यादवपायेङ्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यादवपायेङ्ग्
यादवपायेङ्ग् 2012-वर्षे
जन्म यादवपायेङ्ग्
1963
असमः, भारतम्
देशीयता भारतम् Edit this on Wikidata
अन्यानि नामानि मूलै
वृत्तिः वनवर्धकः
सक्रियतायाः वर्षाणि 1979–अद्यावधि
भार्या(ः) बिनीतापायेङ्ग्
पुरस्काराः पद्मश्रीः (2015)

पद्मश्रीपदव्याविभूषितः यादव मूलै पायेङ्ग् (1963-) मिशिङ्ग्-जातौ उत्पन्नः पर्यावरणस्य वनवर्धनस्य क्षेत्रे कार्यकर्ता अस्ति। जोरहाटनगरवासी यादव पायेङ्ग्, गतत्रिंशताधिकवर्षेभ्यः ब्रह्मपुत्रनदीपुलिनेषु बहून् वृक्षान् उप्त्वा वनं रचितम्। तस्य उद्यमेन तत् वनं मूलैवनं इति नाम्ना प्रसिद्धम्। तत् अरण्यम् 1360 प्रहलान् यावत् विस्तीर्णम् अस्ति। 2015 तमे वर्षे सः पद्मश्रीपुरस्कारं प्राप्तवान्।

चरितम् [सम्पादयतु]

1979 तमे वर्षे , निर्वृक्षे  पुलिने सः बहून् मृतान्  सर्पान् दृष्टवान्  | अधिकतापस्य कारणात् मृताः सर्पाः ओघेन  पुलिनेषु स्थापिताः आसन् | तत् दृश्यं दृष्ट्वा सः तत्र 20 वेणुवृक्षकान् रोपितवान् | तस्मिन्  एव वर्षे जोरहाटजनपदे कोकिलमुखात् पञ्च-किलोमीटर-दूरे स्थिते अरुणाचपोरी-ग्रामे गोलाघाट् जनपदस्य सामाजिकवनविभागेन  200 हेक्टेर् - मिते प्रदेशे वृक्षारोपणकार्यक्रमः प्राचलत् यत्र  सोऽपि कार्यं करोति स्म | सः कार्यक्रमः पञ्चवर्षानन्तरं समाप्तः तथापि अन्येषु श्रमिकेषु गतेषु अपि सः वृक्षारोपणम् अनुवर्तितवान् | रोपितनां सस्यानां संरक्षणेन सह इतोऽपि अधिकानां वृक्षाणां रोपणं तेन विहितं येन सः प्रदेशः वनं भवेत् |    

"https://sa.wikipedia.org/w/index.php?title=यादवपायेङ्ग्&oldid=423405" इत्यस्माद् प्रतिप्राप्तम्