यवाग्रजः
दिखावट
(यवानी इत्यस्मात् पुनर्निर्दिष्टम्)
यवाग्रजः/Ammi majus | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Ammi majus
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Ammi majus Carl Linnaeus | ||||||||||||||||
इयं यवानी अपि भारते वर्धमानः कश्चन धान्यविशेषः । इयं यवानी अपि सस्यजन्यः आहारपदार्थः । इयं यवानी आङ्ग्लभाषायां Ammi majus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Trachyspermum amm इति । एषा तृणकुले Umbellignase कुले अन्तर्भवति । अस्याः यवान्याः दीपकः, दीप्यः, यवसाह्वः, यवाग्रजः, यवानिकः, उग्रगन्धा, दीपनीया, दीपनी इत्यादीनि अन्यानि अपि नामानि सन्ति । एषा यवानी यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
आयुर्वेदस्य अनुसारम् अस्याः यवान्याः स्वभावः
[सम्पादयतु]इयं यवानी कटुः, तिक्ता, उष्णा च । यवान्याः बीजानि लघ्वाकारकाणि, कृष्णवर्णीयानि च ।
- “यवानी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् ।
- हन्ति गुल्मोदकं शूलं दीपयत्याशु चालनम् ॥“ (धन्वन्तरिकोषः)
- १. यवानी इयम् उदरस्य सम्बद्धान् रोगान् निवारयति ।
- २. इयं यवानी अग्निदीपिका । तन्नाम आहारपचनस्य शक्तिम् अनुक्षणं वर्धयति ।
- ३. यवानी आर्शस्-रोगेषु उत्तमम् औषधम् । वमनं निवारयति अपि ।
- ४. यवानी कफं वातं च शमयति ।
- ५. यवानी तीक्ष्णा, मुखे रुचिम् उत्पादयति च ।
- ६. यवानी प्लीहरोगे अपि उपयुज्यते ।
- ७. यवानी कीटबाधां निवारयति, हृदयस्य हितकरी च ।
- ८. यवानी पित्तं वर्धयति । अतः पित्तजन्यैः रोगैः पीड्यमानां अधिकतया उपयोगं न कुर्युः ।
- ९. यवान्याः विषये राजवल्लभकोषे, राजकोषे च उल्लेखः कृतः अस्ति ।
- १०. यवान्यां सर्षपस्य तीक्ष्णता, चिरायतस्य तिक्तता, हिङ्गुनः उदीपता इति त्रयः अपि गुणाः सम्मिलिताः सन्ति ।
- ११. यवानी औषधानां दुर्गन्धस्य निवारणार्थम् उपयुज्यते । विशेषतया एरण्डतैलस्य गन्धनिवारणार्थम् उपयुज्यते ।
- १२. यवान्या तैलस्य निर्माणम् अपि कर्तुं शक्यते । तत् तैलं शीतलीकुर्मः चेत् “थैमोल्” सङ्गृहीतं भवति।
- १३. वृश्चिकदंशने यवान्याः पेषणं कृत्वा लेप्यते । उदरबाधायाम् अपि उदरस्य उपरि पेषणं कृत्वा लेप्यते ।
- १४. बहुकालतः पीड्यमाने कासे, कफः न बहिः आयाति चेत्, कफः दुर्गन्धयुक्तः चेत्, अस्तमारोगे च यवानी उपयुज्यते ।
- १५. अजीर्णं जातं चेत् यवानीं सैन्धवलवणेन सह योजयित्वा खादन्ति ।
- १६. यवानी स्तन्यं क्षीरं न्यूनीकरोति । अतः प्रसवस्य अनन्तरं न दातव्यम् ।
- १७. यवानी उत्तेजिका अस्ति । तस्मात् कारणात् रजस्रावावसरे जायमानायां वेदनायाम् उपयोक्तुं श्क्यते ।
- १८. यवान्याः चूर्णं १-३ ग्रां यावत् दातुं शक्यते ।