यश्छन्दसामृषभो विश्वरूपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यश्छन्दसामृषभो विश्वरूपः।[सम्पादयतु]

मन्त्रः[सम्पादयतु]

॥ॐ॥यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्सम्बभूव।
स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देवधारणो भूयासम्।
शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा।
कर्णाभ्यां भूरि विश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः।
श्रुतं मे गोपाय॥ ॐ शान्तिः शान्तिः शान्तिः॥

अर्थः[सम्पादयतु]

यश्छन्दसामृषभो विश्वरूपः। यः वेदानां सारभूतः, मुख्यः, विश्वरूपः, सर्वरूपः; सः अतः सर्वरूपः यतः ऋषभशब्दवाच्यः ॐकारः वाचम् आवृत्य तिष्ठति।
छन्दोभ्योऽध्यमृतात्सम्बभूव। वेदेभ्यः नवनीतवत् उत्पन्नं सारिष्ठं तत्त्वम् ॐकारः एव।
स मेन्द्रो मेधया स्पृणोतु। सः एवम्भूतः ॐकारः, इन्द्रः, परमेश्वरः मां मेधया प्रज्ञया स्पृणोतु, प्रीणातु, बलयतु इत्यर्थः।
अमृतस्य देवधारणो भूयासम्। अहं अमृतत्त्वहेतुभूतस्य ब्रह्मज्ञानस्य धारयिता भवेयम् इत्यर्थः।
अधुना तु तादृशज्ञानप्राप्त्यर्थं शरीरेन्द्रिययोग्यता प्रार्थ्यते।
शरीरं मे विचर्षणम्। पुनः च मम शरीरं विचर्षणम् अर्थात् योग्यं भूयात्।
जिह्वा मे मधुमत्तमा। मम जिह्वा मधुमती अर्थात् अतिशयेन मधुरभाषिणी भूयात्।
कर्णाभ्यां भूरि विश्रुवम्। श्रोत्राभ्यां बहु श्रुतवान् (श्रोता) भूयासम्, भवेयम्। मम देहेन्द्रियसमुदायः आत्मज्ञानप्राप्त्यर्हः भवतु इति वाक्यार्थः।
अन्ते तु ज्ञानार्थं प्रार्थ्यते,
ब्रह्मणः कोशोऽसि मेधया पिहितः। त्वं परमात्मनः कोशः अस्ति। ब्रह्मोपलब्ध्यधिष्ठानत्वात् ॐकारस्य। त्वं पुनः कीदृशः इति चेत् उच्यते, मेधया लौकिकप्रज्ञया पिहितः आच्छादितः वर्तते।
श्रुतं मे गोपाय। मया यत् आत्मज्ञानविषये श्रुतं तत् रक्ष। मह्यं तत् प्रापय, तदविस्मरणम् च कारय इत्यर्थः।

सम्बद्धाः लेखाः[सम्पादयतु]