राघवाङ्क

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


परिचयः[सम्पादयतु]

कविः राघवाङ्कः (Raghavanka) हरिहरकवेः पट्टशिष्यः भागिनेयः च । एतं ‘राघवः’ ‘राघव पण्डितः’ इत्यपि आह्वयन्ति । “उभयकविः कमलरवि,कविशरभ भेरुण्ड” इत्येतानि एतस्य बिरुदानि । राघवाङ्कः १३ शतकस्य कविः ।

काव्यक्षेत्रे[सम्पादयतु]

काव्यक्षेत्रे मातुलः इव नूतनमार्गम् अनुसरन् श्रेष्ठकविः इति प्रसिद्धः अभवत् । “षट्पदि” (षड् पङ्क्तीनां काव्यम्) इति नूतन काव्यरचनमार्गम् उपयुज्य यशस्वी जातः । अस्माकं कृते उपलभ्यमानाः राघवाङ्कस्य कृतयः सोमनाथचरिता ,वीरेशचरिता , सिद्धरामपुराणं, हरिश्चन्द्रकाव्यं शरभसाहित्यञ्च । एतेन एव लिखितं इति कथ्यमानं “हरिहरमहत्त्वम्” न इतोपि प्राप्तम् । पुरातनकन्नड-नवीनकन्नडयोः योजनेन काव्यक्षेत्रे यत् सौन्दर्यं विकसितं सः कालः एव राघवाङ्कस्य कालः ।

शैली[सम्पादयतु]

कवेः राघवाङ्कस्य शैली अत्यन्तम् आकर्षणीयम् आसीत् । कन्नडलोकोक्त्याः शुद्धकन्नडवचनानि उपयुज्य परिणामकारियुक्तं काव्यं रचयति स्म । कवेः स्वस्य देशस्य तथा वचनस्य कृते अपारं प्रेम आसीत् । तुङ्गभद्रा एव गङ्गा, हम्पाक्षेत्रमेव काशी, विरूपाक्षः एव काशीविश्वनाथः इति तेन उक्तम् । षट्पदि सम्प्रदायम् अभ्यस्य “षट्पदिब्रह्म” इति प्रसिद्धः जातः कविः राघवाङ्कः ।

"https://sa.wikipedia.org/w/index.php?title=राघवाङ्क&oldid=369667" इत्यस्माद् पुनः प्राप्तिः