सामग्री पर जाएँ

रवीन्द्रनाथ ठाकुरजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१९३० तमे वर्षे बर्लिन् नगरे

भारतदेशस्य राष्ट्रगीतस्य कर्ता श्री रवीन्द्रनाथ ठागूरमहोदयः विश्वकविः इति प्रसिध्दः । विश्वविद्यालयस्थापकः पत्रिकाकारः, प्रकृतिप्रियः राष्ट्रप्रेमी च श्री रवीन्द्रनाथठागूरः लघुसङ्गीतक्षेत्रेऽपि उत्तमं कार्यं कृतवान् । प्रतिवर्षं मे मासे श्री रवीन्द्रनाथठागूर महोदयस्य जयन्तीं भारतदेशे आचरन्ति ।

श्रीरवीन्द्रनाथठागूर महोदयः पश्चिमबङ्गालराज्ये क्रिस्तशके १८६१ तमे वर्षे मेमासस्य षष्ठे दिने कलकत्तानगरे जन्म लब्धवान् । एतस्य गृहस्य नाम जोरासोङ्को इत्यासीत् । अस्य पिता महर्षि देवेन्द्रनाथठागूरः । माता च शारदादेवी । राजगृहमिवासीत् रवीन्द्रनाथठागूर् महोदयस्य गृहम् । गृहे सेवकाः एव बालान् पालयति स्म ।


बाल्ये एव रवीन्द्रः निसर्गप्रियः प्रकृतिदर्शनं कुर्वन् हर्षम् अनुभवति स्म । सेवकाः बालेभ्यः रामायणमहाभारतकथाः वदन्ति स्म । गृहे एव शिक्षणव्यवस्था आसीत् । शालां प्रविष्टोऽपि बालकः रवीन्द्रः सन्तुष्टः नासीत् । प्रासयुक्तानि पद्यानि रवीन्द्रस्य अतीव प्रियाणि आसन् । भ्राता ज्योतिरिन्द्रोऽपि रवीन्द्रस्य काव्यप्रतिभां दृष्ट्वा अतीव सन्तुष्टः आसीत् । वर्षद्वयपर्यन्तम् इङ्ग्लेण्ड देशं गत्वा अध्ययनं कृत्वा रवीन्द्रः भारतं प्रत्यागतवान् । रवीन्द्रनाथठागूरः लेखने अतीव आसक्तः अभवत् । बङ्गाली भाषायां अनेक काव्यानि लिखितवान् । ‘भग्नहृदय खण्डकाव्यं, वाल्मीकिप्रतिभा, कालमृगया, मायरखेला, स्वप्नभङ्गः, प्रतिध्वनिः, सन्ध्यासङ्गींत, प्रभातसङ्गीतम्, इत्यादीनि सुमधुराणि काव्यानि रवीन्द्रनाथठागूरमहोदयेन रचितानि ।

क्रिस्तशके १८८३ तमे वर्षे मृणालिनीदेव्या साकं रवीन्द्रनाथस्य विवाहः अभवत् । किन्तु अल्पे एव समये मृणालिनीदेवी दिवङ्गता । रवीन्द्रस्य ग्रामे व्यवहारपालनकार्यं दत्तम् । तेन प्रकृतिमध्ये हर्षेण कार्यं कृतवान् रवीन्द्रनाथठागूरः अन्यैः ग्रामीणैः सह उत्तमसम्बन्धं प्राप्तवान् । क्रिस्तशके १९१५ तमे वर्षे ‘श्रीनिकेतनम्’ आदर्शग्रामस्थापनं कृतवान् रवीन्द्रनाथ ठागूरः ग्रामान्तरप्रदेशेषु शिक्षाव्यवस्थां कर्तुं प्रयत्नं कृतवान् अतः एव ‘शान्तिनिकेतनम्’ गुरुकुलं स्थापितवान् । स्वयम् अध्यापकः अपि अभवत् । अग्रे एतदेव गुरुकुलं ‘विश्वभारती’ संस्थाऽभवत् ।

रवीन्द्रनाथ ठागुरः सङ्गीतप्रियः आसीत् । स्वयं सङ्गीतसंयोजनां कृतवान् । तस्य ‘रवीन्द्रसङ्गीतम्’ इति नाम अभवत् । काबूलीवाला रवीन्द्रनाथठागुरस्य प्रसिध्दा कथा अस्ति । अनेककथाः लिखित्वा रवीन्द्रनाथठागुरुः कथाकाररुपेणापि प्रसिध्दः अभवत् । बालानां कृते रवीन्द्रनाथठागूरः अनेकपुस्तकानि लिखितवान् । श्रीरवीन्द्रनाथ ठागुर महोदयस्य देशप्रेम गीतानां सङ्ग्रहः ‘गीताञ्जलि’ इति प्रसिध्दः अस्ति । अस्मिन् ग्रन्थे सुन्दरदेशभक्तिगीतानि सन्ति । अस्य आङ्गलानुवादस्य क्रिस्तशके १९१३ तमे वर्षे विश्वप्रसिध्दः नोबेलपुरस्कारः लब्धः अभवत् । एतं पठित्वा प्रसिध्दाङ्गलकविः ‘यीट्स्’ अत्यन्तं मुग्धः अभवत् । अनेन रवीन्द्रनाथठागूर्ः विश्वकविः इति प्रसिध्दः अभवत् । अनेके विश्वविद्यालयाः रवीन्द्रनाथठागूर् महोदयाय डाक्टरेट् पदवीं दत्तवन्तः । आङ्ग्लसर्वकारः ‘नैट हुड’ प्रशस्तिं दत्त्वा सम्मानम् अकरोत् । प्रकृतिमध्ये सदा हर्षेण वसन् श्री रवीन्द्रनाथठागूरः चित्राङ्गदा, बलिदानं च इति नाटकमपि रचितवान् ।

क्रिस्तशके १९१९ तमे वर्षे पञ्जाबप्रदेशे जलियनवालाबाग्स्थले भीकरहत्यां विरुध्य रवीन्द्रनाथठागुरः ‘नैटहुड्’ प्रशस्तिं पुनः आङ्ग्लं सर्वकाराय प्रेषितवान् । महात्मा गान्धी ‘गुरुदेव’ इति रवीन्द्रनाथ ठागूरमहोदयं कथितवान् । शान्तिनिकेतनं गत्वा च सन्तुष्टः अभवत् । रवीन्द्रनाथठागूरः कलाप्रियः, चित्रकारः च आसीत् । सप्तति तमे वर्षेऽपि अनेन त्रिसहस्रपर्यन्तं चित्राणि लिखितानि आसन् । भारतस्य राष्ट्रगीतं ‘जनगणमन अधिनायक जयीहे भारतभाग्यविधाता- श्री रवीन्द्रनाथठागूरुमहोदयेन लिखितमस्ति अत्र सम्पूर्णभारतस्य प्रकृतेः च वर्णनं सुन्दरम् आस्ति । बाङ्गलादेशाय अपि ‘सोनारबाङ्गला’ इति गीतं रचयित्वा दत्तवान् ।

विश्वकविः, निसर्गकविः, श्री रवीन्द्रनाथठागूरुः क्रिस्तशके १८४१ तमे वर्षे दिवं गतः । किन्तु सङ्गीतेन, साहित्येन, देशप्रेमकारणेन, शिक्षणकार्येण च सर्वेषां भारतीयानां हृदये सदा अस्ति । विश्वे एव साहित्यप्रियाः विश्वकवेः सगौरवं स्मरणं कुर्वन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
Valmiki Pratibha.
Scene from Chandalika carved for Tagore’s birth sesquicentennial, Barisha Udayan Palli, Kolkata.

Analyses

Audiobooks

Talks

Texts




सम्बद्धाः लेखाः

[सम्पादयतु]