रथोद्धताछन्दः
दिखावट
(रथोद्धता इत्यस्मात् पुनर्निर्दिष्टम्)
रथोद्धता।
प्रतिचरणम् अक्षरसङ्ख्या ११
रान्नराविह रथोद्धता लगौ। –केदारभट्टकृत वृत्तरत्नाकर:३.३९
ऽ।ऽ ।।। ऽ।ऽ ।ऽ
र न र ल ग।
यति: पादान्ते।
लक्षणम्
[सम्पादयतु]- रात्परैर्नरलगै रथोद्धता ।
यत्र प्रत्येकम् अपि पादे क्रमेण एकः रगणः, एकः नगणः, एकः रगणः, एकः लघु एकः गुरुश्च भवति तद्वृत्तं रथोद्धता इति कथ्यते।
उदाहरणम्
[सम्पादयतु]- राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैः रथोद्धता।
- यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात्।।
अर्थः
[सम्पादयतु]दधिविलोडनरूपकर्मणि अवस्थिता राधिका माधवस्य मुरलीध्वनिभिः आकुलिता सलिलाहरणस्य व्याजेन शीघ्रमेव यमुनासम्बन्धिनं तटनिकुञ्जं वव्राज।