रागीधान्यम्
पठन सेटिंग्स
![](http://upload.wikimedia.org/wikipedia/commons/c/c6/Finger_millet_grains_of_mixed_color.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6c/Finger_millet_3_11-21-02.jpg/200px-Finger_millet_3_11-21-02.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/23/Millet_fields_in_Annapurna.png/200px-Millet_fields_in_Annapurna.png)
इदं रागीधान्यम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । इदं रागीधान्यम् सस्यजन्यः आहारपदार्थः । रागीधान्यम् आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागीधान्यं प्रथमपङ्क्तौ तिष्ठति । मल्लयुद्धकलायां निपुणाः प्रायः रागीपिण्डम् एव खादन्ति । इदं रागीधान्यं साक्षात् सर्षपः इव दृश्यते । कर्णाटकस्य चित्रदुर्गमण्डले, बेङ्गलूरुमण्डले, मैसूरुमण्डले च रागीधान्यम् एव प्रमुखम् आहारधान्यम् । लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः इत्यागीनि रागीधान्यस्य अन्यानि नामानि ।
आयुर्वेदस्य अनुसारम् अस्य रागीधान्यस्य स्वभावः
[सम्पादयतु]![](http://upload.wikimedia.org/wikipedia/commons/9/9c/Ragi_mudde2.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/55/Ragi_Porridge.jpg/200px-Ragi_Porridge.jpg)
एतत् रागीधान्यं रुचौ तिक्त-कषाय-मिश्रित-मधुररुचियुक्ता । रागीधान्यम् अत्यन्तं लेखना । अत्यन्तं बलवर्धकम् इति कारणतः श्रमिकाणां मुख्यः आहारः रागीधान्यम् ।
- “रागी तु लाञ्छनः स्ताद्बहुदलकणिशश्च गुच्छकणिशश्च ।
- तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥“
- १. इदं रागीधान्यं नाधिकं मधुरम् इति कारणतः मधुमेहरोगिणः अपि सेवितुम् अर्हन्ति ।
- २. रागीधन्यं निर्धनानाम् आहारः इत्येव प्रसिद्धं यतः न्यूनमूल्येन प्राप्यते ।
- ३. शिशूनां शरीरस्य वृद्ध्यर्थं रागीधान्यस्य श्राणां निर्माय खादयन्ति ।
- ४. रागीधान्यम् अत्यन्तं लेखनम् इति कारणतः उष्णप्रकृतियुक्ताः अधिकतया सेवन्ते चेत् वरम् ।
- ५. रागीधान्यमिदं रक्तदोषहारिणी ।
- ६. रागीधान्यं पित्तहारकम् अपि ।
- ७. रागीधान्यम् अत्यन्तं बलवर्धकम् ।
- ८. एतत् रागीधान्यं चूर्णीकृत्य क्षीरेण सह वा जलेन सह वा योजयित्वा उष्णीकृत्य, कुत्रचित् तथैव च पिबन्ति ।
- ९. रागीधान्येन पर्पटम्, अवदंशं, श्राणां, पिण्डं च निर्मान्ति ।