रमेश पारेख
परिचयः
[सम्पादयतु]रमेशः मोहनलालः पारेखः (२७-११-१९४०) । कविः, कथाकारः, बालसहित्यकारः च । १९५८ तमे वर्षे ‘पारेख अने महेता’ विद्यालये अमरेलीग्रामे दशमी कक्षा उत्तीर्णा । १९६० तः जिल्ला-पंचायतनम- अमरेली-संलग्नः । आधुनिकसर्जलखेन सर्जनदीक्षां १९६७ तमे वर्षे प्राप्तवान ।
अनिलः जोशी ‘कृति’ पत्रिकायाः अङ्कान् हत्त्वा ‘अत्र किमपि मुद्रयते, लिखयताम’ इति नूतने लेखने प्रेरितः । तेन सह लेखन चर्चा प्राचलत । आधुनिकसर्जनस्य च् ज्ञानचक्षुः उन्मीलिवम । आहवानम् अङगीकृत्म नूतनां शैलीम आश्रितः । १९७० तमे वर्षे कुमारचंन्द्रं प्राप्तवान । उमा-स्नेहरश्मि-पारितोषिकं च प्राप्तवान । तस्य सर्जनसंवेदनस्य मूल विरहवेहना परिस्थितेः आहवानस्य च प्रकृतिः वर्तते । तत् तस्य सर्जने संवर्धनम् अकरोत् । अतः विशिष्ठा मुद्रा प्रादुभूर्ता। सः गीत-गफाल-अछान्द्सकाव्यानि लिखितवान् । गीते गफालकाव्ये च् तस्य प्रभुत्वं वर्तते । भावः भाषा, अभिव्यक्तौ नावीन्यं च तस्य काव्यस्य लाक्षणिकता वर्तते । अभिलाषः अभावः वेदना, विकलता विरहः, वन्ध्यं च तस्य वधेषु पुनः पुनः प्रलहीभवन्ति । गद्ये च निरुप्यते नगरसंस्कृतेः विरुपता ।
स्तनपूर्वकमे इति कथाअङ्ग्हेण सः लघुकथाक्षेत्रं प्रविण्हः । मानवमनः, प्रकृति-सम्बंधस्य अङकुलता, मनुष्यस्य काम्यार्थम-उत्कहता-तत्प्राप्तुं च दारुणः सङघर्ष अन्ते च वैकल्यम आलिखति कविः । बालसाहित्यक्षेत्रेडपि कवेः प्रदानं ध्यानास्पदं वर्तते । तत्रापि नावीन्यं सहजसिद्रा प्रतिभा च् र्दश्यते । पशवः, पक्षिणः, कलानि, कोशश्च तस्य कथासु पात्रीभवन्ति । तेन बालकस्य विशालै संवेदनविश्वं प्रत्यक्षं भवति ।
रमेश पारेखः
[सम्पादयतु]रमेश पारेखः अर्थात् प्रतिपदं पद्यगौरवेण रोमसु उत्पलवमानः मनुष्यः । नखशिखं गीतानां मौक्तिकैः परिपूर्णः समुद्रः । रमेशः पारेखः अर्थात् गुजरातीभाषायाः अनाघ्रातं पुष्पम् । रमेशः पारेखः अर्थात् रुधिरे वहमानं पद्यम् । रमेशः पारेखः अर्थात् षडक्षरम् अभिधानम् । अद्य सहसा "अ" क्षरम् अभूत् । समयस्य कस्मिन्नपि खण्डे साहसं नास्ति, यत् तस्य नाम्नः पृष्ठे ‘आसीत्’ लेखितुं श्क्नुयात् । रमेशः पारेखः ‘अस्ति’ । ‘अस्ति’ ‘अस्ति’ च ।
जन्मः
[सम्पादयतु]अमरेलीग्रामे जन्म । कर्मभूमिः राजकोहम । पत्या पत्न्याः नाम रसिला निरजः नेहा चेति सन्तानौ । सर्व्कारीयः कार्यालये लिपिकारः अपि कविः आसित । संसारे मनः न तुष्यति । लेखनी च दिशाहीना । सङगीत-चित्र-ज्योतिःशास्त्रकाव्यरचनासु प्रीतिः । आत्मा शब्दैः परिपूर्णः परन्तु हनूमन्तं कः जाम्बुवान प्रेरयेत् ? तत्रान्तरे हजनीकुमारः पण्डया अनिलः जोशी इति द्रौ लब्धौ । हनूमता सागरः लङिघतः । रजनीकुमारः पद्ये प्रेरयति, अनिलश्च कथायाम् । एकवारं कुवितः रमेशः कथयति-रजनीकुमार । त्यं कथाकार्ः । अतः मां पद्ये प्रेरयसि । असौ अनिलश्च पद्यकारः । अतः मां कथायाम् प्रेरयति । भवन्तः सर्वे मत बिभ्यति। षण्ठिः वर्षेणि व्यतीतानि । रमेशेन आत्म्ना अनुसन्धानं साधितम् । रक्तं काव्यरुपेण कागदेड्वहत । सोनलकाव्यानि तस्य पर्यायीभूतानी । सुरेशः दलालः कथयति- तस्य पद्येषु र्दश्यमानं । सोनल पूर्वजन्मनः स्मृतिः वर्तते । अस्य जन्मनः अनुमानम् अस्ति । भाविजन्मनः आश्वासनम् अस्ति । आलाखाच्रस्य कल्पनापात्रेण सौराष्ट्र्स्य क्षत्रियाणां मनोदशायाः व्यड्गयात्मकं करुणम आलेखनं पद्येषु विशिष्टं वर्तते । मीराकाव्येषु तस्य आध्यात्मिकता स्वभावतः उल्लसति । चेन कृष्णोडवि ईष्याँ गच्छति । चमत्कृत्वा पूर्णे पद्ये कवचिदपि क्षुल्लकं चातुर्यं श्ब्दक्रीडा वा न द्र्श्यते । गीतं, गफाल, छन्दोबद्धनि काव्यानि, सोनेत्, आछान्दसं काव्यं कृतिं स्वर्णमयीं कुर्वन्ति । मोरारिबापुः उक्तवान-एषः कविःकिमपि इष्हवान हव लक्ष्यते । गजयात्रया किमपि नगरं कस्यचित् कवेः सम्माननं क्रोति इति लोकोक्तिः रमेश्स्य जीवने सत्या भवति । शब्दैः सह तावती आत्मीमता, पेन ज्ञायते - ‘रमेशव्राण्ड’ वर्तते एषा कृति ः । ऊपरः कौडपि कविः सूर्यातपं स्प्रण्दुं न चिन्तयेत् । गुजराती साहित्यस्य प्रायः सर्वान पुरस्कारान् प्राप्तवान् एषः कविः अन्तं यावत वसुन्धराम अनु अजीवत । उद्योगः रमेशस्य नश्वरं देहम अकस्मात आक्षिवत । परन्तु तस्य अ-क्षरदेहः सरा श्वसिण्यति अस्मालं भाषामेअ स्मृतौ च ।
पारितोषिकम्
[सम्पादयतु]पारितोषिकम् - १.कुमारचन्द्रकः २.गुजराती-साहित्याअकादमी-पारितोषिकानि ३.गुजरातीसाहित्यपरिषद-परितोषिकानि ४.रणजित् रामः सुवर्णचद्रकः ५.गिजुभाई बधेका सुवर्णचन्द्रकः ६.कलागौरव-सुवर्णचन्द्रकः ७.गुजरतराज्य-त्रिल्मएवोर्ड ८.क्रिटीक्स एवोर्ड ९.अन्ये बहवः पुरस्काराः ।