यानलेखनं तद्विषये प्रवचनकरणं च अकरोत् । केषाञ्चित् वर्षाणाम् अनन्तरं वृन्दावने शास्त्रोक्तरीत्या संन्यासदीक्षां स्वीकृत्य अभयचरण डे अभय-चरणारविन्दभक्तिवेदान्तस्वामी इति नूतनं नाम प्राप्नोत् । तन्मध्ये श्रीमद्भागवतस्यापि आंग्लभाषया व्याख्यानलेखनं स: आरभत । 1967 तमे क्रिस्ताब्दे स्वीये सप्ततितमे वयसि भक्तिवेदान्तस्वामी रिक्तहस्त: सन् एव अमेरिकाम् अगच्छत् । तत: एकस्य वर्षस्य अनन्तरं तत्र एव ‘अन्ताराष्ट्रियकृष्णप्रज्ञासङ्घ’स्य संस्थापनम् अकरोत् । श्रीमद्भगवद्गीताया: श्रीमद्भागवतस्य च आधारेण जायमाना कृष्णप्रज्ञा एव आधुनिक-जगत: सर्वासामपि समस्यानां परिहारोपाय: इति दृढं विश्वसन्ति तत्सम्प्रदायवादिन: ।

‘औषधसेवनसमये वेद्यस्य सूचनाम् अनुसृत्य स: यथा आदिशति तथैव सेवनं करणीयम् । अन्यथा अपेक्षितं फलं न सिध्यति । एवमेव गीताया: अनुसन्धानसमयेऽपि भगवति गीताचार्ये पूर्णविश्वासेन तेन निर्दिष्टेन क्रमेण एव करणीयम् । अन्यथा गीताध्ययनेन किमपि फलं न सिध्यति । गीताया: यथार्थरूपत्वं ज्ञापयितुमेव मया एष: ग्रन्थ: विरचित:’ इति यथार्थरूपा भगवद्गीता इत्याख्यस्य अस्य ग्रन्थस्य आदौ निवेदयति ग्रन्थकार: ।

1966 तमे क्रिस्ताब्दे न्यूयार्कनगरे एतस्य पुस्तकस्य प्रथमं मुद्रणं प्राचलत् । विश्वविख्याता ‘मेक्मिलन्’प्रकाशनसंस्था प्रथम-मुद्रणावसरे एव अस्य एकलक्ष-प्रतिकृतीनां मुद्रणम् अकरोत् । 1976तमे क्रिस्ताब्दे एतदर्थमेण भक्तिवेदान्तपुस्तकन्यास: संस्थापित: । तेन अस्य ग्रन्थस्य पञ्चदशलक्षप्रतिकृतय: मुद्रिता: । एतावता अस्य पुस्तकस्य 75लक्षाधिका: आंग्लभाषा-प्रतिकृतय: विक्रिीता: सन्ति । पुस्तकविक्रयणस्य इतिहासे एष: निश्चयेनापि कश्चन विक्रम: एव । गोरखपुरस्थेन गीता-मुद्रणालयेन तु एतदेव कार्यं क्रियमाणम् अस्ति बहुभ्य: वर्षेभ्य: । भगवद्गीतापुस्तक-प्रकाशनद्वारा अन्ताराष्ट्रियकृष्णप्रज्ञासङ्घेनापि तदेव श्लाघनीयं कार्यम् अनुवर्तमानम् अस्ति इत्येतत् महते सन्तोषाय ।

External links[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यथार्थरूपा_भगवद्गीता&oldid=481749" इत्यस्माद् प्रतिप्राप्तम्