आर् आर् दिवाकर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रं.रा.दिवाकरः इत्यस्मात् पुनर्निर्दिष्टम्)



आर्.आर् दिवाकरः (R R Divakar) भारताद्यन्तं चिरपरिचिता व्यक्तिः । एतस्य पूर्णं नाम रङगराव् रामचन्द्र दिवाकरः अथवा रं.रा.दिवाकर् । एषः ख्यातः लेखकः, पत्रिकोद्यमी, गान्धिवादी, स्वातन्त्र्ययोद्धा, कर्णाटककस्य एकीकरणस्य नेता, दक्षः राजनीतिज्ञः, निपुणः शासकः च । एवं प्रसिद्धिं प्राप्तवतः रङ्गरावस्य जन्म १८९४ तमे वर्षे सप्टम्बर्मासस्य ३० तमे दिनाङ्के धारवाडनगरे अभवत् । पिता रामचन्द्ररावः, माता सीतम्मा । एम्. ए पदवीं प्राप्य आरम्भे आङग्ल-अध्यापकः आसीत् । तदनन्तरं एल्.एल्.बी परिक्षायाम् उत्तीर्णतां प्राप्य १९२० तमे वर्षे भारतस्य स्वातन्त्र्यसङ्ग्रामे भागम् ऊढवान् । एषः स्वतन्त्र- भारतस्य केन्द्रवार्ताविभागे सचिवः इति, बिहारस्य राज्यपालः इति, राज्यसभासदस्यः इति च सेवां कृतवान् । एतस्मै कर्णाटकविश्वविद्यालयतः गौरवडाक्टरेट् प्रशस्तिः दत्ता । कन्नड- अभिमानिनम् एतं १९३८ तमे वर्षे बळ्ळार्यां प्रचलिते त्रयोविंशतितमसाहित्यसम्मेलने अध्यक्ष स्थानं दत्त्वा सम्मानितवन्तः ।

रङ्गरावमहोदयस्य कन्नडकृतयः[सम्पादयतु]

रङगरावस्य कन्नड, आङ्ग्लं, हिन्दीभाषासु अधिकं पाण्डित्यम् आसीत् ।

  • उपनिषत्प्रकाश
  • उपनिषत्तिन कथेगळु
  • श्रीरामकृष्ण
  • वचनशास्त्ररहस्यम्
  • हरिभक्तसुधा
  • गीताज्ञानम्
  • अन्तरात्माय

एताः रायस्य कन्नड कृतयः।

रङ्गरावमहोदयस्य आङ्ग्लकृतयः[सम्पादयतु]

  • Nation’s Call
  • Glimpses of Gandhiji
  • Maha yogi
  • Satyagraha
  • Bhagavan Buddha

एताः आङलभाषाकृतयः । लोकशिक्षणट्रस्ट् स्थापकः रङ्गरावः संयुक्तकर्णाटक नामिकां दिनपत्रिकां , कर्मवीरनामिकां साप्तहिकीं कस्तूरीनामिकां मासिकीं पत्रिकां , Navashaktiनामिकाम् आङ्लभाषापत्रिकां च आरभ्य कन्नडपत्रिकारङ्गे महाक्रान्तिम् अजनयत् । एषः भारत स्वातन्त्रसङ्ग्रामस्य काले कारागृहवासम् अनुभूतवान् । कारगृहे युवजनानां कृते योग्यमार्गदर्शनस्य ग्रन्थं विलिख्य कृतार्थः जातः ।

"https://sa.wikipedia.org/w/index.php?title=आर्_आर्_दिवाकर&oldid=406428" इत्यस्माद् प्रतिप्राप्तम्