यलगूरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यलगूरु (Yelagur) कर्णाटकराज्ये बिजापुरमण्डले कृष्णानदीतीरे विद्यमानं किञ्चन क्षेत्रम् । अत्र स्थितः सप्तग्रामाधिपतिः श्रीवायुपुत्रः हनुमान् यलगुरे एळूरेश यलगुरप्प इत्यपि प्रसिद्धः अस्ति । श्रीरामस्य आज्ञया हनुमान् अत्र स्थितवान् । हनुमतः मूर्तिः अष्टपादपरिमितोन्नता भव्या स्वयंव्यक्ता च अस्ति । अलङ्काररहितसमये स्वर्णालङ्कारभूषितसमये कुङ्कुमाभिषेकसमये च दृश्यवैभवम् वर्णनातीतम् ।

विविधमतानुयायिनः भक्ताः इष्टार्थलाभाय अत्र आगत्य विविधसेवाः कुर्वन्ति । प्रदक्षिणनमस्कारः विशेषफलदायकः इति जनानाम् अभिप्रायः । अदिलषाहीकालतः एतत् क्षेत्रम् अतिप्रसिद्धम् अस्ति । एषः हनूमान् सन्तानदायकः भूतबाधानिवारकः रोगनिवारकः मनोभीष्टदायकः इति च प्रसिद्धः।

यलगुरेशस्य अर्चनां क्षत्रियाः कुर्वन्ति । नैवेद्यरूपेण घृतं पोलिकाञ्च यच्छन्ति । शनिवासरे विशेषकार्यक्रमः प्रचलति ।

मार्गः[सम्पादयतु]

आलमट्टीरेलनिस्थानतः ४- कि.मी । गदग-सोलापुररेलमार्गः । राष्ट्रियमार्गः १३
"https://sa.wikipedia.org/w/index.php?title=यलगूरु&oldid=361017" इत्यस्माद् प्रतिप्राप्तम्